#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00002b Uniform title: ahirbudhnya saṃhita Volume 2 Main title: ahirbudhnya saṃhita of the pāñcarātrāgama Volume 2 Editor : Schrader, F. Otto Editor : Pandit M. D. Ramanujacarya Description: E-text transcribed from the ahirbudhnya saṃhita of the pāñcarātrāgama volume 2 edited by Pandit M. D. Ramanujacarya under the supervision of F. Otto Schrader Notes: This e-text was data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 15, 2007 Publisher : The Adyar Library and Research Center Publication year : 1916 Publication city : Publication country : India #################################################### न्यासापरपर्यायप्रपत्तिनिरूपणं नाम सप्तत्रिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || उक्तानुवादपूर्वकं सुदर्शनस्य षोडशभुजत्वप्रयोजनादिप्रश्नः नारदः - आख्यातं भवता सर्वं भगवन् परमेश्वर | सौदर्शनस्य यन्त्रस्य मन्त्रस्य स्वस्य च प्रभो || ३७-१ || अस्त्राणां चापि माहात्म्यं स्वरूपं लक्षणं तथा | आराधनं च योगश्च स्वभावश्च विशेषतः || ३७-२ || भुजैः षोडशभिर्वेति प्रोक्तं रूपोपवर्णने | तत् कदा केन कर्तव्यं किमर्थं कीदृशं वद || ३७-३ || राज्ञामत्याहितादिनिवारणं षोडशभुजत्वस्य प्रयोजनम् अहिर्बुध्न्यः - परैरभिभवे प्राप्ते राज्ञां बलसमन्वितैः | नगरेषु प्रदग्धेषु राज्ञां विद्राविते बले || ३७-४ || प्. ३५४) उपरुद्धेषु भोगेषु तत्तद्विषयवासिनाम् | पीड्यमाने परबलैरित्थं राष्ट्रे महामुने || ३७-५ || स्थितावनुपपन्नायां राज्ञोऽव्युच्छिन्नवैरिणः | कारयेत् षोडशभुजं सुदर्शनमवारितम् || ३७-६ || षोडशभुजसुदर्शनविग्रहवर्णनम् अपारमपरिच्छेद्यमवाङ्मनसगोचरम् | रक्तवर्णमुदाराङ्गं पीतकौशेयवाससम् || ३७-७ || विद्युत्पुञ्जप्रतीकाशैः केशैरूर्ध्वमुखैर्युतम् | पिङ्गलाघूर्णमानोग्रनेत्रत्रितयभीषणम् || ३७-८ || दष्टाधरस्फुटालक्ष्यदंष्ट्रानिष्ठ्यूतपावकम् | क्वणत्किङ्किणिजालेन काञ्चीदाम्ना विराजितम् || ३७-९ || नितम्बलम्बिनोपेतं ज्वलत्कौक्षेयकेण च | दधानं किङ्किणीमालां त्वलिमालानिनादिताम् || ३७-१० || आपादलम्बिनीं दिव्यां मुक्तारत्नाचितां तथा | झणज्झणितमञ्जीरशोभमानपदाम्बुजम् || ३७-११ || हारकेयूरताटङ्कमुकुटैरुपशोभितम् | अन्यैर्मणिमयैश्चित्रैर्भूषणैः समलंकृतम् || ३७-१२ || क्रमेण चक्रपरशुकुन्तदण्डाङ्कुशानि च | शस्त्राणि शतवक्त्राणि खड्गशक्ती च बिभ्रतम् || ३७-१३ || प्. ३५५) करैरूर्ध्वमुखैर्दीर्घैर्दक्षिणैरष्टभिः परैः | वामैः शङ्खधनुःपाशहलवज्राणि च क्रमात् || ३७-१४ || गदामुसलशूलानि भीमान्येतानि बिभ्रतम् | स्वसमाश्रितशत्रूत्थक्रोधेन महतावृतम् || ३७-१५ || भुग्नभ्रूकुटिलं वक्त्रं धारयन्तं विभीषणम् | प्रत्यालीढविशेषेण तिष्ठन्तं दीप्तिमालिनम् || ३७-१६ || कालाग्निरुद्ररूपेण संहरन्तमिदं जगत् | यथोक्तसुदर्शनध्यानस्य निःसापत्न्यसाधनता एवं सुदर्शनं ध्यायेत् कालात्मानं महाद्युतिम् || ३७-१७ || राजा तद्ध्यानमात्रेण निःसपत्नो भवेत् क्षणात् | न क्वाप्युपस्थितिस्तेषां सपत्नानां महीतले || ३७-१८ || नश्यन्ति शत्रवस्तत्र यत्र यत्र च विद्रुताः | सुदर्शनमनाराधयतां राज्ञां शत्रुपराभवादिः एवमेनमनाराध्य राजानोऽमितविक्रमाः || ३७-१९ || सपत्नैरभिभूयन्ते निःश्रीकाश्च भवन्ति वै | योगेन न्यासेन वा सुदर्शनाराधनस्यैहिकामुष्मिकफलसाधनता य एनं पूजयेद्भक्त्या पूर्वोक्तेनैव वर्त्मना || ३७-२० || बाह्येन चान्तरेणापि योगाख्येन महामुने | न्यासेन वा सुखी सोऽत्र परत्र च न संशयः || ३७-२१ || प्. ३५६) उक्तानुवादपूर्वकं न्यासाख्यप्रपत्तिस्वरूपप्रश्नः नारदः - बाह्य आभ्यन्तरश्चापि मम योगः पुरोदितः | न्यासाख्यं साधनं प्रोक्तं तन्मे ब्रूहि महेश्वर || ३७-२२ || न्यासस्य परमरहस्यत्वख्यापनम् अहिर्बुध्न्यः - एतन्महोपनिषदं देवानां गुह्यमुत्तमम् | अभीष्टार्थप्रदं सद्यः सर्वपापप्रणाशनम् || ३७-२३ || अवाच्यमेतत् सर्वस्मै नाभक्ताय कदाचन | भक्तोऽसि मे स्थिरश्चेति वक्ष्यामि हितकाम्यया || ३७-२४ || न्यासस्य सर्वफलसाधनत्वोपपादनम् यद्येन कामकामेन नासाद्यं साधनान्तरैः | मुमुक्षुणा यत् सांख्येन योगेन न च भक्तितः || ३७-२५ || प्राप्यते परमं धाम यतो नावर्तते पुनः | तेन तेनाप्यते तत्तन्न्यासेनैव महामुने || ३७-२६ || परमात्मा च तेनैव साध्यते पुरुषोत्तमः | प्रपत्तेः षडङ्गानि षोढा हि वेदविदुषो वदन्त्येनं महामुने || ३७-२७ || प्. ३५७) आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् | रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा || ३७-२८ || आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः | न्यासप्रकरणे शरणशब्दस्य साधनवाचित्वम् उपाये गृहरक्षित्रोः शब्दः शरणमित्ययम् || ३७-२९ || वर्तते सांप्रतं चैष उपायार्थैकवाचकः | प्रपत्तिलक्षणम् अहमस्म्यपराधानामालयोऽकिंचनोऽगतिः || ३७-३० || त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः | शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् || ३७-३१ || सुदर्शनप्रपत्तौ मन्त्रविशेषकथनम् भगवन् सर्वविजयिसहस्रारापराजित | शरणं त्वां प्रपन्नोऽस्मि श्रीकरं श्रीसुदर्शनम् || ३७-३२ || अनेन मन्त्रेण प्रपन्नस्य फलोत्पत्तिप्रतिबन्धकसकलदुरितनिवृत्तिः अनेनैव प्रपन्नस्य भगवन्तं सुदर्शनम् | तस्यानुबन्धाः पाप्मानः सर्वे नश्यन्त्यसंशयम् || ३७-३३ || प्रपन्नस्य कृतकृत्यत्वम् कृतान्यनेन सर्वाणि तपांसि तपतां वर | सर्वे तीर्थाः सर्वयज्ञाः सर्वदानानि च क्षणात् || ३७-३४ || प्. ३५८) कृतान्यनेन मोक्षश्च तस्य हस्ते न संशयः | न्यासमात्रेण तपोयज्ञादिसिद्धिकथंताप्रश्नः नारदः - कथं तपांसि यज्ञाश्च तीर्थदानानि सर्वशः || ३७-३५ || तस्यैव न्यासमात्रेण सिध्यन्ते तद्वद प्रभो | तदुत्तरकथने न्यासस्य सर्वतपोऽतिरिक्ततपस्त्वकथनम् अहिर्बुध्न्यः - यानि निःश्रेयसार्थानि चोदितानि तपांसि वै || ३७-३६ || तेषां तु तपसां न्यासमतिरिक्तं तपः श्रुतम् | नमःशब्देन कृतात्मन्यासस्य स्वध्वरत्वोपपादनम् समित्साधनकादीनां यज्ञानां न्यासमात्मनः || ३७-३७ || नमसा योऽकरोद् देवे स स्वध्वर उदीरितः | न्यासस्य परमधर्मत्वे प्रमाणप्रदर्शनम् यागसाधनभूतेन स्वात्मना वेद्यमीश्वरम् || ३७-३८ || अयजत् तानि धर्माणि प्रथमानीति नः श्रुतम् | न्यासस्य सर्वयज्ञसमत्वम् यज्ञरूपधरं देवं यजते स्वात्मनैव यः || ३७-३९ || तेन सर्वे कृता यज्ञा भवन्तीह महात्मना | न्यासस्य यज्ञत्वनिर्वहणाय यज्ञाङ्गपौष्कल्यरूपणम् यज्ञरूपधरस्यास्य शरीरं वेदिरिष्यते || ३७-४० || प्. ३५९) आस्यमाहवनीयाग्निर्हृदयं दक्षिणानलः | अथास्य गार्हपत्याग्निरुदरं श्रुतिचोदितम् || ३७-४१ || यजमानो मनस्तत्त्वं बुद्धिः पत्नी प्रकीर्तिता | स्वाश्रितप्रत्यनीका ये पशवस्ते प्रकीर्तिताः || ३७-४२ || लोमानि बर्हिषस्त्वस्य जीवं हव्यं प्रचक्षते | सवनानि शिरोमध्यगात्रपादाः प्रकीर्तिताः || ३७-४३ || दश यज्ञायुधान्यस्य ज्ञानकर्मेन्द्रियाण्यपि | ऋत्विजः षोडश भुजा देवस्यास्य महामुने || ३७-४४ || भक्तरक्षणसंकल्पो दीक्षा देवस्य नारद | ऋग्यजुःसामघोषोऽस्य भूषणाराव इष्यते || ३७-४५ || सदस्या भूषणान्यस्य दया देवस्य दक्षिणा | जुहूर्ध्रुवा स्रुवश्चैव प्राशित्रहरणं तथा || ३७-४६ || मेक्षणोपभृतौ वेद इडापात्री तथैव च | दारुपात्रं च योक्त्रं च चमसः सृष्टिरेव च || ३७-४७ || पिष्टोद्वपन्याज्यस्थाल्याविध्मप्रव्रश्चनं तथा | मदन्तीत्यस्य शस्त्रेषु चक्राद्येषु समाश्रिताः || ३७-४८ || प्रपन्नस्य कृतकृत्यत्वनिगमनम् एवंरूपं तमभ्यर्च्य प्रक्षीणाशेषपातकः | अनुष्ठितक्रतुशतो भवेदेष न संशयः || ३७-४९ || प्. ३६०) यथोक्तक्रमेण सुदर्शनमनाराधयतां क्लेशप्राप्तिनिगमनम् एवं बहुविधै रूपैरुपेतं तं सुदर्शनम् | कृत्वा तमप्रतिष्ठाप्य राजानो मन्त्रिणोऽपि वा || ३७-५० || विनष्टसंपदः सद्यः परिभूताश्च शत्रुभिः | अर्चनाभावतो राज्याद् भ्रष्टाश्चिरमुपद्रुताः || ३७-५१ || सुदर्शनमनाराधयतां राज्ये ब्रह्महत्यादिदोषोत्पत्तिः स्वराज्यं ब्रह्महत्यादिदोषैर्दुष्येन्महामुने | समिदित्यस्य ऋग्वेदश्रुतिराह (१) दयावती || ३७-५२ || सुदर्शनमनाराधयतां राज्ञां प्रजानुरागाभावः अनभिध्यानतो ह्यस्य विश्वे विषयवासिनः | अपरक्ताश्च जायन्ते महाराजे कृतागसि || ३७-५३ || राज्ये सुदर्शनानाराधनात् प्रजानामपि बहुदुःखभागिता अश्रद्दधानाश्चैतस्मिन्निह जन्मनि दुःखिनः | _______________ १ अत्रेदं ऋग्वेदश्रुतिद्वयं बोध्यम्- यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये | यो नमसा स्वघ्वरः || तस्येदर्वन्तो रंहयन्त आशवस्तस्य द्युम्नितमं यशः | न तमंहो देवकृतं कुतश्चन न मर्त्यकृतं नशत् || (ऋग्वेदे ८-१९, ६.) _______________ प्. ३६१) प्रेत्याधोऽधः पतन्त्येव नाप्नुवन्ति सुखं क्वचित् || ३७-५४ || सुदर्शनसमाराधनस्य सर्वफलावाप्तिसाधनतानिगमनम् तद्यज्ञरूपं सुसमाश्रितानां रक्षाविधाने कृतदीक्षमीशम् | सुभीषणं षोडशबाहुयुक्तं स्वशत्रुपक्षक्षपणप्रवृत्तम् || ३७-५५ || यथोक्तरूपं धृतसर्वशस्त्र- मुपेतमस्त्रैरपि मूर्तिमद्भिः | पटे लिखित्वा शिलयाथवार्चां विधाय लोहैरुत बिम्बमस्य || ३७-५६ || समर्चयेद्यो नृपतिः प्रतिष्ठां विधाय भक्त्याथ सुदर्शनेशम् | क्षणेन सिध्यन्ति मनीषितानि विपक्षनाशश्च भवेदमुष्य || ३७-५७ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां न्यासापरपर्यायप्रपत्तिनिरूपणं नाम सप्तत्रिंशोऽध्यायः || ३७ || आदितः श्लोकाः २३७६ ज्वरादिरोगनिवृत्त्युपायविधानं नाम अष्टात्रिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि || उक्तानुवादपूर्वकं रोगमोचनोपायप्रश्नः नारदः - आख्यातं भवता राज्ञां परेभ्यो रक्षणं परम् | तथैव सर्वे सर्वज्ञ पुरुषार्थाः समीरिताः || ३८-१ || तत्साधनानि चान्यच्च प्रसङ्गात् समुदीरितम् | इदं त्विदानीं भगवन् व्याख्याहि मम पृच्छतः || ३८-२ || राज्ञां तत्सचिवानां च तथान्येषां नृणामपि | रोगाः क्रूरतरास्तेषां पुरुषार्थविरोधिनः || ३८-३ || संभवन्ति हि तेषां तु मोचनं केन सिध्यति | रोगोत्पत्तितद्विनाशकारणकथनम् अहिर्बुध्न्यः - साधु पृष्टं मुने रोगा जायन्ते येन दुःसहाः || ३८-४ || शृणु येनैव नश्यन्ति तद् वक्ष्यामि तवाधुना | प्. ३६३) प्राकृतप्रलये एकाकिनः परमपुरुषस्य रमणाभावः प्राकृते सर्वलोकस्य संप्राप्ते प्रतिसंचरे || ३८-५ || ब्रह्मायुषि परिक्षीणे नष्टे स्थावरजङ्गमे | सर्वभूतेषु भूतादौ प्रलीनेषु महामुने || ३८-६ || भूतादाविन्द्रियादौ च तैजसे महति स्थिते | ततो महति याते तु प्रकृतिं बुद्धिलक्षणे || ३८-७ || तथा च पुरुषे तस्यां प्रलीने पञ्चविंशके | तस्यामपि प्रलीनायां पुरुषे पुष्करेक्षणे || ३८-८ || स एव सर्वं संहृत्य स्वस्मिन् परमपूरुषः | भगवान् पुण्डरीकाक्षः परमात्मा जगन्मयः || ३८-९ || एकाकी स तदा नैव रमते स्म सनातनः | लीलार्थं पुनः सृष्टिः स लीलार्थं पुनश्चेदमसृजत् पुष्करेक्षणः || ३८-१० || नामरूपव्याकरणम् स पूर्वं नामरूपाणि चक्रे सर्वस्य सर्वगः | लीलोपकरणभूतप्रकृत्या परमात्मनो रमणम् लीलोपकरणां देवः प्रकृतिं त्रिगुणात्मिकाम् || ३८-११ || मायासंज्ञां पुनः सृष्ट्वा तया रेमे जनार्दनः | प्रकृत्या जीवपरयोः स्वरूपप्रच्छादनम् सा तु सर्वाणि भूतानि तत्तच्छक्तिसमन्विता || ३८-१२ || प्. ३६४) मोदयन्ती च तन्वाना स्वस्यां भोग्यधियं तथा | वर्तते जीवपरयोः स्वरूपाच्छादनाय सा || ३८-१३ || प्रकृतिपारवश्याज्जीवस्य संसरणम् तया विवशमेतत्तु संसरत्यखिलं जगत् | प्रकृतेर्देहात्मभ्रमहेतुत्वम् तयैव प्रथमं देहे करोत्यात्मधियं नरः || ३८-१४ || सैवास्वे स्वत्वधीहेतुः ततः शरीरसंबन्धिपुत्रादौ ममतां गतः | अहंकारममकारोत्थवासनादार्ध्यम् ततोऽहंकारजास्तस्य ममतोत्थाश्च वासनाः || ३८-१५ || भवन्ति देहे पुत्रादौ दृढबद्धाश्चिरं मुने | तदुत्थवासनानां रागद्वेषद्वारा पुण्यपापहेतुत्वम् ततः स्वदेहे पुत्रादावुपकार्यपकारिषु || ३८-१६ || रागद्वेषौ च भवतस्ताभ्यां सर्वं विचेष्टते | कपूयरमणीये च तदुत्थे संचिनोत्ययम् || ३८-१७ || ततो जात्यायुर्भोगरूपकर्मविपाकप्राप्तिः तद्विपाकानथाप्नोति जात्यायुर्भोगलक्षणान् | प्रारब्धकर्मफलोपभोगायैव शरीरसृष्टिः अतः फलोपभोगार्थमुभयेषां च कर्मणाम् || ३८-१८ || प्. ३६५) प्रारब्धानामिदं सृष्टं शरीरं च शरीरिणः | रोगाणां पापजन्यत्वम् पाप्मभ्य एव जायन्ते प्रारब्धेष्वामयास्तनौ || ३८-१९ || नानाविधा दुःखवरा भुज्यन्ते देहिनापरे | तत्र प्रथमं ज्वरशान्त्युपायः ज्वराभिभूते नृपतौ सचिवेऽन्यजनेऽथवा || ३८-२० || महासुदर्शनं यन्त्रं कथितं मन्त्रकोविदैः | गुडूचीराज्यसंसिक्ताश्चतुरङ्गुलसंमिताः || ३८-२१ || मन्त्रेणानेन जुहुयात् सहस्रं ज्वलितेऽनले | चक्राम्बुजं च विन्यस्य स्थण्डिले शालितण्डुलैः || ३८-२२ || तत्र पात्रं निधायाज्यं प्रस्थपूर्णं निधाय च | तस्यां पलप्रमाणेषु तन्तुष्वारोप्य दीपिकाम् || ३८-२३ || तत्राप्येनं समावाह्य मन्त्रेणानेन मन्त्रवित् | ततः पश्चिमभागे तु स्थण्डिले मण्डिते शुचौ || ३८-२४ || आस्तीर्य कलमांस्तत्र न्यसेन्माहेन्द्रमण्डलम् | तन्मध्ये षडरं चक्रं मध्ये तारं च विन्यसेत् || ३८-२५ || तन्तुजालेन संवेष्ट्य नवकुम्भं सुशोभनम् | चन्द्रचन्दनकाश्मीरमिश्रैरापूर्य वारिभिः || ३८-२६ || तद्बहिश्चन्दनाद्यैस्तमर्चयेदक्षतैरपि | प्. ३६६) रत्नानि पञ्च पद्मं च दूर्वां हाटकमेव च || ३८-२७ || श्यामाकं विष्णुपर्णीं च देवीं चान्तर्विनिक्षिपेत् | मध्येकुम्भं समावेष्ट्य क्षौमेण नवमालया || ३८-२८ || तं तारमध्ये संस्थाप्य साध्यनामयुते शुभे | पूर्णचन्द्रमभिध्यायंस्तत्र चावाहयेत् प्रभुम् || ३८-२९ || तं धूपदीपमाल्याद्यैः समभ्यर्च्य यथाविधि | शाल्यन्नं दधिमध्वाज्यसर्वव्यञ्जनसंयुतम् || ३८-३० || हृद्यं साज्यं गुडं दद्याद् देवाय हविरुत्तमम् | बलिं ततो हरेद् दिक्षु विदिक्षु च समाहितः || ३८-३१ || शाल्यन्नैः श्वेतपुष्पैश्च धूपदीपादिभिस्तथा | दिक्पालानां ततो दद्यात् क्षेत्रेशायापि नारद || ३८-३२ || आसने प्राङ्मुखं साध्यमुपवेश्याथ सज्वरम् | दर्पणं तस्य संस्थाप्य पुरस्तात् प्रतिबिम्बितम् || ३८-३३ || कुम्भमादाय मन्त्रेण दर्पणं सोऽभिषेचयेत् | सद्य एव ज्वरान्मुक्तो भवेन्मेघादिवोडुराट् || ३८-३४ || अथ द्विजेभ्यो विद्वद्भ्यो वैष्णवेभ्यो विशेषतः | निष्कत्रयं हिरण्यस्य द्रोणं चाज्यस्य गां तथा || ३८-३५ || कर्पूरं चन्दनं चापि वासांसि विमलान्यपि | एतानि दद्यादेकस्मै मुने ब्रह्मविदेऽथवा || ३८-३६ || प्. ३६७) ततः स्वस्थो भवेत् सद्यो यावज्जीवं न संशयः | एषा चिकित्सा प्रकृतिर्व्याधीनां मात्रया भिदा || ३८-३७ || राजयक्ष्मशान्तिः राजयक्ष्माभिभूते तु नृपादौ मुनिसत्तम | मध्वक्ताभिरपामार्गसमिद्भिः खादिरेऽनले || ३८-३८ || मन्त्रेणानेन जुहुयात् सहस्रं मन्त्रवित्तमः | ततः प्रतीच्ये दिग्भागे पूर्ववत् कल्पितेऽनले || ३८-३९ || आढकाज्याभिपूर्णायां पात्र्यां द्विपलतन्तुषु | आरोप्य दीपिकां पश्चाद् देवमावाह्य मन्त्रतः || ३८-४० || ततः पाश्चात्त्यभागे तु भारशालिपरिष्कृते | स्थण्डिले मण्डिते शुद्धे कृत्वा माहेन्द्रमण्डलम् || ३८-४१ || पूर्ववत् षडरं चक्रं विन्यस्यारेष्वमुष्य च | मन्त्रवर्णानि विन्यस्य साध्यनाम च तारके || ३८-४२ || पूर्ववन्मन्त्रितं कुम्भं तत्र संस्थाप्य मण्डले | आवाह्य देवमभ्यर्च्य पूर्ववच्चक्ररूपिणम् || ३८-४३ || हविश्च पायसं दद्यात् खण्डमध्वाज्यसंयुतम् | बलिं च पूर्ववत् कुर्यात् पायसेन विशेषतः || ३८-४४ || गुरुक्षेत्रेशविघ्नेशदुर्गादिक्पालकान् प्रति | प्रावृत्य कम्बलेनैनं साध्यं प्राङ्मुखमासने || ३८-४५ || प्. ३६८) आसीनं मन्त्रतः कुम्भवारिभिश्चाभिषेचयेत् | अन्वहं दर्पणाविष्टं स्नापयेच्छायया पुनः || ३८-४६ || निष्कद्वयं हिरण्यस्य द्विनिष्कं रजतं तथा | कम्बलं स्वधृतं वस्त्रं तिलानां द्रोणमेव च || ३८-४७ || कमण्डलुं कांस्यपात्रं छत्रं चोपानहौ तथा | एकस्मै ब्राह्मणायैव विदुषे चास्तिकाय वै || ३८-४८ || दद्यादेतानि सर्वाणि सर्वसत्कारपूर्वकम् | प्रयोक्तारं धनैरेवमभ्यर्च्य प्रयतो भवेत् || ३८-४९ || सद्यस्तस्मान्महारोगाद् विमुक्तो नात्र संशयः | प्रमेहरोगशान्तिः एवं प्रमेहरोगेण गृहीते च महामुने || ३८-५० || सहस्रं जुहुयान्मन्त्री मन्त्रेणानेन बैल्वकैः | माषौदनं हविर्दद्याद् बलिं चानेन कारयेत् || ३८-५१ || अभिषेकं स्वयं कुर्यादन्यत् पूर्ववदाचरेत् | दद्याद् द्रोणं च माषाणां रजतं पञ्चनिष्ककम् || ३८-५२ || एकं चानडुहं सद्यो नीरोगः स्यान्महामुने | उदररोगशान्तिः तथौदरैर्महारोगैर्गुल्मशूलादिभिश्चिरम् || ३८-५३ || अभिभूतेषु मर्त्येषु वक्ष्ये प्रतिविधिं शृणु | पूर्ववत् कुम्भमभ्यर्च्य सुदर्शननिषेवितम् || ३८-५४ || प्. ३६९) तत्पूर्वभागे प्रज्वाल्य ज्वलनं कुण्डमध्यमे | समिद्भिरार्कैर्जुहुयादाज्याक्तैर्द्विसहस्रकम् || ३८-५५ || तिलैश्च जुहुयात् तद्वन्मन्त्रेणानेन मन्त्रवित् | ततः कुम्भोदकं स्पृष्ट्वा सहस्रं च जपेन्मनुम् || ३८-५६ || ततो हरेद् बलिं मन्त्री दिक्पालानां यथाक्रमम् | भूतप्रेतपिशाचानां क्षेत्रेशस्यापि नारद || ३८-५७ || शुक्लौदनैः शुक्लपुष्पैः पिष्टैः शुक्लध्वजैरपि | कुम्भाधिवासितं देवं पूजयेद् विधिवत् ततः || ३८-५८ || हविर्निवेदयेच्छुद्धैरोदनैः कल्पितं बहु | शर्करामधुदध्याढ्यं सर्वव्यञ्जनसंयुतम् || ३८-५९ || ततः कुम्भोदकं किंचिदादायानेन मन्त्रितम् | पाययेद्रोगिणं मन्त्री मन्त्रोच्चारणपूर्वकम् || ३८-६० || ततः कुम्भोदकेनैव प्राङ्मुखं स्नापयेद् बुधः | तर्पयेद् ब्राह्मणान् सप्त यथाशक्ति समाहितः || ३८-६१ || गुरुं बहुधनैर्वस्त्रैर्भूषणैर्धान्यराशिभिः | सर्वे तस्यौदरा रोगा विनश्यन्ति न संशयः || ३८-६२ || ततः स्वस्थो भवेन्मर्त्यो देववन्मोदतेऽनिशम् | प्. ३७०) अपस्मारशान्तिः अपस्माराभिभूते तु नरे प्रतिविधिं शृणु || ३८-६३ || भूतले गोमयालिप्ते समे मङ्गलसंयुते | तिलभारद्वयं तत्र प्रस्तीर्य चतुरश्रकम् || ३८-६४ || द्विहस्तसंमितं तत्र यन्त्रं सौदर्शनं न्यसेत् | पूर्वोक्तेन प्रकारेण विनैवाखिलमूर्तिभिः || ३८-६५ || सुदर्शनं नृसिंहं च विना मन्त्राभिसंहितम् | सौदर्शनं महायन्त्रं मध्ये पूर्वोक्तवर्त्मना || ३८-६६ || प्रणिधायोदकुम्भं तु तन्तुभिः परिवेष्टितम् | पूर्वोक्तद्रव्यसंयुक्तं कम्बलेनाभिवेष्टितम् || ३८-६७ || पूर्वेण मण्डलं वह्निं निधाय विधिवत् ततः | अनेन मनुना कुर्याद् द्विसहस्रं तिलाहुतीः || ३८-६८ || ततः कुम्भं स्पृशन्मन्त्रमष्टोत्तरसहस्रकम् | जपेन्मन्त्राभिपूतेन वारिणानेन मन्त्रवित् || ३८-६९ || ग्रहाभिभूतमासीनं प्राङ्मुखं चाभिषेचयेत् | ततो मुक्तग्रहस्तेन क्षणेनैव सुखी भवेत् || ३८-७० || सर्वे चान्ये ग्रहास्तं तु न क्षमन्ते हि वीक्षितुम् | धनधान्यैश्च वासोभिः स गुरुं पूजयेत् ततः || ३८-७१ || प्. ३७१) यस्मिन् यन्त्रे तु यद् द्रव्यं तच्च तस्मै निवेदयेत् | ब्राह्मणांस्तर्पयेत् पश्चादष्टौ तिलसुवर्णकैः || ३८-७२ || रजतैश्चापि महिषीं साधकाय निवेदयेत् | ततः स्वस्थो भवेन्मर्त्यो देववन्मोदते भुवि || ३८-७३ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां ज्वरादिरोगनिवृत्त्युपायविधानं नाम अष्टात्रिंशोऽध्यायः || ३८ || आदितः श्लोकाः २४४९ सर्वफलसाधनभूतमहाभिषेकविधानं नाम एकोनचत्वारिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || केन प्रयोगेण सर्वार्थसिद्धिरिति प्रश्नः नारदः - भगवन् ब्रूहि सर्वज्ञ येनैकेनैव कर्मणा | सर्वरोगा विनश्यन्ति केन सर्वे च शत्रवः || ३९-१ || केन सर्वार्थसिद्धिः स्याज्जगत् केन वशं भवेत् | विभूतिर्विमला केन प्राप्यते कर्मणा वद || ३९-२ || तदुत्तरकथनारम्भः अहिर्बुध्न्यः - श्रूयतां चावधानेन गुह्यमेतन्महामुने | येनैकेन प्रयोगेण सर्वार्थाः संभवन्ति हि || ३९-३ || महाभिषेकाख्यकर्मविधिः राज्ञश्च मन्त्रिणां चैव सर्वेषामधिकारिणाम् | प्. ३७३) पदात् स्वस्मादुपारोढुकामानां परमं पदम् || ३९-४ || अन्येषां लौकिकानां च यत् किंचिद् वाञ्छतां तथा | कार्यं महाभिषेकाख्यं कर्म सर्वार्थसाधकम् || ३९-५ || तदङ्गतया स्थानादिविशेषविधिः वासुदेवालयोद्यानमण्डपे मन्दिरेऽथवा | समे पवित्रिततले मङ्गलाष्टकसंयुते || ३९-६ || विकीर्य कलमांस्तत्र नवभाराभिसंमितान् | माहेन्द्रमण्डलं न्यस्य बाह्यतो जातिपुष्पकैः || ३९-७ || मध्ये सौदर्शनं यन्त्रमुक्तेनैव तु वर्त्मना | विन्यसेद् गन्धपुष्पैश्च तन्मध्ये च सुशोभनम् || ३९-८ || तन्मध्ये विन्यसेन्मन्त्री यन्त्रबिम्बमनुत्तमम् | तस्याग्रे मूलमन्त्रेण कुम्भं तन्तुपरिष्कृतम् || ३९-९ || आवाहयेद् गन्धतोये नवरत्नसमन्वितम् | चन्दनागुरुकर्पूरकाश्मीरक्षोदमण्डितम् || ३९-१० || अक्षतैश्च परिक्षिप्तं शुद्धक्षौमाभिवेष्टितम् | गन्धवत्कुसुमाकीर्णं धूपदीपसमन्वितम् || ३९-११ || मुखान्तरे तथा कार्ये कुम्भकुण्डे स्वलंकृते | प्रतिष्ठाप्याष्टदिग्भागे पूर्णकुम्भानलंकृतान् || ३९-१२ || आचक्रायेतिमन्त्राद्यैरग्निप्राकारकान्तकैः | प्. ३७४) प्रागादि विन्यसेन्मन्त्रैः प्रत्येकं पूजयेत् ततः || ३९-१३ || प्रागादिदिक्षु मध्ये चाग्निकुण्डविधिः सर्वत्र कुम्भप्राग्भागेष्वग्निकुण्डानि विन्यसेत् | प्रासादलक्षणं कुण्डं मध्ये कुर्यात् स्वलंकृतम् || ३९-१४ || प्रागाद्यग्निकुण्डानां लक्षणकथनम् प्राच्यां दिशि चतुष्कोणमाग्नेययां तु त्रिकोणकम् | याम्ये त्वर्धेन्दुसंकाशं नैर्-ऋत्यां योनिसंनिभम् || ३९-१५ || वारुण्यां पद्मसंकाशं वायव्यामष्टकोणकम् | वृत्तमुत्तरदिग्भागे चैशान्यां तु षडश्रकम् || ३९-१६ || दिशां होमेषु वैष्णवर्त्विग्वरणम् वैष्णवानृत्विजश्चाष्टौ दिशां होमेषु योजयेत् | मध्ये तु साधको मन्त्री जुहुयाज्ज्वलितेऽनले || ३९-१७ || होमे द्रव्यसंख्ययोर्विधिः प्रत्येकं जुहुयादाज्यैरष्टोत्तरसहस्रकम् | होमे मन्त्रविधिः सर्वत्र मूलमन्त्रेण जुहुयाद् ध्यानपूर्वकम् || ३९-१८ || कुम्भाभिमन्त्रणविधिः होमान्ते देवमभ्यर्च्य सर्वकुम्भेषु साधकः | प्. ३७५) स्पृष्ट्वा तु ताञ्जपेन्मन्त्रं साध्यनामपुटीकृतम् || ३९-१९ || अष्टोत्तरसहस्रं तु सर्वत्र विधिवत् ततः | निवेशयेन्महायन्त्रसंमुखं साध्यमासने || ३९-२० || प्रथमं प्रागादिकुम्भजलैरभिषेकः ततो भेरीनिनादैश्च शङ्खकाहलनिस्वनैः | सहितं स्नापयेदेनं प्राच्याद्यैः कुम्भवारिभिः || ३९-२१ || ततः पूर्णकुम्भजलेनाभिषेकः पश्चान्मध्यममादाय पूर्णकुम्भं स्वलंकृतम् | तद्वारिणाभिषिच्यान्ते मन्त्रं मन्त्रीजपेत् स्वयम् || ३९-२२ || यथोक्ताभिषेकेण सर्वकामावाप्तिः ततस्तेनाभिषेकेण निर्धूताशेषकिल्बिषः | राजते हिमसंरोधान्निर्मुक्त इव भास्करः || ३९-२३ || सर्वे तमनघं कामा वृणते स्वयमेव हि | विना राजानमेतेन कुर्याच्चान्याभिषेचनम् || ३९-२४ || एवं महाभिषेके तु कृते पूर्णे महात्मना | यस्य यद् वाञ्छितं तस्य हस्तस्थं तन्न संशयः || ३९-२५ || आयुष्कामी तथायुष्यमारोग्यार्थी तदश्नुते | प्. ३७६) अर्थार्थी चार्थमाप्नोति पशुकामस्तथा पशून् || ३९-२६ || अपुत्रः पुत्रमाप्नोति निर्गुणो गुणवान् भवेत् | कन्यार्थी लभते कन्यां जिगीषुर्जयमश्नुते || ३९-२७ || स्वपदं पदहीनस्तु पदार्थी परमं पदम् | अन्नकामश्च बह्वन्नं यशोऽर्थी चाश्नुते यशः || ३९-२८ || किमत्र बहुनोक्तेन यद्यन्मनसि वर्तते | तत्तत् सद्यः समाप्नोति नात्र कार्या विचारणा || ३९-२९ || अन्ते साधकार्चनविधिः एवं कृताभिषेकस्तु पूर्णकामोऽथ मानवः | सुवर्णैर्बहुरत्नैश्च वस्त्रैर्माल्यानुलेपनैः || ३९-३० || अर्चयेत् साधकं सम्यग् दद्याद्धेनुं सवत्सकाम् | तस्मै शिष्टं च यद् द्रव्यमभिषेकपरिच्छदम् || ३९-३१ || तच्च दद्यात् तथा पात्रीं पायसेनाभिपूरिताम् | ऋत्विजां ब्राह्मणानां च परितोषणविधिः प्रत्येकं निष्कदानेन तोषयेदृत्विजोऽखिलान् | तर्पयेद् ब्राह्मणानन्यान् यथाशक्ति समाहितः || ३९-३२ || इति श्रीपञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां सर्वफलसाधनभूतमहाभिषेकविधानं नाम एकोनचत्वारिंशोऽध्यायः || ३९ || आदितः श्लोकाः २४८१ अस्त्रस्वरूपतच्छक्तिनिरूपणं नाम चत्वारिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || उक्तानुवादपूर्वकमस्त्रसंस्थानतच्छक्तिस्वरूपप्रश्नः नारदः - भगवन् देवदेवेश विश्वामरवरार्चित | यद्यन्मया पुरा पृष्टं तत्त्वतस्तत् तदीरितम् || ४०-१ || दिव्यास्त्राणां तु सर्वेषां मन्त्ररूपाश्च मूर्तयः | कथिता भवता सम्यक् पृच्छतो मे सविस्तरम् || ४०-२ || किंसंस्थानान्यथास्त्राणि किंशक्तीनि परंतप | मयि सानुग्रहं चेतस्तव चेद् वक्तुमर्हसि || ४०-३ || तदुत्तरकथनाय तेषां परमगुह्यत्वख्यापनम् अहिर्बुध्न्यः- तदेतत् परमं गुह्यमवाच्यमतिदुर्लभम् | अस्त्राणां स्वरूपेण प्रत्यक्षागोचरता न चाविरासन्नस्त्राणि स्वस्वरूपेण कस्यचित् || ४०-४ || सुरासुरैर्नियुज्यन्ते मन्त्ररूपेण तानि वै | प्. ३७८) देवकार्यार्थमिन्द्रं प्रति कदाचित् तेषां गोचरता एकदा वृत्रनिधने वासवस्य स्वरूपतः || ४०-५ || आविर्बभूवुरेतानि सुरकार्यमिदं त्विति | मन्त्ररूपेणासाध्ये विषये तेषां स्वस्वरूपाविष्करणम् मन्त्रस्वरूपैश्चासाध्ये विषये स्वस्वरूपतः || ४०-६ || आविष्कुर्वन्ति चास्त्राणि भीषणानि परं मुने | एषां दर्शनमात्रेण विनश्यन्त्यरिसैनिकाः || ४०-७ || भगवता तेषां स्वरूपेण धारणम् चक्रस्वरूपी भगवांस्तानि धत्ते स्वरूपतः | तत्स्वरूपतच्छक्तिकथनप्रतिज्ञा स्वरूपाणि तथा तेषां शक्तीश्च कथयामि ते || ४०-८ || १ - नारायणास्त्रम् शृणु नारायणास्त्रस्य स्वरूपं प्रथमं मुने | सहस्रधारमत्युग्रं सहस्रार्कसमप्रभम् || ४०-९ || तैजसं विस्तृताग्रं तन्मोहिनीकुसुमोपमम् | २ - पाशुपतास्त्रम् प्रतिपच्चन्द्रसंकाशमध्याष्टाश्रविदीपितम् || ४०-१० || प्. ३७९) शतधारं तडिद्दीप्तमेतत् पाशुपतं मतम् | ३ - ब्राह्मास्त्रम् सहस्रारसमायुक्तं विद्युत्पुञ्जोपमाकृति || ४०-११ || प्रस्तरप्रतिमं मुष्टिग्राह्याग्रं ब्राह्ममीरितम् | ४ - ब्रह्मशिरोऽस्त्रम् दंष्ट्राकरालं दष्टोष्ठं पिङ्गलाक्षं विभीषकम् || ४०-१२ || गृहीतपिङ्गकेशाग्रमेतद् ब्रह्मशिरो मतम् | ५ - विष्णुचक्रास्त्रम् विष्णुचक्रमिति ख्यातं सहस्रारं सुदर्शनम् || ४०-१३ || ६ - जृम्भणास्त्रम् जृम्भणं त्वष्टवक्राङ्गं दण्डमेवं विदुर्बुधाः | ७ - कालपाशास्त्रम् भीमाकारं पाशमेव कालपाशमिति स्मृतम् || ४०-१४ || ८ - आग्नेयास्त्रम् षट्कोणाग्रं ज्वलज्ज्वालमस्त्रमाग्नेयमुत्तमम् | ९ - हयशिरोऽस्त्रम् ज्वालाविलं वाजिवक्त्रमस्त्रं हयशिरो मतम् || ४०-१५ || प्. ३८०) १० - प्रस्वापनास्त्रम् प्रस्वापनं कुवलयस्तबकस्तम्बसन्निभम् | ११ - तामसास्त्रम् सतोयतोयदप्रख्यं तामसास्त्रमुदीरितम् || ४०-१६ || १२ - कालास्त्रम् कालास्त्रं भीषणं दण्डं षष्टिघण्टासमाकुलम् | १३ - दण्डचक्रास्त्रम् आद्यन्तचक्रयुग्दण्डं दण्डचक्रमिति स्मृतम् || ४०-१७ || १४ - कालचक्रास्त्रम् कालचक्रं चतुष्कोणं पर्यन्तस्थितराशिमत् | १५ - धर्मचक्रास्त्रम् धर्मचक्रं सुवृत्तं स्याद् दशयज्ञायुधाङ्कितम् || ४०-१८ || १६ - शैवास्त्रम् शैवं शतमुखाग्निस्तु दण्डवत् परिकीर्त्यते | १७ - शूलास्त्रम् शूलं तु त्रिदलं प्रोक्तं तीक्ष्णधारं सुदण्डकम् || ४०-१९ || १८ - परश्वस्त्रम् परशू रौद्रमस्त्रं च तीक्ष्णधारं भयावहम् | प्. ३८१) १९ - त्रिशूलास्त्रम् शूलत्रयाङ्कितमुखं त्रिशूलं दण्डवद् भवेत् || ४०-२० || २० - घोरास्त्रम् घोरं नारा च रूपं स्यादस्त्रमाहुर्मनीषिणः | २१ - अघोरास्त्रम् कृष्णास्यं पिङ्गनयनं ज्वालाकेशोर्ध्वबन्धनम् || ४०-२१ || अघोरास्त्रमिदं प्रोक्तं नाम्ना चैवासिधारकम् | २२ - संमोहनास्त्रम् अस्त्रं संमोहनं नाम कमलं नालसंयुतम् || ४०-२२ || २३ - ऐषीकास्त्रम् ऐषीकं शरनालाभमस्त्रमाहुर्विचक्षणाः | २४ - ऐन्द्रचक्रास्त्रम् वज्राङ्कितचतुष्कोणं नटाभममितद्युति || ४०-२३ || ऐन्द्रचक्राख्यमस्त्रं तत् परवैरिभयंकरम् | २५ - शुष्काशन्यस्त्रम् सदा ज्वलितसर्वाङ्गं महिषाकृति भीषणम् || ४०-२४ || शुष्काशनिरिदं प्रोक्तमस्त्रमङ्गारसंनिभम् | प्. ३८२) २६ - आर्द्राशन्यस्त्रम् तादृशं शुक्लवर्णं तदार्द्राशनिरिति स्मृतम् || ४०-२५ || २७ - पैनाकास्त्रम् पैनाकमस्त्रं परमं धनुस्तक्षकसंनिभम् | २८ - कङ्कालास्त्रम् कङ्कालाख्यं भवेदस्त्रं पिशाचाकृति भीषणम् || ४०-२६ || २९ - कापालास्त्रम् कपालमालिकामाहुः कापालास्त्रमनुत्तमम् | ३० - सौरास्त्रम् सौरमस्त्रं समाख्यातं सूर्यबिम्बपरंपरा || ४०-२७ || ३१ - वरुणपाशास्त्रम् अस्त्रं वरुणपाशाख्यं शीताकृति सुदारुणम् | ३२ - संतापनास्त्रम् लगुडं शङ्कुजालाढ्यं संतापनमिदं विदुः || ४०-२८ || ३३ - वारुणास्त्रम् वारुणं जालकाकारं द्वात्रिंशच्छिद्रसंयुतम् | प्. ३८४) ३४ - धर्मपाशास्त्रम् सर्वतत्त्वमयं दाम धर्मपाशमिति स्मृतम् || ४०-२९ || ३५ - ३६ - शक्तिद्वयास्त्रम् शक्तिरेका प्रसिद्धैव शक्त्यन्तरमथोच्यते | द्विशिरस्कैकनाला च दशघण्टाविभूषिता || ४०-३० || ३७ - वायव्यास्त्रम् वायव्यमस्त्रं सारङ्गः सशृङ्ग इव पठ्यते | ३८ - मौसलास्त्रम् मौसलं मुसलं प्रोक्तं विद्युद्दण्डमिवोज्ज्वलम् || ४०-३१ || ३९ - गान्धर्वास्त्रम् गान्धर्वमस्त्रमादिष्टं वीणादण्डोपमाकृति | ४० - दर्पणास्त्रम् दर्पणं दर्पणं प्रोक्तमस्त्रं पूर्णेन्दुसंनिभम् || ४०-३२ || ४१ - शोषणास्त्रम् शोषणं विकटं शृङ्गमस्त्रं परविशोषणम् | ४२ - पैशाचास्त्रम् पैशाचमस्त्रं परममुल्कामुखमुदाहृतम् || ४०-३३ || प्. ३८४) ४३ - तेजःप्रभास्त्रम् तेजःप्रभं स्मृतं प्रासप्रतिमं परदारणम् | ४४ - ऐन्द्रास्त्रम् ऐन्द्रमस्त्रं वज्ररूपं तेजसां निलयं स्मृतम् || ४०-३४ || ४५ - विलापनास्त्रम् अस्त्रं विलापनं नाम धाराधरमुदाहृतम् | ४६ - वैद्याधरास्त्रम् वैद्याधरास्त्रमाहुस्तत् पुष्पमालां तु मोहिनीम् || ४०-३५ || ४७ - कङ्कालास्त्रम् अस्त्रं कङ्कालसंज्ञं स्यान्महाघण्टानिनादितम् | ४८ - मोदक्यस्त्रम् मोदकी नाम परमा वल्लरी पुष्पशालिनी || ४०-३६ || ४९ - शिखरास्त्रम् शिखरं नाम खट्वाङ्गमायुधं परिचक्षते | ५० - क्रौञ्चास्त्रम् क्रौञ्चमस्त्रं महत् पक्षी क्रौञ्चाकृतिरिहोच्यते || ४०-३७ || प्. ३८५) ५१ - असिरत्नास्त्रम् असिरत्नाह्वयं दिव्यमस्त्रं खड्गो महाद्युतिः | ५२ - प्रशमनास्त्रम् अस्त्रं प्रशमनं नाम प्रोच्यते ध्वजसंनिभम् || ४०-३८ || ५३ - कन्दर्पदयितास्त्रम् कन्दर्पदयितं चास्त्रमिक्षुः परमशोभनम् | ५४ - मदनास्त्रम् मदनं चामरप्रख्यमस्त्रं परभयावहम् || ४०-३९ || ५५ - सौमनास्त्रम् सौमनं शिबिकाभं तदस्त्रमस्त्रविदो विदुः | ५६ - सत्यास्त्रम् स्थूलमुक्ताक्षमालैव सत्यास्त्रं सर्वसाधकम् || ४०-४० || ५७ - संवर्तकास्त्रम् अस्त्रं संवर्तकं नाम महाशङ्खः प्रकीर्त्यते | ५८ - मायाधरास्त्रम् मायाधराह्वयं प्राहुरस्त्रं शाखिनमेव च || ४०-४१ || प्. ३८६) ५९ - सोमास्त्रम् सोमास्त्रमर्धचन्द्राभं सायकं संप्रचक्षते | ६० - त्वाष्ट्रास्त्रम् त्वाष्ट्रमस्त्रं चैत्यसमं सदण्डमभिधीयते || ४०-४२ || ६१ - शीतेष्वस्त्रम् शीतेषुर्नाम कुम्भास्या स्रवन्ती सरिदुत्तमा | ६२ - भगास्त्रम् त्रिकोणं दण्डवद् विद्याद् भगास्त्रममितद्युति || ४०-४३ || ६३ - संदामनास्त्रम् सदामनं समाख्यातं चक्रं निररमुच्यते | ६४ - सत्यवदस्त्रम् सत्यवत् तन्महाभूतं व्यात्ताननमिदं विदुः || ४०-४४ || ६५ - वारणास्त्रम् वारणं नाम सर्पास्यं वारणं परमाङ्कुशम् | ६६ - धृष्टास्त्रम् धृष्टं कबन्धमुदरं व्यात्ताननमुदाहृतम् || ४०-४५ || ६७ - भृशाश्वतनयास्त्रम् भृशाश्वतनयं नाम द्विधारं क्रकचं स्मृतम् | प्. ३८७) ६८ - सत्यकीर्त्यस्त्रम् सत्यकीर्तिस्तु मकरो व्यात्तवक्त्रोऽभिधीयते || ४०-४६ || ६९ - मोहास्त्रम् मोहः सर्पशिरो व्यात्तवक्त्रमस्त्रं विदुर्बुधाः | ७० - रभसास्त्रम् रभसं तारसंकाशमस्त्रं सर्वास्त्रसादनम् || ४०-४७ || ७१ - सर्वनाभास्त्रम् सर्वनाभाह्वयं चास्त्रं कमण्डलुरिहोच्यते | ७२ - पराङ्मुखास्त्रम् पराङ्मुखाह्वयं चास्त्रं पञ्चाननशिरो विदुः || ४०-४८ || ७३ - जृम्भकास्त्रम् जृम्भकं नाम रक्ताक्षं त्रिपञ्जरमुदीर्यते | ७४ - प्रतिहारास्त्रम् प्रतिहाराख्यमस्त्रं तु कुन्तः परमभास्वरः || ४०-४९ || ७५ - अवाङ्मुखास्त्रम् ऋक्षास्यं भूतमुद्दिष्टमवाङ्मुखसमाह्वयम् | प्. ३८८) ७६ - धनास्त्रम् धनाख्यमस्त्रं मुकुटसमानममितद्युति || ४०-५० || ७७ - धान्यास्त्रम् धान्यास्त्रमेतत् परमं शालिस्तबकबन्धनम् | ७८ - महाभूतास्त्रम् वृषाक्षं वृषवक्त्राङ्कं महाभूतं प्रचक्षते || ४०-५१ || ७९ - कामरूपास्त्रम् कामरूपं महास्त्रं तु प्रतिसूर्यकसंनिभम् | ८० - दृढनाभास्त्रम् दृढनाभाख्यमस्त्रं स्यान्नागो बहुफणान्वितः || ४०-५२ || ८१ - कामरुच्यस्त्रम् अस्त्रं कामरुचिर्नाम स्वस्तिकं परिचक्षते | ८२ - सुनाभास्त्रम् सुनाभं क्षुरिका तीक्ष्णा प्रोच्यतेऽस्त्रमनुत्तमम् || ४०-५३ || ८३ - मकरास्त्रम् मकरो नाम दिव्यास्त्रं दीपिकादण्डसंनिभम् | प्. ३८९) ८४ - दशाक्षास्त्रम् दशाक्षमेतज्जानीयात् कौक्षेयकमवारितम् || ४०-५४ || ८५ - वेतालास्त्रम् वृत्तिमन्तं चोष्ट्रमुखं वेतालमभिधीयते | ८६ - दशवक्त्रास्त्रम् एकस्था दशवक्त्री तु दशवक्त्रमुदाहृतम् || ४०-५५ || ८७ - रुचिरास्त्रम् रुचिराख्यं भवेदस्त्रं हलं परमदारुणम् | ८८ - दशकर्णास्त्रम् दशवर्षा काकमुखी दशकर्णमुदीर्यते || ४०-५६ || ८९ - योगंधरास्त्रम् योगंधरं दिवाभीतव्यात्तवक्त्रमिति स्मृतम् | ९० - वारुणास्त्रम् अमित्रघ्नं वारुणं स्यात् परास्त्रविनिवारणम् || ४०-५७ || ९१ - अनिद्रास्त्रम् अनिद्रमस्त्रमुन्निद्रकल्पकं कथयन्ति वै | प्. ३९०) ९२ - कुठारास्त्रम् भेत्तारमस्त्रमाख्यातं कुठारं परभेदनम् || ४०-५८ || ९३ - शतोदरास्त्रम् शतोदरास्त्रं भूतं स्याच्छतोदरसमन्वितम् | ९४ - सौमनसास्त्रम् अस्त्रं सौमनसं नाम जपाकुसुममञ्जरी || ४०-५९ || ९५ - पद्मनाभास्त्रम् पद्मनाभं महाभूतं पद्मालंकृतनाभिमत् | ९६ - महानाभास्त्रम् महानाभाख्यमस्त्रं तु बको विकटकंधरः || ४०-६० || ९७ - ज्यौतिषास्त्रम् ज्यौतिषं नाम परमं विमानमभिधीयते | ९८ - क्षेपणास्त्रम् क्रमणं क्षेपणं प्रोक्तं परास्त्रक्रमणं महत् || ४०-६१ || ९९ - त्रैराशिकास्त्रम् त्रैराशिर्वानरमुखं सपक्षं नरपादवत् | १०० - सार्चिर्माल्यस्त्रम् सार्चिर्मालि महाभूतमेकपाद् बहुहस्तकम् || ४०-६२ || प्. ३९१) १०१ - विमलास्त्रम् विमलास्त्रमिदं विद्यात् स्फाटिकाकारडोलिकाम् | १०२ - धृतिकास्त्रम् वराहसिंहमनुजकुक्कुरेभमुखैर्युतम् | भूतं पुराविदो ब्रूयुर्धृतिकास्त्रं सुदारुणम् || ४०-६३ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् अस्त्रस्वरूपतच्छक्तिनिरूपणं नाम चत्वारिंशोऽध्यायः || ४० || आदितः श्लोकाः २५४४ स्वरूपतोऽस्त्रधारणतत्प्रयोजनप्रतिपिपादयिषया मधुकैटभसंहारवर्णनं नाम एकचत्वारिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || भगवता अस्त्राणां स्वरूपतो धारणस्य कालविशेषप्रयोजनादिप्रश्नः नारदः - अस्त्राण्येतानि भगवन् कथितानि स्वरूपतः | तान्यधत्त स्वरूपेण देवः पूर्वमितीरितम् || ४१-१ || कस्मिन् कदा किमर्थं तत् कृतं विश्वेश्वर प्रभो | प्रश्नमेतं परिच्छिन्धि यदि सानुग्रहोऽसि मे || ४१-२ || पृष्टस्यार्थस्य परमगुह्यत्वख्यापनमुखेन तत्प्रतिवचनप्रतिज्ञा अहिर्बुध्न्यः - परमं ते प्रवक्ष्यामि गुह्यमत्यद्भतं महत् | पृच्छते भक्तियुक्ताय परमात्मनि नारद || ४१-३ || प्रलयावसाने भगवतः सिसृक्षोदयः पुरा कल्पावसाने तु भगवान् पुरुषोत्तमः | जगत् स्रष्टुं मनश्चक्रे लीलारससमुत्सुकः || ४१-४ || प्. ३९३) प्रकृतिपुरुषमहदादिविशेषान्तजगत्सृष्टिः प्रथमं जनयामास प्रधानपुरुषौ स्वतः | महदादि विशेषान्तं जनयित्वा ततो हरिः || ४१-५ || अण्डोत्पादनपूर्वकं चतुर्मुखसृष्टिः तैः सर्वैरण्डमुत्पाद्य तस्मिन् ब्रह्माणमासृजत् | प्रजासृष्ट्यर्थं चतुर्मुखाय वेदोपदेशः प्रजाः सृजेति वेदांश्च तस्मै प्रादाज्जनार्दनः || ४१-६ || चतुर्मुखस्य प्रजासृष्ट्यारम्भः ततः प्रजाः स विविधाः स्रष्टुं समुपचक्रमे | तत्र बलदर्पितमधुकैटभोत्पत्तिः एतस्मिन्नन्तरे दैत्यौ ब्रह्मसृष्टेरनन्तरम् || ४१-७ || बलवन्तौ तु तस्योर्वोर्जज्ञाते मधुकैटभौ | मदोन्मत्तौ महाकायौ दानवौ बलदर्पितौ || ४१-८ || मधुकैटभाभ्यां चतुर्मुखाद्वेदापहरणम् तौ दृष्ट्वा सृष्ट्युपक्रान्तं ब्रह्माणममितद्युतिम् | प्रविश्य मायया तस्माद्वेदाञ्जगृहतुस्तदा || ४१-९ || वेदापहाराच्चतुर्मुखस्य सृष्ट्यसामर्थ्यम् ततः स्रष्टुं प्रजाः सर्वा न शशाक प्रजापतिः | निर्विण्णस्य चतुर्मुखस्य चिन्ताप्रकारः प्. ३९४) परं निर्वेदमापन्नो बभूवाथ प्रजापतिः || ४१-१० || प्रजाः सृजेति भगवान् व्यादिदेश स मां हरिः | न शक्यते विना वेदैः स्रष्टुं नानाविधाः प्रजाः || ४१-११ || दानवाभ्यामिमे वेदा हृता मत्तोऽद्य मायया | किमन्यत् कार्यमित्येष परां चिन्तामुपेयिवान् || ४१-१२ || कृतनिश्चयस्य चतुर्मुखस्य क्षीराब्धिगमनम् ततो वेधा विनिश्चित्य मनसा कार्यमात्मनः | क्षीराब्धेरुत्तरं तीरं जगाम कमलोद्भवः || ४१-१३ || चतुर्मुखेन भगवतः स्तुतिः तत्र तुष्टाव देवेशं पुण्डरीकाक्षमच्युतम् | ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे || ४१-१४ || असीमानन्दकन्दाय भूरिभूम्ने महात्मने | अचिन्त्यशक्तिरूपाय बिभ्रते भुवनानि ते || ४१-१५ || असीमैश्वर्यवीर्याय तेजसां निधये नमः | विश्वान्तर्यामिणे तुभ्यं शुद्धसत्त्वैकमूर्तये || ४१-१६ || अनवद्याखिलाधारभूषणाय नमो नमः | शङ्खचक्रगदाखड्गशार्ङ्गायुधधराय ते || ४१-१७ || प्. ३९५) श्रीमते पुष्कराक्षाय पुरुषाय नमो नमः | विष्वक्सेनमुखैर्दिव्यैः सेव्यमानाय सूरिभिः || ४१-१८ || दिव्यानन्दमयव्योमनिलयाय नमो नमः | सर्गोपसर्गरक्षाभिः क्रीडते जगतां सदा || ४१-१९ || महाविभूतये तुभ्यं नमो निखिलमूर्तये | स्वसमाश्रितवात्सल्यकृतव्यूहविभूतये || ४१-२० || विश्वविद्वेषिविध्वंसकृतदीक्षाय ते नमः | तापत्रयाभितप्ताघनाशनस्मरणाय ते || ४१-२१ || नमोऽचिन्त्यस्वरूपाय विष्णवे कर्मसाक्षिणे | भगवता चतुर्मुखाय दर्शनप्रदानम् इति तस्य स्तुतिं श्रुत्वा भगवान् पुरुषोत्तमः || ४१-२२ || आविर्बभूव पुरतः प्रसन्नः पद्मलोचनः | चतुर्मुखेन स्ववृत्तान्तनिवेदनम् तं दृष्ट्वा परमप्रीतः प्रणम्य परमाद्भुतम् || ४१-२३ || व्यजिज्ञपदमेयात्मा स्ववृत्तं विनयान्वितः | भगवता मधुकैटभस्मरणम् एतं दानवयोः श्रुत्वा व्यतिक्रममरिंदमः || ४१-२४ || मन्दं प्रहस्य भगवान् सस्मार मधुकैटभौ | प्. ३९६) मधुकैटभयोस्तत्रागमनम् तौ तस्य स्मृतिमात्रेण द्वारमाजग्मतुस्तदा || ४१-२५ || मधुकैटभौ प्रति भगवद्वचनम् ततः समागतौ दृष्ट्वा तत्रैव बलदर्पितौ | मेघगम्भीरनिर्घोषमुवाच मधुसूदनः || ४१-२६ || युवाभ्यामाहृता वेदा मद्दत्ता ब्रह्मणो मुखात् | माययेति श्रुतं नैवं युज्यते कर्तुमत्र वै || ४१-२७ || तत् तस्मै सकला वेदा दीयन्तां परमेष्ठिने | भगवद्वचनतिरस्करणपूर्वकं मधुकैटभयोः प्रतिवचनम् एवमुक्तौ भगवता दुर्मदान्धौ महासुरौ || ४१-२८ || प्रत्यूचतुरिमांस्तस्मै ददावो नैव सर्वथा | आवामेवाचिरात् सर्वाः स्रक्ष्यावो विविधाः प्रजाः || ४१-२९ || वेदैर्विनैव भगवन् किमत्र परमेष्ठिना | भगवता मधुकैटभयोर्हननाय विष्वक्सेनादेशनम् स तयोर्वचनं श्रुत्वा कोपसंरक्तलोचनः || ४१-३० || दुरात्मानौ तु तौ हन्तुं मतिं चक्रे जगत्पतिः | एतौ निहत्य दुर्दान्तौ पापावद्य मदोद्धतौ || ४१-३१ || आदाय वेदानेतस्मै ब्रह्मणे प्रतिपादय | इति शेषाशनं देवो व्यादिदेश कृताञ्जलिम् || ४१-३२ || प्. ३९७) ततः समरसंनहनम् स तथेति समानीय सर्वाः सेनाश्च वैष्णवीः | निर्जगाम ततो योद्धुं संनद्धौ तौ च दानवौ || ४१-३३ || निर्मिमाते तदा सेनां महतीं तौ च मायया | द्वयोः सेनयोस्तुमुलसंग्रामः उभयोः पक्षयोर्युद्धं तुमुलं समपद्यत || ४१-३४ || अदृष्टमश्रुतचरमभूत् तत् समरं तदा | विष्वक्सेनेन भगवत्सकाशे मधुकैटभयोरजययत्वनिवेदनम् चिरेणाजययतां ज्ञात्वा दुष्टदानवयोर्युधि || ४१-३५ || विष्वक्सेनस्तु देवाय न्यवेदयदवारितः | भगवतः सर्वास्त्राणां स्वरूपतो धारणपूर्वकं युद्धाय निर्गमनम् ततस्तु परमक्रुद्धो निर्जगाम जनार्दनः || ४१-३६ || युध्यमानौ तु तौ दृष्ट्वा चक्ररूपी स्वयं हरिः | बिभ्रद् द्विषष्टिभिर्हस्तैस्तस्थौ दिव्यास्त्रसंहतिम् || ४१-३७ || सर्वास्त्रस्वरूपधारिभगवद्रूपवर्णनम् तं दृष्ट्वा परमक्रुद्धं सहस्रादित्यसंनिभम् | ज्वलद्भिरस्त्रैर्हस्ताग्रधार्यमाणैश्च वेष्टितम् || ४१-३८ || पिङ्गलोर्ध्वमुखैः केशैरुपेतमतिभीषणम् | अण्डान्तव्याप्तवपुषं जपाकुसुमसंनिभम् || ४१-३९ || प्. ३९८) पिङ्गलाघूर्णमानोग्रवृत्तनेत्रत्रयान्वितम् | भुग्नभ्रुकुटिसंनद्धभीषणाननशोभितम् || ४१-४० || दष्टोष्ठमुज्ज्वलद्दंष्ट्रानिर्यत्स्खलितपावकम् | महाजलधिसंकाशं द्विषष्टिभुजपञ्जरम् || ४१-४१ || रक्ताम्बरधरं भीममालीढस्थितिमण्डितम् | हारकेयूरताटङ्ककटकादिविभूषणैः || ४१-४२ || उपेतं किङ्किणीजालक्वणत्कारनिनादितम् | आश्चर्यरूपमतुलमेवंभूतं महाद्युतिम् || ४१-४३ || तद्रूपदर्शनाद् दैत्यसैन्यानां निःशेषं विलयः कल्पान्तजृम्भिताम्भोधिकल्पास्ते दैत्यसैनिकाः | नेशुर्निरीक्ष्य निःशेषं शिष्टौ तौ दानवौ परम् || ४१-४४ || आगच्छन्तौ सुसंभ्रान्तौ दृष्ट्वा तावुद्यतायुधौ | प्राहिणोद् भीषणं चक्रं तद्वधाय महाद्युतिः || ४१-४५ || चक्रेण मधुकैटभयोः शिरश्छेदः तयोश्चिच्छेद शिरसी तत्क्षणाच्चक्रमुत्तमम् | ताभ्यां वेदानुपादाय देवायैतान्न्यवेदयत् || ४१-४६ || ब्रह्मणे वेदप्रदानपूर्वकं भगवतस्तिरोधानम् देवोऽपि ब्रह्मणे दत्त्वा पुनरन्तर्दधे हरिः | प्. ३९९) ब्रह्मणा यथापूर्वं प्रजासृष्टिः लब्धवेदः पुनर्धाता प्रजाश्चक्रे यथापुरम् | उपसंहारः इत्थं भगवतो रूपं चक्ररूपस्य चक्रिणः || ४१-४७ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम् स्वरूपतोऽस्त्रधारणतत्प्रयोजनप्रतिपिपादयिषया मधुकैटभसंहारवर्णनं नाम एकचत्वारिंशोऽध्यायः || ४१ || आदितः श्लोकाः २५९१ काशीराजश्रुतकीर्त्युपाख्यानवर्णनं नाम द्विचत्वारिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || अङ्गमन्त्राणामुत्पत्तिदेवताप्रयोजनशक्तिध्येयप्रश्नाः नारदः - भगवन् सर्वधर्मज्ञ सर्वभूतनमस्कृत | श्रोतव्यं यद्यदस्माभिः श्रुतं तत् तदशेषतः || ४२-१ || इदं त्विदानीं पृच्छामि शंस मे मनसि स्थितम् | कुतोऽमुष्याङ्गमन्त्राणामुत्पत्तिः का च देवता || ४२-२ || किमर्थं कीदृशी शक्तिः किं ध्येयं ब्रूहि तत्त्वतः | पृष्टस्यार्थस्य गुह्यत्वख्यापनमुखेनोत्तरकथनारम्भः अहिर्बुध्न्यः - श्रूयतामवधानेन तदेतद् गुह्यमुत्तमम् || ४२-३ || उत्पत्तिप्रश्नस्योत्तरम् आथर्वणान्मया वेदान्महामन्त्रपरिष्कृतात् | समुद्धृतः षडर्णोऽयं कौस्तुभः सागरादिव || ४२-४ || प्. ४०१) तथा तस्मादिमे मन्त्राः प्रोद्धृताः सकला मुने | देवताप्रश्नस्योत्तरम् स्वयमेवाङ्गमन्त्राणामपि देवः सुदर्शनः || ४२-५ || प्रयोजनशक्तिप्रश्नयोरुत्तरम् सुदर्शनमहामन्त्रनिष्ठस्याङ्गावनं परम् | कार्यमेषां षडर्णेन तथामी समशक्तयः || ४२-६ || ध्येयप्रश्नस्योत्तरम् एषामष्टभुजो देवः पूर्वोक्तेनैव वर्त्मना | ध्येयः सर्वं समाख्यातं किमन्यच्छ्रोतुमिच्छसि || ४२-७ || निवर्तकास्त्रप्रयोगावसरप्रश्नः नारदः - भगवन् परमोदार नित्यतृप्त दयानिधे | नित्यज्ञानक्रियैश्वर्यविश्वविज्ञानवारिधे || ४२-८ || सुदर्शनमहायन्त्रमन्त्रशक्तिक्रियादिषु | यद् वक्तव्यं विशेषेण तदुक्तं भवता विभो || ४२-९ || प्रवर्तकानामस्त्राणामुत्पत्तिः कथिता पुरा | स्वरूपशक्ती च तथा प्रयोगश्च महाद्युते || ४२-१० || निवर्तकानां तु पुनः कदा क्व विषये गुरो | प्रयोगः परमं मेऽत्र संशयं छेत्तुमर्हसि || ४२-११ || प्. ४०२) तदुत्तरकथनप्रतिज्ञा अहिर्बुध्न्यः - श्रूयतामवधानेन प्रयोगावसरं मु | निवर्तकानामस्त्राणां सम्यक् कथयतो मम || ४२-१२ || तत्प्रयोगावसरकथनम् परप्रयुक्तैर्दिव्यास्त्रैरभिचारैश्च तत्कृतैः | महत्यभिभवे प्राप्ते तं विद्यात् तपसां निधे || ४२-१३ || पराभिचाराभिभवज्ञानोपायप्रश्नः नारदः - पराभिचाराभिभवः कैर्लिङ्गैरवगभ्यते | राज्ञां च मन्त्रिणां चैव तथान्येषां नृणामपि || ४२-१४ || तज्ज्ञानोपायलिङ्गनिरूपणम् अहिर्बुध्न्यः - लक्ष्यते लक्षणैरेतैर्नृपाणामाभिचारिकी | विकृतिः प्रस्तुताकाले दारुणा सर्वगोचरा || ४२-१५ || अकाण्ड एव नश्यन्ति वाजिवारणमन्त्रिणः | तीव्रामयपरीताङ्गः पीड्यते नृपतिः स्वयम् || ४२-१६ || पतन्त्यशनयस्तस्य विषये घोरदर्शनाः | अल्पसस्या वसुमती विनश्यन्ति गवां गणाः || ४२-१७ || प्. ४०३) भवन्ति तस्य विषये पुनः पुनरवग्रहाः | तीव्रामयगृहीताश्च महिष्यस्तस्य भूपतेः || ४२-१८ || प्रभवन्त्यहिवल्मीकाः प्रासादे द्वारि मण्डपे | निपतन्ति महोल्काश्च भृशं भीमस्वनान्विताः || ४२-१९ || मन्त्रिणश्च विरुध्यन्ते मत्सरेण परस्परम् | रजन्यां राजते भीममैन्द्रं धनुरनभ्रजम् || ४२-२० || इतस्ततो वह्निभयं नगरे जायते भृशम् | प्रविश्य गर्भभवनं क्रोष्टारश्चानिवारिताः || ४२-२१ || क्रोशन्ति संध्ययोर्भीमा दीप्तायां दिशि विस्वरम् | रुन्धन्ति नगरं राज्ञः शत्रवो बलदर्पिताः || ४२-२२ || कृत्याकृत्यं न जानाति स्वयं स्तैमित्यमास्थितः | स्वप्नेऽपि पश्यत्यात्मानं मुण्डितं नीलवाससम् || ४२-२३ || तथेन गर्दभयुजा व्रजन्तं दक्षिणां दिशम् | इत्यादिलिङ्गैर्जानीयादभिचारं सपत्नजम् || ४२-२४ || पराभिचारजा कृत्या राजानं प्रविशेद्यदि | तां दृष्ट्वा क्षिप्रमेवासौ विनश्यति न संशयः || ४२-२५ || पुत्रांश्च मन्त्रिणश्चापि महिषीं नगरं तथा | ज्वालामालाविला कृत्या सर्वं नाशयति क्षणात् || ४२-२६ || पराभिचारनिवर्तनाय निवर्तकास्त्रधारिसुदर्शनप्रीणनम् एवं पराभिचारेण पीडिते नृपतौ स्वयम् | प्. ४०४) निवर्तकास्त्रसहितं भगवन्तं महाद्युतिम् || ४२-२७ || चक्रस्वरूपिणं देवं भक्त्या संतोषयेत् ततः | रजतेन सुवर्णेन शिलया ताम्रकेण वा || ४२-२८ || सुदर्शनार्चां निर्माय पूजयेत् सनिवर्तकम् | समालिख्य पटे वापि ध्यायेत् त्रैलोक्यपूजितम् || ४२-२९ || एवं निर्माणतो ध्यानात् पूजया वन्दनेन वा | प्रतिष्ठया वा स्तोत्रेण देवं संप्रीणयेन्नृपः || ४२-३० || एवमन्ये तथा कुर्युरमात्या वा नरा मुने | प्रीतेन सुदर्शनेन पराभिचारनिर्दहनम् ततः प्रीतः स भगवाननादिनिधनो विभुः || ४२-३१ || अभिचारान् परकृतानाश्रितानुग्रहेण तु | भस्मीकरोति स्मृत्यैव तत्प्रयुक्तान्यपि क्षणात् || ४२-३२ || दिव्यास्त्राण्युपसंहारैरस्त्रैर्वारयतीश्वरः | परप्रयुक्तकृत्यायास्तत्प्रयोक्तुश्च विनाशनम् परप्रयुक्तां कृत्यां तु संप्राप्तामतिभीषणाम् || ४२-३३ || स्वयं निर्गत्य देवोऽसौ चक्ररूपी जगत्पतिः | भस्मसात् कुरुते तं च प्रयोक्तारं ततः परम् || ४२-३४ || काशीराजेतिहासोदाहरणम् तथैव काशीराजाख्यो वाराणस्यां वसन्नृपः | विश्वेश्वरं महादेवमर्चयित्वा समाहितः || ४२-३५ || प्. ४०५) कृष्णोद्देशेन कृत्यां वै जनयामास मोहितः | सा समुत्पादिता कृत्या विकटा भीमदर्शना || ४२-३६ || द्वारकां समनुप्राप्य कृष्णाभ्यासं ययौ तदा | तामापतन्तीं संप्रेक्ष्य ज्वालामालाविलाननाम् || ४२-३७ || प्रेषयामास भगवान् सुदर्शनमनुत्तमम् | सा तमापतितं दृष्ट्वा सहस्रादित्यसंनिभम् || ४२-३८ || यथागतं प्रदुद्राव प्रयोक्तारं भयातुरा | स तां निहत्य तं चापि काशीराजं पुरीं तथा || ४२-३९ || आजगाम पुनश्चक्रं विष्णुपार्श्वं महाद्युति | श्रुतकीर्त्युपाख्यानोदाहरणम् एवमन्यत् पुरावृत्तमितिहासं शृणुष्व मे || ४२-४० || राज्ञा श्रुतकीर्तिना धर्मेण सप्तद्वीपमहीपरिपालनम् सौराष्ट्राधिपती राजा श्रुतकीर्तिरिति श्रुतः | निवसन् भद्रशालायां नगर्यामरिमर्दनः || ४२-४१ || गजाश्वरथसंपन्नो बलवान् वासवोपमः | सुदर्शनमहामन्त्रनिष्ठः परमधार्मिकः || ४२-४२ || सुदर्शने परां भक्तिमुद्वहन्नर्चनापरः | बुभुजे तत्प्रसादेन सप्तद्वीपवतीं महीम् || ४२-४३ || प्. ४०६) लोकान्तरं जिगीषोस्तस्य सुदर्शनार्चनपूर्वकं स्वस्तिकाख्यगन्धर्वनगरगमनम् जेतुं लोकान्तरं चक्रे श्रुतकीर्तिर्मनस्तदा | चतुरङ्गबलैर्युक्तः समभ्यर्च्य सुदर्शनम् || ४२-४४ || कामगं स्यन्दनं चित्रमारुरोह महाबलः | ततः प्रतस्थे प्रथममन्तरिक्षं बलान्वितः || ४२-४५ || स्वस्तिकनगरवर्णनम् तत्र गन्धर्वनगरं विशालं स्वस्तिकाह्वयम् | वीणाविनोदनेनेत्थं पालितं परमद्युति || ४२-४६ || स्वयंप्रवृत्तैः शस्त्रैश्च वार्यमाणारिसैनिकम् | बहिर्निरिन्धनेनैव वह्निना परिवेष्टितम् || ४२-४७ || सुवर्णसालं परमं रत्नगोपुरमण्डितम् | मणिहर्म्यपरिक्षिप्तं गानस्वनसमाकुलम् || ४२-४८ || विमानैस्तैजसैर्जुष्टं दिव्योपवनशोभितम् | सुवर्णपद्मसरसीसरिद्वापीनिषेवितम् || ४२-४९ || सेवितं सुरनारीभिरप्सरोभिश्च सेवितम् | गन्धर्वैः किंनरैः सिद्धैश्चारणैश्च सदा युतम् || ४२-५० || युयुत्सुना श्रुतकीर्तिना तन्नगरोपरोधः एवंविधं पुरं राजा रुरोध बलदर्पितः | वीणाविनोदनं योद्धुं महत्या सेनया तदा || ४२-५१ || प्. ४०७) गन्धर्वराजेन वाहिनीप्रेषणम् श्रुत्वा गन्धर्वराजोऽपि मानुषैरुपरोधनम् | प्रहस्य प्रेषयामास सिद्धगन्धर्ववाहिनीम् || ४२-५२ || तत्र तुमुलसंग्रामः सा तेन बलिना राज्ञा युयुधे निशितैः शरैः | प्रवृत्तं तन्महद्युद्धं तुमुलं रोमहर्षणम् || ४२-५३ || श्रुतकीर्तिना गन्धर्वसैन्यविद्रावणम् ततो विद्रावयामास भूपतिर्लीलया बलम् | गान्धर्वं तत् पुनः प्राप स्वपुरीं भयविह्वलम् || ४२-५४ || क्रुद्धस्य गन्धर्वराजस्य स्वयं युद्धाय निर्गमनम् तच्छ्रुत्वा परमक्रुद्धः स्वयं वीणाविनोदनः | रथं महान्तमास्थाय निर्ययौ सह सैनिकैः || ४२-५५ || गन्धर्वराजश्रुतकीर्त्योरष्टदिनपर्यन्तं युद्धप्रवृत्तिः ततस्तयोरभूद्युद्धं वृत्रवासवयोरिव | परस्परं निजघ्नुस्ते सैनिकाः विविधैः शरैः || ४२-५६ || तत्र संछन्नमाकाशं शरौघैरुभयोरपि | जयः पराजयो वा स्यान्न तत्र समितौ तयोः || ४२-५७ || एवमष्टदिनान्यासीदेकरूपं भयंकरम् | प्. ४०८) भूपतिना गन्धर्वराजस्य धनुरादिच्छेदो बलविद्रावणं च ततो गन्धर्वराजस्य घनुश्चिच्छेद भूपतिः || ४२-५८ || ध्वजच्छत्रहयांश्चापि सायकैर्नतपर्वभिः | दिशः प्रस्थापयामास तदीयं सकलं बलम् || ४२-५९ || गन्धर्वराजस्य विषादः शस्त्रैरजययमालोच्य नृपं गन्धर्वराडपि | पराजितं तु स्वबलं मनुजैर्विषसाद ह || ४२-६० || गन्धर्वराजेन मानुषबले गान्धर्वास्त्रप्रयोगः दिव्यास्त्रैः सूदयाम्येनमिति मत्वा महाद्युतिः | गान्धर्वमस्त्रं चिक्षेप स तस्मिन् मानुषे बले || ४२-६१ || तेन मानुषसैन्यविमोहनम् तेनैव मोहिता सर्वा श्रुतकीर्तिवरूथिनी | गान्धर्वास्त्रप्रभावेण तिष्ठत्येव च संयुगे || ४२-६२ || सुदर्शनप्रभावेण दिव्यास्त्रं नाप तं नृपम् | तत्प्रतीकाराशक्तस्य श्रुतकीर्तेः पुरोधसि स्ववृत्तनिवेदनम् श्रुतकीर्तिस्तदास्त्रेषु दिव्येष्वनभियोगतः || ४२-६३ || न शशाक प्रतीकर्तुं स्वपुरोधसमभ्ययात् | वृत्तं विज्ञापयामास नृपस्तस्मै पुरोधसे || ४२-६४ || पुरोधसा सुदर्शनशरणवरणोपदेशपूर्वकं निखिलास्त्रमन्त्रोपदेशनम् सोऽभ्यभाषत धर्मज्ञः परमास्त्रविशारदः | प्. ४०९) श्रुतकीर्तेऽत्र मा भैषीस्तमेव शरणं व्रज || ४२-६५ || प्रणतार्तिहरं देवं सुदर्शनवपुर्धरम् | दिव्यास्त्राणामशेषाणां प्रसूतिं परमेश्वरम् || ४२-६६ || एवं भूते महाचक्रे चतुःषष्ट्यरसंयुते | नेमिद्वयान्विते देवं मध्ये ध्यायस्व भूपते || ४२-६७ || द्विषष्टिभुजमत्युग्रं संहारास्त्रधरं परम् | एवं ध्यात्वा च जप्त्वैतं मन्त्रं सेनां विलोकय || ४२-६८ || इत्यस्त्रमन्त्रानखिलांस्तस्मा उपदिदेश सः | तेन जातबलस्य श्रुतकीर्तेः पुनर्युद्धायागमनम् प्रतिगृह्याखिलान् मन्त्रान् प्रवर्तकनिवर्तकान् || ४२-६९ || पुनरेत्य च संग्रामं स राजा समितिंजयः | तेन स्वसैनिकमोहविमोचनम् ध्यात्वा देवं जपन् मन्त्रं स्वसेनां समलोकयत् || ४२-७० || ततः संज्ञामवाप्यासौ प्रावर्तत महाहवे | पुनर्युद्धे श्रुतकीर्तेर्विजयो गन्धर्वलोकवशीकरणं च पुनः प्रववृते युद्धं सेनयोरुभयोरपि || ४२-७१ || दिव्यास्त्रैः समरे राजा जित्वा वीणाविनोदनम् | तल्लोकं स्ववशं चक्रे चक्रवर्ती बलान्वितः || ४२-७२ || प्. ४१०) ततः स्वपुरप्रत्यागमनम् सत्कृतः सिद्धगन्धर्वैः किंनरैश्चारणैरपि | भद्रशालां पुनः प्राप स्वपुरीं विजयश्रिया || ४२-७३ || समेयिवाञ्शशासोर्वीं दिवं सुरपतिर्यथा | सुदर्शनप्रभावाद्विस्मितस्य पुनः पुरोधसा सह मन्त्रणप्रकारः सुदर्शनप्रभावस्य स्मृत्वा विस्मितमानसः || ४२-७४ || पुरोधसमुपागम्य ज्वलन्तमिव पावकम् | मन्त्रयामास तेनैवं राजा राजीवलोचनः || ४२-७५ || स्वसंपदो भगवत्प्रसादहेतुकत्वकथनम् देवप्रसादाज्जगती ममेयं समुद्रनेमिर्वशमागताद्य | लोकान्तरं चापि तथैव मन्ये मयि प्रसादोन्मुख एव देवः || ४२-७६ || भगवत्प्रसादात् स्वस्य मोक्षलाभे संशयाभावकथनम् संसारभीतस्य ममापवर्गं प्रदास्यते चक्रवपुर्धरोऽयम् | इत्यत्र शङ्का मम नास्ति काचि- दतः परं देवमुपास्महे तु || ४२-७७ || प्. ४११) राजानं प्रति पुरोधसा सुदर्शनप्रतिष्ठापनाद्युपदेशः इत्युक्तवन्तं नृपतिं पुरोधाः कृताञ्जलिं प्राह महानुभावः | विमानमग्र्यं बहुवर्णकूटं विधाय चक्रोपपदं ससाध्यम् || ४२-७८ || इह प्रतिष्ठाप्य सुचक्रमध्ये द्विषष्टिबाहुं सनिवर्तकास्त्रम् | यथोक्तरूपं बहुभूषणाढ्यं सुदर्शनं पूजय सर्वसिद्ध्यै || ४२-७९ || राज्ञा तथैवानुष्ठानम् इत्येवमुक्तः प्रतिगृह्य मूर्ध्ना स तस्य वाक्यं परमार्थयुक्तम् | अकारयत् कारयितव्यदक्ष- स्तथैव तस्मिन्नगरे स राजा || ४२-८० || तदर्थं राज्ञा द्विजानां वृत्तिप्रकल्पनम् शतं स विंशत्यधिकं द्विजांस्तु समन्ततो देवनिकेतनात् सः | ततः प्रतिष्ठाप्य धनानि दत्त्वा बहूनि बह्वीश्च भुवः स तेभ्यः || ४२-८१ || प्. ४१२) विभूतिमन्तं च विधाय देवं मुमोद राजा समवाप्तकामः | ततो भगवत्प्रसादाद्राज्ञः परमपुरुषार्थलाभः महालये तत्र समर्च्य देवं दिने दिने प्राप्तसमस्तकामः | ततोऽचिरेणैव विमुक्तसङ्गः परं पदं प्राप च तत्प्रसादात् || ४२-८२ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां काशीराजश्रुतकीर्त्युपाख्यानवर्णनं नाम द्विचत्वारिंशोऽध्यायः || ४२ || आदितः श्लोकाः २६७३ जलंधरवधोपायचिन्तनं नाम त्रिचत्वारिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || कृत्स्नस्य जगच्चक्रमयत्वकथंताप्रश्नः नारदः - पृच्छामि त्वां पुनरिदं शंस मे सकलेश्वर | प्रोक्तमेतत् पुरा सर्वं जगच्चक्रमयं त्वया || ४३-१ || तत् कथं स्पष्टमाचक्ष्व कदा देवेन दर्शितम् | वेत्ता त्वमेव नान्योऽस्ति त्वदृते भुवनत्रये || ४३-२ || अध्यायद्वयेन तदुत्तरकथनायाख्यायिकाकथने प्रथमं देवादीनां धर्ममार्गप्रवर्तकत्वनिरूपणम् अहिर्बुध्न्यः - सुराश्च मुनयः सर्वे मनुस्तत्सूनवस्तथा | राजानः सर्ववर्णाश्च धर्ममार्गप्रवर्तकाः || ४३-३ || दानवादीनां धर्मविघातकत्वम् प्. ४१४) तथैव दानवाः सर्वे भूतवेतालराक्षसाः | क्रूरा नराश्च पशवो भीमरूपाश्च दस्यवः || ४३-४ || तथैव चासुरीं प्राप्ता योनिमन्ये जना मुने | एते सर्वे सदा धर्मविध्वंसं कुर्वते भृशम् || ४३-५ || पापिनां विनाशोपायचिन्तयाहिर्बुध्न्यस्य मेरुशिखरगमनम् अतस्ते पापकर्माणः केन नश्येयुरित्यहम् | परां चिन्तामुपारूढो मेरुकूटमुपागतः || ४३-६ || तत्र समाधिमास्थितस्य तस्य तेजोविशेषदर्शनम् तस्मिन् समाधिमास्थाय समासीनस्य मे क्षणात् | आविर्बभूव दुर्दर्शं महः परमभास्वरम् || ४३-७ || भीतिवशात् आथर्वणमन्त्रोच्चारणपूर्वकं पुनस्तद्दर्शनम् ततस्तद्दर्शनान्मन्त्रमाथर्वणमुदैरयम् | तमुच्चरन् महामन्त्रमद्राक्षं तन्महः पुनः || ४३-८ || तेजोमध्ये सुदर्शनपुरुषसाक्षात्कारपूर्वकं प्रश्नः तस्मिन् विदीप्ते महसि पुरुषं कृष्णपिङ्गलम् | ऊर्ध्वरेतं विरूपाक्षं सहस्रादित्यसंनिभम् || ४३-९ || सहस्रारसमायुक्तचक्रमध्यस्थितं परम् | ज्वालामालासुदुर्दर्शं सुदर्शनमनाकुलम् || ४३-१० || प्. ४१५) दृष्ट्वा कस्त्वं कुतः कस्येत्यपृच्छमकुतोभयम् | प्रीतेन भगवता स्वस्वरूपख्यापनम् ततः प्रीतः स भगवानवदत् तेजसां निधिः || ४३-११ || अहं सुदर्शनो नाम्ना ख्यातोऽद्य प्रभृतीश्वर | दुरालोको महालोको यत् तवाहं सुदर्शनः || ४३-१२ || वैकुण्ठात् स्वागमनस्याहिर्बुध्न्यानुजिघृक्षाहेतुकत्वादिकथनम् वैकुण्ठधामनिलयस्त्वां द्रष्टुं समुपागतः | त्रिभावभावनायुक्तैरदृष्टचरमद्भुतम् || ४३-१३ || नित्यमन्तर्हितं गुह्यं सर्वलोकनमस्कृतम् | प्रमथ्य मतिमन्थानादुद्धृतं वेदसागरात् || ४३-१४ || पीयूषमिव दुग्धाब्धेर्यत् त्वया परमेश्वर | अतो मन्त्रतनुः प्राप्तो भवन्तं किं करोमि ते || ४३-१५ || अन्तरं नैव पश्यामि तव दामोदरस्य च | अतो यथात्र वर्तेय तथैव त्वयि शंकर || ४३-१६ || ततोऽहिर्बुध्न्येन भगवति स्वाभिप्रेतनिवेदनम् इत्युक्त्वा विरते तस्मिन् सहस्रादित्यसंनिभे | ततोऽहं विस्मितोऽवोचं तमप्रतिमतेजसम् || ४३-१७ || भूयांसो भुवने पापा धर्मव्यासेधकारिणः | तेषां निग्रहमाकाङ्क्षन्नुपायैर्नाशयाम्यहम् || ४३-१८ || प्. ४१६) इति चिन्तापरे योगमास्थिते मयि मन्त्रराट् | त्वं चाविरासीस्तत्कार्यं निर्वृत्तमिति मे मतिः || ४३-१९ || दैत्यादिविनाशनप्रार्थना अतस्तैः पीड्यमानेषु साधुषु स्मृतिमात्रतः | आगन्तव्यं प्रयत्नेन साध्यं साधय च प्रभो || ४३-२० || भगवता तथेत्युक्ते स्वस्य कैलासगमनम् तथेत्युक्त्वा गतः सोऽहमपि कैलासमन्वगाम् | अत्रान्तरे जलंधरवधार्थमिन्द्रस्य मन्त्रालोचना ततो जलंधराख्येन दानवेन निपीडितः || ४३-२१ || वासवो मन्त्रयांचक्रे सह सर्वैर्मरुद्गणैः | शस्त्रैरस्त्रैरजययत्वं दानवस्य दुरात्मनः || ४३-२२ || निरीक्ष्य केन तं पापं नाशयामीत्यचोदयत् | तत्र वायुना स्वाभिप्रायविनिवेदनम् ततो वायुः समुत्थाय पुरंदरमथाब्रवीत् || ४३-२३ || सत्यमस्त्रैस्तथा शस्त्रैरजययोऽयं महासुरः | धात्रा दत्तवरो दृप्तो बलवीर्यसमन्वितः || ४३-२४ || दिधक्षति जगत् सर्वं धूमकेतुरिवोत्थितः | सर्वलोकेश्वरे श्रीमत्यप्रमेये महाद्युतौ || ४३-२५ || देवदेवे महादेवे शंकरे भूतभावने | तस्मिन्नत्याहितं तेन नृशंसेन सुरारिणा || ४३-२६ || प्. ४१७) तस्मिन् परमसंक्रुद्धो वर्तते तेन शंकरः | अतस्तमभिगच्छामो वधार्थं दुष्टचारिणः || ४३-२७ || बृहस्पतिमुखेनैव तं देवं प्रार्थयामहे | स एव तत्र वक्तव्यं जानाति भगवानिति || ४३-२८ || वायुवचनमङ्गीकृत्य शंकरं गन्तुं शक्रेण बृहस्पतिप्रचोदनम् विरते पवने तस्मिन् बाढमित्याह वासवः | बृहस्पतिमथासीनं ज्वलितानलसंनिभम् || ४३-२९ || अभ्यगच्छन्महातेजा भगवान् पाकशासनः | जलंधरवधार्थं त्वमभिगच्छ पिनाकिनम् || ४३-३० || स तस्मिन् परमक्रुद्धो निहनिष्यत्यसंशयम् | सुरकार्येषु सर्वेषु भवानेव परायणम् || ४३-३१ || अतोऽभिगम्यतां देवः कैलासे चन्द्रशेखरः | इन्द्रवचनात् बृहस्पतेः कैलासगमनम् इत्युक्तवचने तस्मिन् पुरुहूते सुरेश्वरे || ४३-३२ || तथेति तत् प्रतिश्रुत्य वाक्पतिः शक्रपूजितः | कैलासशिखरं प्रायात् प्रहृष्टेनान्तरात्मना || ४३-३३ || तत्र शंकरदर्शनम् तत्रासीनं सुरैः सार्धमास्थाने सुमनोहरे | प्. ४१८) मामप्सरःप्रयुक्ते तु नृत्ये विस्मितमानसम् || ४३-३४ || सोऽपश्यदाराद्भगवानुद्यद्भास्करसंनिभः | प्रणिपत्य समुत्थाय मामस्तौषीत् स वाक्पतिः || ४३-३५ || जलंधरवधार्थं बृहस्पतिना शंकरस्तुतिः प्रसीद देवदेवेश प्रसीद जगतः पते | प्रसीद सर्वगीर्वाणपालनान्तकर प्रभो || ४३-३६ || प्रसीद भगवन् देव प्रसीद सुरवन्दित | प्रसीद विश्वविज्ञानवारिधे परमेश्वर || ४३-३७ || नमस्ते व्योमनिलय नमस्ते नागभूषण | नमः परमकल्याण नमस्त्रिपुरदारण || ४३-३८ || त्वं धाता त्वं वषट्कारस्त्वं हविस्त्वं हुताशनः | सदसत्त्वं त्वमोंकारस्त्वमिन्द्रस्त्वं यमस्तथा || ४३-३९ || त्वं पाशपाणिस्त्वं सोमो निर्-ऋतिस्त्वं मरुत् तथा | त्वमादित्यो वसुश्च त्वं त्वं विश्वं विश्वतोमुख || ४३-४० || त्वमव्यक्तं महांश्च त्वं त्वमहंकार एव च | भूतानि त्वं सुसूक्ष्माणि विद्याविद्ये तथा भवान् || ४३-४१ || किमत्र बहुनोक्तेन चराचरमिदं जगत् | त्वमेव भूतनाथेश सर्वकारणकारण || ४३-४२ || प्. ४१९) क्षितिसलिलसमीरव्योमतेजःसहस्र- द्युतिशशियजमानैः पूर्णदेहाय तुभ्यम् | परममुनिमनोभिर्मृग्यमाणाय नित्यं भवभयविनिहन्त्रे विश्वमूर्ते नमस्ते || ४३-४३ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां जलंधरवधोपायचिन्तनं नाम त्रिचत्वारिंशोऽध्यायः || ४३ || आदितः श्लोकाः २७१६ सुदर्शनस्वरूपप्रदर्शनं नाम चतुश्चत्वारिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || स्तुतिप्रीतेन शंकरेणागमनकारणप्रश्नः अहिर्बुध्न्यः- इति स्तुवन्तं कुशलमाभाष्येदमवादिषम् | किमागमनकार्यं ते वद वाचस्पते इति || ४४-१ || बृहस्पतिना शंकराय सुरकार्यनिवेदनम् इत्युक्तः सकलं प्राह समागमनकारणम् | शंभो कृपानिधे देव श्रूयतामिदमादरात् || ४४-२ || सर्वलोकेषु सर्वेश तव सानुग्रहं मनः | अतस्त्रिदशकार्यार्थं त्वामहं शरणं गतः || ४४-३ || जलंधर इति ख्यातो दानवो दुष्टचेष्टितः | अनिशं बाधते देवान् ब्रह्मदत्तवरो बली || ४४-४ || अशक्तास्तद्वधे सर्वे सुराः सुरपतिस्तथा | मन्त्रयांचक्रिरे सर्वे संभूयैतन्मरुद्गणाः || ४४-५ || वरेण महता दृप्तो दुर्वारो रणमूर्धनि | प्. ४२१) महासुरो महादेवादृते नासौ विनश्यति || ४४-६ || एवं संमन्त्र्य शक्रो मामवादीत् समरुद्गणः | महासुरवधोपायं भगवन्तं त्रिलोचनम् || ४४-७ || अन्तरेण न पश्यामि तं गच्छ शरणं शिवम् | सुरकार्यार्थमेतत् त्वं प्रार्थयेथाः पिनाकिनम् || ४४-८ || इत्युक्तः पुरुहूतेन त्वत्सकाशमिहागतः | तद्यथैते सुराः सर्वे सुखिनो निरुपद्रवाः || ४४-९ || भवेयुः पार्वतीनाथ तथैवाशु विधीयताम् | शंकरेण जलंधरवधप्रतिज्ञा इत्युक्तोऽहं तदा तेन चिन्तारूढोऽभवं मुने || ४४-१० || तदेतदभिवीक्ष्याहमवोचं वचसां पतिम् | जलंधरमहं क्रूरं हनिष्ये पापकारिणम् || ४४-११ || स्वस्य दैत्यनिग्रहसामर्थ्ये सुदर्शनप्रसादस्य हेतुत्वख्यापनम् समाधिस्थस्य मे दृष्टः सुदर्शनवपुर्धरः | मन्त्रो मन्त्रविदां श्रेष्ठ सर्वमन्त्रसमुद्भवः || ४४-१२ || सर्वार्थसाधको नित्यः सर्वदुष्टभयंकरः | सर्वत्राणप्रवीणोऽयं चतुर्वर्गफलप्रदः || ४४-१३ || स्वविद्यारक्षणरतः परविद्यानिवारणः | प्. ४२२) आथर्वणोऽपि षट्कार्णः षट्कर्णश्रुत्यगोचरः || ४४-१४ || अदृश्यं महसः पुञ्जं दुर्निरीक्षं तदा मया | मन्त्रमुच्चरता तस्मिंश्चक्रवर्ति सुदर्शनम् || ४४-१५ || दृष्टं तेनैवमुक्तं च प्रीतोऽहं मनुदर्शनात् | परमव्योमनिलयो भगवन्नित्यकिंकरः || ४४-१६ || कार्यं तवांशेनागत्य करिष्ये मन्त्रतः स्मृतः | इत्युक्त्वासौ गतो देवः सुदर्शनवपुर्धरः || ४४-१७ || तेनैव तं दुरात्मानमपनेष्यामि मा चिरम् | सौदर्शनविद्याग्रहणाय शंकरं प्रति बृहस्पतेः प्रार्थना इत्युक्तः परमप्रीतो बृहस्पतिरपि त्वरन् || ४४-१८ || प्रणम्य च पुनः प्राह यदि सानुग्रहो मयि | सौदर्शनीमिमां विद्यां देहि मे भगवन्निति || ४४-१९ || शंकरेण तस्मै तदुपदेशः ततोऽहं महते तस्मै विद्यां प्रादां महात्मने | लब्धविद्येन बृहस्पतिना हिमवत्तटे तत्पुरश्चरणम् तां लब्ध्वा परमप्रीतो जगाम हिमवद्गिरिम् || ४४-२० || तस्मिञ्जजाप भगवान् मन्त्रमेतमनुत्तमम् | बृहस्पतिना सुदर्शनसाक्षात्कारः ततोऽस्य संनिधिं चक्रे परमाश्चर्यरूपधृत् || ४४-२१ || प्. ४२३) चक्रवर्ती स भगवान् सौम्यरूपः सुदर्शनः | विस्मितेन बृहस्पतिना तस्य द्विभुजत्वकारणप्रश्नः तं दृष्ट्वा दीप्तवपुषं प्रसन्नं कुङ्कुमप्रभम् || ४४-२२ || द्विभुजं सर्वभूतानामनुग्रहकरं परम् | शङ्खचक्रधरं देवं दिव्यमाल्यविभूषितम् || ४४-२३ || पीतकौशेयवसनं नेत्रद्वयविराजितम् | आधारं सर्वशक्तीनामस्त्राणां च परंतपम् || ४४-२४ || तं दृष्ट्वा विस्मयाविष्टः पप्रच्छ प्रणिपत्य सः | किमिदं भगव/ल्लोके प्रथितोऽष्टभुजो भवान् || ४४-२५ || मनुष्यरूपसंस्थानः प्रादुरासीः पुरो मम | सुदर्शनेन प्रतिवचनम् श्रूयतामित्युपामन्त्र्य प्रत्युवाच सुदर्शनः || ४४-२६ || अनन्तेषु सौदर्शनव्यूहेषु चतुर्णां प्राधान्यम् व्यूहाः सहस्रशः सन्ति मम कॢप्ता यथेच्छया | तेषां प्रधानतो व्यूहाश्चत्वारो मम वाक्पते || ४४-२७ || तेषां परिगणनम् द्विभुजं प्रथमं विद्धि ततोऽष्टभुजमेव माम् | ततः षोडशहस्तं तु मां द्विषष्टिभुजं ततः || ४४-२८ || व्यूहान्तराणामुपासकानुग्रहार्थत्वम् व्यूहान्तराण्यनेकानि तान्युपासककामतः | प्. ४२४) व्यूहचतुष्टयस्य स्वाभाविकत्वं नित्यत्वं सात्त्विकत्वं च स्वाभाविकमिदं रूपं नित्यमत्यन्तसात्त्विकम् || ४४-२९ || अपक्षयविनाशादिरहितं परमं मम | अन्येषामुपासकानुग्रहार्थत्वनिगमनम् अन्यान्यनुग्रहार्थानि मच्चित्तानामिति स्थितिः || ४४-३० || स्वस्यात्यद्भुतरूपान्तरास्तित्वप्रतिपादनम् अन्यद्विश्वमयं रूपमदृष्टं देवदानवैः | अमीमांस्यममर्यादमचक्षुर्गोचरं स्वतः || ४४-३१ || यथा देवो हृषीकेशस्तथाहमपि वाक्यते | बृहस्पतिना तद्रूपदर्शनप्रार्थना इत्युक्तवन्तं तं देवं सुदर्शनवपुर्धरम् || ४४-३२ || प्रणिपत्याब्रवीदेनं वाक्पतिर्वदतां वरः | यत्ते विश्वमयं रूपमचाक्षुषमसीमकम् || ४४-३३ || योगदृष्ट्या प्रपश्यामि तन्मे दर्शय सांप्रतम् | भगवता जगच्चक्रात्मकस्वस्वरूपप्रदर्शनम् भगवानपि विश्वात्मा स्वकीयं रूपमूर्जितम् || ४४-३४ || दर्शयामास गुरवे योगारूढाय नारद | स विस्मितमना देवं वीक्षांचक्रे पुरः स्थितम् || ४४-३५ || तद्रूपवर्णनम् प्. ४२५) विश्वोदराक्रान्तसुभीमदेह- मपूर्वरूपं करणातिदूरम् | समुद्यदुर्जत्करशृङ्गसङ्गि- परःसहस्राद्भुतचक्रमालम् || ४४-३६ || पदावलम्बिस्फुरदण्डमाला- विराजमानं स्थितमात्मभूम्नि | युगान्तकालज्वलितार्कजाल- रुचिप्रभोत्तुङ्गकिरीटशोभम् || ४४-३७ || महार्णवावर्तविघूर्णमान- पिशङ्गनेत्रं सुरसंघजुष्टम् | विशुद्धदंष्ट्रान्तरलग्नलोकं जगद् ग्रसन्तं भ्रुकुटीकरालम् || ४४-३८ || शशाङ्कतारागणकीर्णविष्णु- पदाभहाराङ्कितवक्षसं तम् | समुद्यदुज्जृम्भितदीप्तिमाल- महास्त्रजालं धृतसर्वशस्त्रम् || ४४-३९ || प्. ४२६) तेजोमयं दीप्तिकणायमान- युगान्तकालार्कशशाङ्कवह्निम् | स्वदेहसंपूर्णदेगन्तराल- मलक्षितव्योममहीतलं च || ४४-४० || अदृष्टपूर्वरूपदर्शनात् बृहस्पतेर्मोहाधिगमः झणज्झणत्कारितनूपुरादि- विभूषणारावविकीर्णविश्वम् | अदृष्टपूर्वं परमप्रमेयं निरीक्ष्य चामूमुहदादिदेवम् | लब्धसंज्ञेन तेन सुदर्शनस्तुतिः ततः स संज्ञां प्रतिलभ्य कृच्छ्रात् तुष्टाव देवं धिषणो माहात्मा || ४४-४१ || ओं नमो नमस्ते भगवन्नजयय सुदर्शन ज्ञानमयस्वरूप | सदा स्फुटाशेषसमस्तशक्ते धृताखिलस्थावरजङ्गमाय || ४४-४२ || प्. ४२७) अवार्यवीर्याय च भूरिधाम्ने समस्तकल्याणगुणार्णवाय | विशुद्धतेजोमयमूर्तये ते नमो नमश्चक्रवपुर्धराय || ४४-४३ || नमो जयायातुलविक्रमाय समाश्रितत्राणसुदीक्षिताय | सहस्रचक्राय सहस्रनाम्ने नमः सहस्रारवपुर्धराय || ४४-४४ || जगज्जनिस्थितिहरणैकहेतवे भवार्णवोत्तरणसुनाविकाय ते | मरुद्गणप्रतिभटदैत्यदानव- प्रमाथिने निभृतसुतेजसे नमः || ४४-४५ || मधुरिपुमनसो यथा यथा प्रथमत एव मनीषितं विभो | तव पदसरसीरुहं यतो जगति करोति मनीषितं तथा || ४४-४६ || स्मृतिध्वस्ताशेषाश्रितजनमहापापनिचय- प्रवाहागाधाब्धिप्लवचरणपङ्केरुहयुग | त्वदीयार्चिर्वारांनिधिकणकृतात्माङ्गदिनकृ- च्छशाङ्कस्वाहेशस्तुतपरमधाम्ने नम इदम् || ४४-४७ || प्. ४२८) जगत्कालसंवर्तचक्रात्मने ते चतुर्वक्त्रमुख्यामरेड्याय नित्यम् | नमो नित्यगोविन्दसेवारसाप्ता- तुलानन्दसंदोहपूर्णात्मने स्तात् || ४४-४८ || सकलसुरास्त्रमुख्यसततस्मृतनैकजनि- प्रभृतिमहापदाननिकरश्रुतिहृष्टमनः | सकलसुरासुरेशमणिमौलिमरीचिघटा- घटितपदारविन्दयुगलाय नमो भवते || ४४-४९ || कलामुहूर्तनाडिकाद्युपाधिकालहीन ते | नमः क्षयर्द्धिजन्मनाशवर्जितात्ममूर्तये || ४४-५० || वन्दे वरेण्यमपि वाङ्मनसाति भूमि- मस्पृष्टहेयगुणमाश्रितवत्सलं त्वाम् | अक्षीणपुण्यजनलम्भ्यमशेषवन्द्यं विद्यामयं परमभौतिकदिव्यदेहम् || ४४-५१ || तद्रूपोपसंहरणप्रार्थना त्वां तत्त्वतो न विदूरीश जगत्यमुष्मिन् मर्त्येषु नैव विबुधेषु न चापरेषु | वेदाः परं विदुरतोऽप्युपसंहराद्य रूपं भयावहमदृष्टचरं प्रसीद || ४४-५२ || सुदर्शनेनाष्टभुजेन भूत्वा स्वस्वरूपस्यातिगुह्यत्वकथनम् इत्युक्तस्तेन गुरुणा भगवांश्चक्ररूपधृत् | प्. ४२९) आविर्बभूव तस्याग्रे तदा ह्यष्टभुजः प्रभुः || ४४-५३ || प्रसन्नवदनः श्रीमान् व्याजहार गुरुं तदा | तदेतद् दर्शितं रूपमदृष्टं देवदानवैः || ४४-५४ || सत्यं मां न परो वेत्ति विना देवं जनार्दनम् | सुदर्शनस्य भगवत्क्रियाशक्तिस्वरूपत्वनिरूपणम् गुह्यमेतत् क्रियाशक्तिरहं देवस्य शार्ङ्गिणः || ४४-५५ || अतस्तत्कार्यमखिलं मयैव क्रियते मुने | जगज्जन्मादि सकलमित्युक्त्वान्तरधीयत || ४४-५६ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां सुदर्शनस्वरूपप्रदर्शनं नाम चतुश्चत्वारिंशोऽध्यायः || ४४ || आदितः श्लोकाः २७७२ कुशध्वजोपाख्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || अध्यात्मविद्यादिविषयकः प्रश्नः नारदः - भगवन्निदमाख्यातं पुरस्तात् परमेश्वर | अध्यात्मविद्याविद्या च परविद्या स्वरूपतः || ४५-१ || ताभिः किं साध्यते देव ताभिः किं वा निवर्त्यते | त्वमेवैतद्विजानासि तन्ममाचक्ष्व विस्तरात् || ४५-२ || अविद्याकार्यनिरूपणम् अहिर्बुध्न्यः - परमं गुह्यमेतत् ते कथयामि यथा शृणु | अविद्यया परं रूपं जीवात्मपरमात्मनोः || ४५-३ || संछाद्यते तयोस्तत्त्ववेदनं तु निवर्त्यते | अध्यात्मज्ञानकार्यनिरूपणम् अध्यात्मयोगाधिगमात् परं ज्ञानं प्रजायते || ४५-४ || प्. ४३१) निवर्त्यते तथानादिः संसारो बन्धनात्मकः | परविद्याकार्यनिरूपणम् परस्वरूपविज्ञानादपुनर्भवलक्षणा || ४५-५ || साध्यते परमा मुक्तिः सदानन्दफलानघ | अनादिकालसिद्धानि प्राक्तनान्यमुना मुने || ४५-६ || भविष्याणि च कर्माणि निरस्यन्ते सवासनम् | प्रारब्धकर्मणां भोगैकनाश्यत्वम् न विनश्यति भोगेन विना प्रारब्धकर्म यत् || ४५-७ || एतत् सर्वं समासेन भवतः कथितं मया | प्रारब्धकर्मविनाशककर्मविशेषसदसद्भावप्रश्नः नारदः - प्रारब्धकर्म भगवन् नाश्यते केन कर्मणा || ४५-८ || न विनश्यति वा किंस्विदेतत् केनापि कर्मणा | तत्प्रतिविवक्षया कुशध्वजेतिहासोदाहरणम् अहिर्बुध्न्यः - त्रेतायुगे पुरावृत्तमितिहासमिमं शृणु || ४५-९ || आसीत् कुशध्वजो नाम जनकेषु महीपतिः | ब्रह्मवित् परमोदारः प्रजापालनतत्परः || ४५-१० || प्. ४३२) कुशध्वजस्य महामोहेन भृशं पीडा तस्य भूमण्डलं सर्वं शासतः पृथिवीपतेः | एकदा तु महामोहः प्रादुरासाङ्गतापनः || ४५-११ || कल्पान्तरं भृशं तेन पीडितोऽपि महीपतिः | यास्यतीति स्वयं नैनं व्यजीगणदमित्रहा || ४५-१२ || उदासीनस्यापि तस्य मुहुर्मुहुः पीडातिशयः पुनश्च पीडितस्तेन वारं वारं विशां पतिः | नितरां पीडितस्य तस्य चिन्ताप्रकारः अचिन्तयत् तदा चेत्थमयमाकस्मिको बली || ४५-१३ || मुहुरध्यात्मनिरतं बाधते मामनाथवत् | न शाम्यति स्वयं केन कारणेनैतदागतम् || ४५-१४ || तस्य स्वकुलगुरुयाज्ञवल्क्याभिगमनम् इति चिन्तापरो राजा जगाम गुरुमन्दिरम् | ब्रह्मघोषयुतं पुण्यं हविर्धूमाधिवासितम् || ४५-१५ || प्रविश्यान्तः समासीनमग्न्यगारे तपोनिधिम् | ब्रह्मविद्भिः परिवृतं विवस्वन्तमिवापरम् || ४५-१६ || याज्ञवल्क्यं कुलगुरुं ददर्श विनयान्वितः | कुशध्वजेन स्ववृत्तान्तनिवेदनम् तं प्रणम्य महात्मानमिदं वचनमब्रवीत् || ४५-१७ || प्. ४३३) त्वत्त एव मया विद्या परा प्राप्ता तथापरा | परविद्यानलेनैव दग्धं कर्माखिलं मम || ४५-१८ || पूर्वापरं विना कर्म प्रारब्धमिति च श्रुतम् | राज्यलाभः फलं प्राप्तं प्रारब्धस्य तु कर्मणः || ४५-१९ || इति मे वर्तमानस्य दुःसहः स्मृतिभञ्जनः | प्रावर्तत महामोहो मद्गात्रपरितापनः || ४५-२० || केनैतदागतं कष्टं केन वा शंस शाम्यति | याज्ञवल्क्यस्य प्रतिवचनम् तेनैवमुक्तो भगवान् व्याजहार कुशध्वजम् || ४५-२१ || शरीरसृष्टेः फलभोगार्थत्वम् सुखदुःखोपभोगाय देहिनां देहकल्पनम् | ब्रह्मविच्छरीरस्यापि तथात्वम् अपि ब्रह्मविदां देहस्तथैवेत्यवधारय || ४५-२२ || तत् तवापि शरीरेण भोक्तव्यं कर्मणः फलम् | क्रियन्ते यानि कर्माणि शरीरेण तवापि तु || ४५-२३ || तेषां फलानि भुज्यन्ते केवलं न कदाचन | महामोहस्य पापफलत्वम् अतः पापफलं विद्धि प्राप्तमेतन्महीपते || ४५-२४ || प्. ४३४) तत्कारणभूतपापनिरूपणप्रतिज्ञा शृणु येनागतो मोहस्तत्त्वतः कथयाम्यहम् | उन्मादश्च महोन्मादश्चित्ताक्षेपश्च मूर्छना || ४५-२५ || संज्ञान्तकारी विक्षोभः प्रलापी स्मृतिभञ्जकः | अष्टौ दोषा महापापैर्जायन्ते प्राणिहिंसकाः || ४५-२६ || राज्ञामुन्मादादिदोषोत्पत्तिकारणनिरूपणम् ब्रह्मघ्नादण्डनविधेरसत्ये सत्यतामतेः | स्वाराध्यदेवताबिम्बोपेक्षणान्नृपतेर्वधात् || ४५-२७ || ब्रह्मदेयापहारेण ब्राह्मणातङ्कनिर्मितेः | मर्यादाभङ्गकरणादगम्यागमनादपि || ४५-२८ || एतैर्नृपाणां जायन्ते दोषास्ते कारणैर्नृप | युद्धादन्यत्र राजवधात् कुशध्वजस्य महामोहप्राप्तिकथनम् अयुद्धे न्यवधीः पूर्वं महाराजं सुधार्मिकम् || ४५-२९ || एतद्देहोपभोग्येन पापेनानेन भूपते | प्राप्तेयं मूर्छना पापा भवन्तं भयदायिनी || ४५-३० || सुदर्शनमहिम्नाष्टानामपि दोषाणां निश्चयेन नाश्यत्वम् सौदर्शनप्रभावेण दोषाश्चाष्टविधा अमी | विनश्यन्ति न संदेहस्तेन तच्च प्रणश्यति || ४५-३१ || प्. ४३५) सुदर्शनप्रसादसंपादनयत्नोपदेशः अतस्तत्साधने यत्नं कुरुष्वाङ्ग विचारयन् | प्रथमं मण्डपादिनिर्माणम् प्रथमं मण्डपं तुङ्गं सर्वमङ्गलसंयुतम् || ४५-३२ || बहुस्तम्भसमाकीर्णं तुङ्गतोरणमण्डितम् | शुक्लक्षौमवितानाढ्यं किङ्किणीजालभूषितम् || ४५-३३ || बहुध्वजसमाकीर्णं पताकाभिरलंकृतम् | मुक्तादामसमाकीर्णं बहुमाल्यपरिष्कृतम् || ४५-३४ || क्षौमाभिवेष्टितस्तम्भं दीपिकासमलंकृतम् | षट्त्रिंशत्पदविस्तारं चतुःपञ्चाशता पदैः || ४५-३५ || आयामैः संमितं रम्यं मङ्गलाष्टकसंयुतम् | चन्दनागरुधूपेन वासितं विश्वतः शिवम् || ४५-३६ || सरस्वतीतीरे मण्डपनिर्माणविधिः एवमेव सरस्वत्यास्तटे शुद्धे पुराद् बहिः | शीघ्रं कारय कल्याण मा भैषीर्मा विचारणा || ४५-३७ || तत्र स्वागमनप्रतिज्ञा तत्रैव चागमिष्यामि करिष्ये कर्म शान्तिकम् | यथोपदेशं राज्ञोऽनुष्ठानम् एवमुक्तवति प्राज्ञे गुरौ राजा विनिर्ययौ || ४५-३८ || प्. ४३६) ततः स परमप्रीतः समाहूय च किंकरान् | यथोक्तलक्षणं तत्र मण्डपं समकारयत् || ४५-३९ || याज्ञवल्क्यस्य तन्मण्डपगमनम् स्वप्रभावेण तद्दोषं शक्तः शमयितुं मुनिः | तथापि राजधर्मोऽयमिति बुद्ध्या विचिन्त्य सः || ४५-४० || जगाम मण्डपं तत्र शुक्लपक्षे शुभे दिने | मण्डपस्य पश्चिमभागे राजासनकल्पनम् शिल्पिनः स समाहूय राजासनमकल्पयत् || ४५-४१ || अस्य पश्चिमदिग्भागे तृतीये समलंकृते | प्राग्भागद्वयमध्ये होमकुण्डकल्पनम् प्राग्भागद्वयमध्येऽस्य होमकुण्डान्यकारयत् || ४५-४२ || विमानलक्षणोपेतवेदिकास्थलमूर्धसु | चक्राकृतीनि कुण्डानि कल्पयामास सादरम् || ४५-४३ || मध्ये अष्टदिक्षु च कुण्डकल्पना तादृशं कुण्डयुग्मं तु मध्ये कृत्वा ततो बहिः | अष्टासु दिक्षु कुण्डानि तथैव समकारयत् || ४५-४४ || प्रतिकुण्डमेकैकस्य, मध्ये द्वयोश्च कुम्भयोः स्थापनम् प्रतिकुण्डं परिस्तीर्य कलमान् भारसंमितान् | स्थापयामास कुण्डानां पूर्वपार्श्वेषु सर्वतः || ४५-४५ || प्. ४३७) कुम्भानि राजतान्यष्टौ सौवर्णे मध्यमे उभे | गन्धतोयेन पूर्णानि नवरत्नयुतानि च || ४५-४६ || याज्ञवल्क्येन स्वयं कुम्भार्चनम् ततः स्वयं मुनिः सार्धं शतानन्देन धीमता | क्षौमैस्तन्तुभिरावेष्ट्य गन्धपुष्पैस्तथाक्षतैः || ४५-४७ || अलंकृत्य च कुम्भेषु देवमावाह्य सादरम् | अर्चयामास मन्त्रेण धूपदीपप्रसूनकैः || ४५-४८ || यन्त्रप्रतिष्ठाविलेखनादि महायन्त्रं प्रतिष्ठाप्य मध्येकुम्भद्वयं गुरुः | देवं विना महायन्त्रं सर्वमन्त्रसमन्वितम् || ४५-४९ || पटे विलिख्य पूर्वोक्तं सर्वदिव्यास्त्रसंयुतम् | राजासने विकीर्यैतत् ततस्तत् सोत्तरच्छदम् || ४५-५० || आरोपयामास तदा राजानममितौजसम् | स यन्त्रपटसंयुक्तं वितानं तस्य चाकरोत् || ४५-५१ || निर्माय च सुवर्णेन मणिजालपरिष्कृतम् | यथोक्तलक्षणं यन्त्रं दर्पणे च न्यवेशयत् || ४५-५२ || तथैव गोरोचनया भूर्जपत्रे सुसंस्कृते | सुवर्णसूच्या संलिख्य यन्त्रं दिव्यास्त्रवर्जितम् || ४५-५३ || प्. ४३८) शिरस्यधारयद्राज्ञो यन्त्रमेतत् सुमन्त्रितम् | सौदर्शनेन तिलकं भस्मना चाप्यकारयत् || ४५-५४ || ततश्चाष्टौ समाहूय ऋत्विजो मन्त्रनिष्ठितान् | संयतान् वैष्णवान् विप्रान् दिशाकुण्डेष्वयोजयत् || ४५-५५ || ततो यवनिकां कृत्वा मण्डपस्य समन्ततः | अलंकृतेषु कुण्डेषु सौवर्णैश्च परिच्छदैः || ४५-५६ || विधाय विहितं पूर्वमृत्विग्भिः सहितो गुरुः | शतानन्देन सहितो जुहाव ज्वलितेषु सः || ४५-५७ || नृत्तवादित्रसंयुक्तं ब्रह्मघोषसमायुतम् | पुण्याहं पूर्वमकरोद्धोमकर्म समाहितः || ४५-५८ || प्रधानकर्मणो युक्तौ शतानन्दो गुरुस्तथा | दिशाहोमेषु संयुक्ता ऋत्विजः सर्व एव ते || ४५-५९ || आज्यैर्विशुद्धैर्नियुतं होमान् संकल्प्य सादरम् | अकरोदयुतं नित्यमेवं दशदिनं कृतम् || ४५-६० || गुरुणानुदिनं स्नातो मन्त्रितैः कुम्भवारिभिः | मुक्तग्रहो विशुद्धात्मा विज्वरः प्रीतमानसः || ४५-६१ || पूर्णे दशदिने राजा रत्नैर्बहुसुवर्णकैः | आराधयामास गुरुं मण्डपं सपरिच्छदम् || ४५-६२ || निवेद्य गुरवे सर्वानृत्विजः समतर्पयत् | धनैश्च बहुभिर्धान्यैः प्रतिष्ठाभिः समाहितः || ४५-६३ || प्. ४३९) प्रशशास महीमेनां दिवि देवेन्द्रवत् सुधीः | अन्येषामपि भूतानामयमेव विधिः स्मृतः || ४५-६४ || पञ्चाशन्नियुतैर्होमैर्द्वापरे स विधीयते | कलौ च कोटिहोमेन विधिरेष महीक्षिताम् | प्रारब्धमेवं भोक्तव्यं कर्म ब्रह्मविदामपि || ४५-६५ || इति श्रीपञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां कुशध्वजोपाख्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः || ४५ || आदितः श्लोकाः २८३७ सुदर्शनहोमाङ्गद्रव्यपरिमाणादिनिरूपणं नाम षट्चत्वारिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || राज्ञो होममण्डपानागमने कर्तव्यक्रमः नारदः - दैवाद्वा मानुषाद्वापि भूतादिभिरथापि वा | दर्पात् प्रतिबलाद्वान्यैरन्तरायैर्महीपतिः || ४६-१ || यदि न प्राप्नुयादेव होममण्डपमादितः | ततः कथं महीभर्तुर्निवर्त्यन्ते महाग्रहाः || ४६-२ || अहिर्बुध्न्यः - शृणु राजा न चेत् कुर्यात् पुरोधाः कुरुतात् कृती | स एव राज्ञः सर्वस्वमदृष्टार्थोपपादने || ४६-३ || पुरोहितलक्षणम् धार्मिकः श्रुतिसंपन्नः सुशीलः सत्यवाक् शुचिः | अभिजातोऽनहंकारस्तितिक्षुः स्मृतिमान् वशी || ४६-४ || देशकालविभागज्ञः शास्त्रदृष्टिरतन्द्रितः | प्. ४४१) अप्रधृष्योऽप्रमादी च वदान्यो नयकोविदः || ४६-५ || उपायोपेयविन्मन्त्री यायजूको ह्यलोलुपः | दैववित् प्रियवादी च वैदिकः सत्त्ववान् प्रभुः || ४६-६ || विष्णुभक्तस्तपस्वी च कार्यवित् कर्मठोऽनघः | हिताहिताप्तिहानेच्छुर्नृपाणां सर्वसंमतः || ४६-७ || पुरोधस एव राज्ञः सर्वकार्यकर्तृत्वम् ईदृशो दुर्लभो राज्ञां गुरुकल्पः पुरोहितः | ईदृशो हि क्षमो राज्ञामघौघविनिवारणे || ४६-८ || अतः स एव राज्ञां हि रक्षाविधिमथार्हति | एवंविधो गुरुर्यस्य स सम्राद् नृपतिर्भवेत् || ४६-९ || दीर्घायुर्निःसपत्नः स्यादरोगः परवीरहा | अवग्रहाद्या जायन्ते पीडास्तद्विषये न हि || ४६-१० || तादृशपुरोहिताभावे राज्ञोऽनिष्टकथनम् तं विनान्यो भवेद्राज्ञो गुरुर्वाथ पुरोहितः | विपरीतं भवेत् तस्य महीभर्तुर्न संशयः || ४६-११ || कुम्भादीनां परिमाणादिप्रश्नः नारदः - परिमाणं च कुम्भानां स्रुक्स्रुवाणां च लक्षणम् | ऋत्विजः कीदृशो ह्यस्य प्रकारश्चाखिलं वद || ४६-१२ || प्. ४४२) उत्तमपरिमाणम् अहिर्बुध्न्यः - शुद्धैर्गन्धोदकैर्भारपरिमाणैः सुपूरितान् | सौवर्णराजतान् कुम्भान् कारयेदिदमुत्तमम् || ४६-१३ || मध्यमपरिमाणम् अर्धभारभृतान् कुम्भान् मध्यमोऽयं विधिः स्मृतः | अधमपरिमाणम् तदर्धेनाधमे पक्षे पूरयेदेष निर्णयः || ४६-१४ || यथाविधि स्रुगादिनिर्माणम् यथाविधि विधेयौ तु स्रुक्स्रुवौ मुनिसत्तम | ऋत्विक्संख्या ऋत्विजः सात्त्विकानष्टौ वृणुयाद्वैष्णावांस्ततः || ४६-१५ || अङ्गमन्त्रादिविधिः अङ्गमन्त्रैश्च गायत्र्या वह्निप्राकारकेण च | प्रधानकुण्डयोश्चापि गुरुकल्पौ समाहितौ || ४६-१६ || वृणुयान्मूलमन्त्रेण सर्वे रक्षामनौ रताः | शमीसमिद्भिर्दूर्वाभिस्तिलैराम्रदलैस्तथा || ४६-१७ || चरुणा पायसापूपैः पालाशैर्जुहुयात् क्रमात् | प्. ४४३) शुद्धेन सर्पिषा मध्यकुण्डयोर्हावयेद् गुरुः || ४६-१८ || अथवा सर्वकुण्डेषु शुद्धेनाज्येन हावयेत् | गुरुणैवाभिनिर्वर्त्ये प्रतीकारविधाविह || ४६-१९ || शयनासनयानादौ राज्ञः स्वैरविधावपि | पूर्वोक्तेन विधानेन वितानादिकमाचरेत् || ४६-२० || होमान्ते राज्ञोऽभिषेकः होमावसानसमये प्रयोगेऽप्यत्र तद्गुरुः | तत्र राजानमाहूय पूर्ववन्मन्त्रितासने || ४६-२१ || स्थापयित्वाभिषेकादिसस्कारं गुरुराचरेत् | गुर्वादिप्रीणनम् ततः स्वस्थमनाः सद्यो विमुक्तग्रहबन्धनः || ४६-२२ || यथार्हं गुरवे दद्यात् स्वचिह्नानि प्रणम्य च | भूषणानि महार्हाणि मुक्तामणिमयानि च || ४६-२३ || मणिपीठसुवर्णानि रत्नानि विविधानि च | भुवश्च भूयसीर्दत्वा ऋत्विजस्तर्पयेत् ततः || ४६-२४ || एकैकमृत्विजः सर्वे शतेनार्च्याः सुवर्णकैः | प्रत्येकं दशभिर्गोभिर्वासोभिर्विविधैरपि || ४६-२५ || प्रधानहोमकर्त्रे विशेषतो दक्षिणादानम् प्रधानहोमकर्त्रे तु देशिकाय विशेषतः | प्. ४४४) दद्याद् बहु धनं पूर्णमेकमश्वं सवाहनम् || ४६-२६ || अलंकारेण सहितं मण्डपं सपरिच्छदम् | ततो ब्राह्मणतर्पणम् ब्राह्मणानां ततस्तृप्तिं कुर्यात् प्रीतमना नृपः || ४६-२७ || राज्ञा स्वेनाभिनिर्वृत्ते कर्मण्यस्मिन् यथोदिते | प्रयोगे देशिकायैव दद्यान्मन्त्रविदे वसु || ४६-२८ || पुरोधसा कृतं सर्वमेष धर्मः सनातनः | राजोदाहरणे तावत् सविशेषमुदीरितम् || ४६-२९ || अन्येषामपि सर्वेषामेष एव विधिः स्मृतः | पूर्णाहुतिं ततः कुर्याद्वैष्णव्यर्चा समाहितः | राज्ञोऽभ्युदयमाकाङ्क्षन् देशिको मन्त्रवित्तमः || ४६-३० || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां सुदर्शनहोमाङ्गद्रव्यपरिमाणादिनिरूपणं नाम षट्चत्वारिंशोऽध्यायः || ४६ || आदितः श्लोकाः २८६७ महाशान्तिविधानं नाम सप्तचत्वारिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || ऐहिकामुष्मिकसर्वफलसाधकैकोपायप्रश्नः नारदः - भगवन् पञ्चमन्त्राङ्ग पशुपाशहर प्रभो | स्वतः साक्षात्कृताशेषविशेष व्योममन्दिर || ४७-१ || ऐहिकामुष्मिकं शश्वन्मन्त्रेणानेन लभ्यते | उभयेऽपि तथा दोषा नाश्यन्ते नात्र संशयः || ४७-२ || इत्युक्तं तेन पृच्छामि येनैकेनैव कर्मणा | उभयी सिद्धिरुभयानिष्टनाशो भवेत् तथा || ४७-३ || ईदृशं कर्म चेदस्ति तन्मे कथय शंकर | ईदृग्ग्रहस्य त्वत्तोऽन्यो न कश्चिद् वक्तुमर्हति || ४७-४ || तदुत्तरकथनारम्भः अहिर्बुध्न्यः - तदेतत् कथयिष्यामि सर्वशान्तिकरं परम् | वक्ष्यमाणे कर्मविशेषे राज्ञामधिकारः महाराजैर्महाभागैः प्रयोज्यं व्यस्तजातिभिः || ४७-५ || प्. ४४६) तस्य निखिलदुःखनिवर्तनपूर्वकमीप्सितफलसाधनत्वम् आध्यात्मिकादिदुःखानां त्रयाणामपि नाशनम् | आधीनां चाप्यशेषाणां नाशनं शुभलक्षणम् || ४७-६ || सर्वारिनाशनं शान्तं महाविजयकारणम् | रक्षोहणं पुष्टिकरं सर्ववश्यकरं मुने || ४७-७ || परमायुःप्रदं पुण्यं पूर्वैर्नृपतिभिः कृतम् | अम्बरीषप्रभृतीनामेतदनुष्ठानात् यथोक्तफललाभः अम्बरीषः शुकोऽलर्को मांधाता च पुरूरवाः || ४७-८ || राजोपरिचरो धुन्धुः शिबिश्च श्रुतकीर्तनः | कृत्वैतच्चक्रवर्तित्वं पुरा प्रापुरमी नृपाः || ४७-९ || निरामया निःसपत्ना विस्तीर्णामलकीर्तयः | तत्र राज्ञामधिकारनिगमनम् अतो मानुषमानन्दं काङ्क्षन्तो भुवि भूभुजः || ४७-१० || कुर्युरेतन्महाशान्तिलक्षणं कर्म सादरम् | देशविशेषविधिः पुराद् बहिर्महानद्यास्तटे देवालयेऽथवा || ४७-११ || असंबाधे शिवे देशे विविक्ते सजलाशये | पूर्वोक्तलक्षणयुतान्मण्डपादधिकं मुने || ४७-१२ || कुर्यादायामविस्तारौ तथा राजासनान्वितम् | प्. ४४७) तत्तत्समन्ततः कुर्यादेवंलक्षणमुत्तमम् || ४७-१३ || मण्डपनिर्माणक्रमः बहुस्तम्भसमाकीर्णं मणिकाञ्चनमण्डितम् | तुङ्गतोरणसंयुक्तं दीपिकाशतशोभितम् || ४७-१४ || किङ्किणीजालसंयुक्तं पताकाभिरलंकृतम् | सवितानं ससोपानं सर्वालंकारसंयुतम् || ४७-१५ || चन्दनागुरुकर्पूरधूपमालाधिवासितम् | तुङ्गसालसमायुक्तं होमशालाभिवेष्टितम् || ४७-१६ || कुण्डकल्पनाक्रमः एवं मनोज्ञ कृत्वैतत् तत्र कुण्डानि कल्पयेत् | प्राग्भागे मण्डपस्यास्य चतुर्दिक्षु प्रकल्पयेत् || ४७-१७ || चतुर्व्यूहाभियोगार्थं चतुरश्राणि कारयेत् | प्राच्याद्यान्यथ कुण्डानि केशवादीनथो यजेत् || ४७-१८ || चतुर्णां केशवादीनां विकोणेषु प्रकल्पयेत् | कुण्डानि शेषमूर्तीनां तच्छिद्रेषु यथाक्रमम् || ४७-१९ || त्र्यश्रं षडश्रमर्धेन्दुं योनिं पद्माकृतिं क्रमात् | वृत्तं पद्माभमष्टाश्रं वज्राकृति धनुःप्रभम् || ४७-२० || शूलाभं शूर्पकल्पं च कुण्डान्येतानि कारयेत् | प्. ४४८) मध्ये देवं प्रतिष्ठाप्य यन्त्ररूपधरं प्रभुम् || ४७-२१ || विमानलक्षणोपेतं कुण्डं कुर्यात् तदग्रतः | अस्त्रकुण्डकल्पना समन्ताद्धोमशालायामस्त्रकुण्डान्यनुक्रमात् || ४७-२२ || शतं तथाधिकं कुर्याच्चत्वारिंशदतन्द्रितः | यथार्हमस्त्रलिङ्गानि मण्डितान्यथ कारयेत् || ४७-२३ || ऋत्विग्वरणम् अन्तर्मण्डपकुण्डेषु ऋत्विजः षोडश क्रमात् | ऋग्भिः पुरुषसूक्ताभिर्वृणुयाद्वैष्णवान् सतः || ४७-२४ || अस्त्रकुण्डेषु ऋत्विगन्तरवरणम् ततः स्वनामभिश्चान्ते वृणुयाद्वेदपारगान् | बाह्यास्त्रकुण्डशालायां ब्रह्मास्त्रप्रमुखेष्वपि || ४७-२५ || ऋत्विजो वृणुयात् सर्वान् कुशलान् शान्तिकर्मणि | ब्रह्मजज्ञानमित्यादि-ऋग्भिः पञ्चाशतं क्रमात् || ४७-२६ || स्वनामभिश्च विदुषो ब्रह्मास्त्रादिकृतादिकान् | त्रिशतं वृणुयाद् ब्रह्मसूक्तैः सद्भिरनुक्रमात् || ४७-२७ || तत्रैवाथ भवा मित्र इति पञ्चभिरन्वितः | प्. ४४९) परो मात्रादिभिर्-ऋग्भिस्त्रयोदशभिरेव च || ४७-२८ || विष्णुसूक्तगताभिश्च अस्य वामेति पञ्चभिः | अतो देवेति षड्भिश्च दशभिश्चक्षुरित्यपि || ४७-२९ || षड्भिः प्रति व एनेति वृणुयात् स्वस्वनामभिः | सौवर्णान् राजतान् वाथ कुर्याद्धोमपरिच्छदान् || ४७-३० || कुम्भस्थापनम् पूर्वभागेषु कुण्डानां स्थापयेत् तोयपूरितान् | सौवर्णान् राजतान् कुम्भान् यद्वा ताम्रमयानिह || ४७-३१ || कुम्भान् पूर्ववदेकैकं कलमान् भारसंमितान् | होमार्थमृत्विगन्तरवरणविधिः वृणुयादृत्विजः शिष्टान् यज्वनो होमकर्मसु || ४७-३२ || प्रवर्तयेत् स्वैः स्वैस्तु मन्त्रैर्मन्त्रविदुत्तमः | मध्यमकुण्डे आचार्यकर्तृकहोमविधिः देशिको मध्यमे कुण्डे सामध्वनिसमन्वितम् || ४७-३३ || हुनेद्वादित्रसंयुक्तं पुण्याहनिनदैर्युतम् | होमसंख्याविधिः प्रत्येकं कोटिहोमेन शान्तिकर्म समारभेत् || ४७-३४ || प्. ४५०) तत्तत्कुम्भेषु तत्तद्देवताभ्यर्चनविधि.ः तत्तद्देवान् समाहूय कुम्भेषु च पृथक् पृथक् | स्वैः स्वैरभ्यर्चयेन्मन्त्रैर्धूपदीपादिभिस्तथा || ४७-३५ || होमान्ते कुम्भोदकेन राज्ञोऽभिषेकः होमकर्मणि निर्वृत्ते तत्तत्कुम्भोदकैस्ततः | यन्त्रपीठे समारोप्य राजानमभिषेचयेत् || ४७-३६ || अस्त्रकुण्डेषु होमविधिः अस्त्रमन्त्रेषु येष्वेव नियुक्ता ये द्विजातयः | तत्तत्कुण्डेषु तैर्मन्त्रैर्जुहुयुः शान्तमानसाः || ४७-३७ || उत्तममध्यमाधमभेदेन होमसंख्याविकल्पः प्रत्येकं कोटिहोमस्तु मुख्यस्तस्यार्धमध्यमः | अधमं नियुतं ज्ञेयं यावदेतत् समाप्यते || ४७-३८ || कालेन तावता कार्यमप्रमत्तैरतन्द्रितैः | नारायणीयाद्यस्त्रवर्गे होमसाधनद्रव्यविधिः नारायणीयं ब्राह्मं च विमलं क्रौञ्चमेव च || ४७-३९ || धर्मपाशं च लक्षाक्षं संवर्तं सत्यमुत्तमम् | दुन्दुनाभं च शीतेषुं विष्णुचक्रं च मानवम् || ४७-४० || ऐन्द्रं ज्यौतिषमित्येतमस्त्रवर्गं घृतैर्हुनेत् | प्. ४५१) कालचक्रादिवर्गे चरुविधिः कालचक्रं धर्मचक्रं वज्रास्त्रं च गदाह्वयम् || ४७-४१ || ब्राह्मं शिरस्तथैषीकं त्रिशूलमशनिद्वयम् | कालपाशं च पैनाकं पाशं वारुणमेव च || ४७-४२ || आग्नेयं दयितं चापि तथा पाशुपतं परम् | एष वर्गस्तु होतव्यश्चरुणैव यथाविधि || ४७-४३ || कङ्कालादिवर्गे दधिविधिः कङ्कालं मुसलं चापि वायव्यमथ कङ्कणी | असिरत्नं च कापालं शक्तिर्वैद्याधरं तथा || ४७-४४ || प्रस्वापनप्रशमने दर्पणं शोषणं तथा | संतापनं च गान्धर्वं पैशाचं च विलापनम् || ४७-४५ || एतानि दध्ना होतव्यान्यस्त्राणि परमास्तिकैः | मदनादिवर्गे पयोविधिः मदनं तामसं चैव कन्दर्पदयितं परम् || ४७-४६ || सौमनं मुसलं चैव संवर्तं घोरमेव च | मायाधरं च सोमास्त्रं वारुणं त्वाष्ट्रमेव च || ४७-४७ || प्रस्वापनं भगास्त्रं च रौद्रसृष्टं पराङ्मुखम् | पयसामूनि जुहुयुस्तदस्त्रध्यानतत्पराः || ४७-४८ || प्. ४५२) रभसादिवर्गे पायसविधिः रभसं सत्यकीर्तिं च प्रतिहारतरं तथा | अवाङ्मुखं च विषमं दृढनाभं सुनाभकम् || ४७-४९ || दशाक्षं शतवक्त्रं च शतशीर्षं शतोदरम् | पद्मनाभं महानाभं नैराश्यक्रथने अपि || ४७-५० || वर्गोऽयं पायसेनैव होतव्यः शुद्धमानसैः | योगंधरादिवर्गे तिलविधिः योगंधरं विनिद्रं च नैद्रं सौमनसं तथा || ४७-५१ || धृतिमाली प्रमथनं विधूतं वृत्तिमानपि | महार्चिर्माली मकरं रुचिरं करवीरकम् || ४७-५२ || अमीषां च कृते कार्यस्तिलैर्होमो यथाविधि | धनादिवर्गे मधुविधिः धनधान्ये कामरूपं मोहः कामरुचिस्तथा || ४७-५३ || वरणावरणे चैव परमास्त्रे उभे अपि | जृम्भकं सर्वनाभं च भृशाश्वतनयो महान् || ४७-५४ || संदानं परशुं चैव प्रीणीयान्मधुना भृशम् | अन्येष्वस्त्रेषु शालितण्डुलविधिः अपराण्यप्यनुक्तानि जुहुयाच्छालितण्डुलैः || ४७-५५ || प्. ४५३) होमान्ते मन्त्रविशेषेण सुदर्शनतर्पणविधिः हुत्वा यथोक्तं स्वैर्मन्त्रैः सर्वास्त्रप्रभवं विभुम् | सुदर्शनाकृतिं विष्णुं सर्वयन्त्रमयं विभुम् || ४७-५६ || ऋग्भिर्यन्त्रनियुक्ताभिः शान्तिकर्म समारभेत् | नारायणीयादितर्पणे मन्त्रविशेषविधिः नारायणीयमुख्यास्त्रजातं प्रत्येकमादरात् || ४७-५७ || शान्तिं कुर्यात् परो मात्रेत्येतत्सूक्तेन सादरम् | कालचक्रादिवर्गे मन्त्रविशेषविधिः कालचक्रादिवर्गस्थं प्रत्येकं जातवेदसम् || ४७-५८ || प्रीणीयाच्चैव कङ्कालमुख्यवर्गस्य शान्तये | दिवस्परीति सूक्तेन जुहुयाज्ज्वलितेऽनले || ४७-५९ || मदनादिवर्गे मन्त्रविशेषविधिः मदनाद्यस्त्रवर्गस्य शान्तिं कुर्यात् समाहितः | अतो देवेति सूक्तेन तथा विष्णोर्नुकं त्विति || ४७-६० || रभसादिवर्गे मन्त्रविशेषविधिः रभसाद्यस्त्रजातानि भवा मित्रेति पञ्चभिः | प्रत्येकं शमयेदृग्भिरिति वैदिकशासनम् || ४७-६१ || प्. ५५४) योगंधरादिवर्गे मन्त्रविशेषविधिः योगंधरादेरस्त्रस्य शान्तिः कार्या समाहितैः | सूक्तेनानेन चैकैकमतो देवा अवन्त्विति || ४७-६२ || धनादिवर्गे मन्त्रविशेषविधिः धनधान्यादिवर्गस्थं मन्त्रजातं विचक्षणः | जुषस्व नेति सूक्तेन शमयेत् परमेण तत् || ४७-६३ || अन्येष्वस्त्रेषु मन्त्रविशेषविधिः अस्त्राण्यन्यान्यनुक्तानि विष्णुसूक्तेन तर्पयेत् | सूक्तैरेतैर्महायन्त्रविनियुक्तैश्च पावनैः || ४७-६४ || सर्वयन्त्रमयं देवं स्तुतिहोमैः समर्चयेत् | तर्पणान्ते सहस्रब्राह्मणभोजनविधिः ततो देवान् समभ्यर्च्य ब्राह्मणांस्तदनन्तरम् || ४७-६५ || सहस्रं भोजयेच्छुद्धैरोदनैः पायसैरपि | ततोऽस्त्रमन्त्रजलैः राज्ञोऽभिषेकविधिः ततो राजासनारूढं राजानं शान्तमानसम् || ४७-६६ || ऋत्विग्भिराहृतैः सर्वैरस्त्रमन्त्रजलैः शुभैः | गुरुस्तन्मूलमन्त्रेण मन्त्रितैरभिषेचयेत् || ४७-६७ || प्. ४५५) रुग्णस्य तु राज्ञः प्रोक्षणविधिः प्रोक्षयेदामयाविष्टो यदि राजा भवेन्मुने | मण्डपान्तःस्थकुम्भतोयाभिषेचनावश्यकता अवश्यं मण्डपान्तःस्थकुम्भतोयाभिषेचनम् | कुर्यान्निरामयोऽनाधिर्विजयी भवति क्षणात् || ४७-६८ || यथोक्तमहाशान्तिफलकीर्तनम् आरोग्यमायुर्विजयो विभूति- र्वशित्वमास्तिक्यममर्त्यता च | सर्वार्थसिद्धिर्वसुधाधिपत्यं भवन्ति निःसंशयमेव राज्ञः || ४७-६९ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां महाशान्तिविधानं नाम सप्तचत्वारिंशोऽध्यायः || ४७ || आदितः श्लोकाः २९३६ श्रीसुदर्शनमहायन्त्रघटितासनादिप्रभाववर्णनं नामाष्टाचत्वारिंशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || इष्टार्थसाधने जपादिव्यतिरिक्तोपायप्रश्नः नारदः - कथितं भगवन् सर्वं जपहोमार्चनादिकम् | अभिषेको महाशान्तिर्महाशान्तिक्रियाविधिः || ४८-१ || सर्वार्थसाधकत्वेन चक्ररूपस्य शार्ङ्गिणः | एतैर्विना किमिष्टार्थसाधनं विद्यते न वा || ४८-२ || तत्रासनादीनामुपायत्वकथनम् अहिर्बुध्न्यः - विनैतान्यप्यभीष्टार्थमलभन्त परे नृपाः | आसनेनाङ्गुलीयेन दर्पणेन ध्वजेन च || ४८-३ || वितानेन च विस्तीर्णभूतयो देवसंनिभाः | मुक्तापीडो विशालश्च सुनन्दश्चित्रशेखरः || ४८-४ || प्. ४५७) कीइर्तिमाली च भूपालाः पालयन्तोऽखिलां भुवम् | आसनादिभिर्मुक्तापीडादीनामिष्टसिद्धिः आसनेनैव वसुधां मुक्तापीडोऽजयत् पुरा || ४८-५ || विशालोऽप्यजयन्मृत्युमङ्गुलीयेन भूपतिः | सुनन्दो दर्पणेनैव नागलोकं महीपतिः || ४८-६ || ध्वजेनासुरसंग्राममजयच्चित्रशेखरः | कीर्तिमाली वितानेन त्रिदिवं प्राप भूपतिः || ४८-७ || केवलासनादीनामिष्टसाधनत्वकथंताप्रश्नः नारदः - केवलान्यासनादीनि साधनत्वं कथं ययुः | साध्यं प्रति विभो तन्मे कथयेदं महाद्भुतम् || ४८-८ || आसनप्रभाववर्णनाय मुक्तापीडोपाख्यानकथनम् अहिर्बुध्न्यः - मुक्तापीडो महातेजा राजा सुश्रवसः सुतः | पितर्युपरते पृथ्वीं बुभुजे सागराम्बराम् || ४८-९ || हारापीडस्य विषयासक्ततया राज्ये धर्मविच्युतिः निजान्तःपुरयोषित्सु विषयासक्तमानसः | अनालोचितसप्ताङ्गो राजा राजीवलोचनः || ४८-१० || प्. ४५८) प्रजास्तद्विषये तेन धर्मविच्युतिमाचरन् | बलिभिर्दस्युभी राज्यं क्षुभितं च हृतं च तत् || ४८-११ || तस्मै प्रकृतयः सर्वा राज्ञे क्षोभं व्यजिज्ञपन् | बुबुधे न स तेनापि मधुमैथुनविह्वलः || ४८-१२ || सपुरोधसाममात्यानां मन्त्रणप्रकारः ततः पुरोधसा सार्धममात्याः संन्यमन्त्रयन् | राजा तु विषयासक्तो राज्यं दस्युभिराप्लुतम् || ४८-१३ || इति संचिन्त्य ते सर्वे गुरुं प्रप्य महाद्युतिम् | भवत्प्रसादाज्जेष्यामो नान्या काप्यस्ति नो गतिः || ४८-१४ || इत्युक्तस्तैः पुरोधास्तु तथैवेत्याह तान् प्रति | पुरोधसा वसिष्ठोपदिष्टोपायानुष्ठानम् इत्युक्त्वा यन्त्रघटितं विष्टरं रत्नमण्डितम् || ४८-१५ || वसिष्ठोक्तेन मार्गेण चकारास्मै महाद्भुतम् | तस्मिन्नारोपयामास राजानमबलारतम् || ४८-१६ || पुरोधसा राजानं प्रति कृत्यविशेषानुशासनम् वेदशाखाश्चतुर्दिक्षु (१) वाचयेच्च क्रमेण तु | ______________ १ अत्र पूर्वप्रकान्तश्लोकद्वयानुगुण्यादुत्तरवाक्यानामपि पुरोधोव्यापारपरत्वं न्याययमिति लिट्प्रयोगस्यैवोचिततया वाचयेदित्यादिलिङ्गादिप्रयोगानुपपत्तिर्यद्यपि स्फुरति, तथापि वेदशाखाः इत्यारभ्याष्टाचत्वारिंशान्तानां श्लोकानां पुरोधःकर्तृकानुशासनपरत्वेन नानुपपत्तिः | अत एवैकोनपञ्चाशश्लोके तेनैवमनुशिष्टोऽयं इति ग्रन्थस्याप्याञ्जस्यं भवतीति ध्येयम् _______________ प्. ४५९) आशीर्मङ्गलयुक्तानि गीतवादित्रनर्तकान् || ४८-१७ || कलशोदकमक्षययममृतं भावयेद् बुधः | तन्मध्यादुत्थिते पद्मे सौवर्णे चाष्टपत्रके || ४८-१८ || चतुर्बाहुं त्रिनेत्रं च पद्यहस्तं हिरण्मयम् | सर्वाभरणसंछन्नं मुक्ताहारविराजितम् || ४८-१९ || किरीटहारकेयूरकटकादिविभूषितम् | पीताम्बरधरं सौम्यं प्रसन्नवदनं शुभम् || ४८-२० || कटिसूत्रसमायुक्तं कुण्डलाभ्यां विराजितम् | श्रीवत्सवक्षसं श्रीशं श्रीकरं श्रीनिकेतनम् || ४८-२१ || श्रिया जुष्टं सदा सम्यक्ताम्रपद्मनिभेक्षणम् | पद्मनाभमुदाराङ्गं भक्तार्तिशमनं हरिम् || ४८-२२ || तस्याङ्के दक्षिणे लक्ष्मीं समासीनां विचिन्तयेत् | मन्त्रमूर्त्यात्मको देवो मन्त्रवाच्यस्तु स प्रभुः || ४८-२३ || प्रविशन्तं ततस्तं तु भावयेन्मन्त्ररूपिणम् | एवं संचिन्तयन् मन्त्रं जपेत् कलशमामृशन् || ४८-२४ || अष्टोत्तरायुतं जप्त्वा अभिषिञ्चन् स्वकां तनुम् | ग्रहाणां नवकानां च सद्यः शान्तिकरो भवेत् || ४८-२५ || प्. ४६०) आयुः श्रियं च यस्येच्छेत् तं च तेनाभिषेचयेत् | अर्चयेदृत्विजः सर्वान् पूर्वमेव बुधो नरः || ४८-२६ || ब्राह्मणांस्तर्पयेच्चैव दक्षिणामुत्तमां ददत् | एवं स्वस्यापरस्यापि हितं कुर्यात् तथात्मनः || ४८-२७ || दक्षिणा चात्र देया स्यात् सुवर्णं शतमेव वा | केशान् धुनेन्न न वपेन्न स्पृशेत् स्नानशाटिकाम् || ४८-२८ || नातिष्ठेत् स्नानसलिलमलंकुर्यात् ततो बुधः | मङ्गलानि च पश्येत्तु ऋषभं मङ्गलाः स्त्रियः || ४८-२९ || आत्मनो जन्मनक्षत्रे शुक्लवासा भवेत् तथा | शुक्रवारेषु कुर्वीत सप्तशः कुर्वतस्तथा || ४८-३० || कामाः संकल्पितास्तस्य ध्रुवं सिध्यन्ति नान्यथा | उद्वहन् वारि कुर्वीत श्रीकामः पापनाशनम् || ४८-३१ || तिष्ठन्नञ्जलिभिः प्रातरष्टोत्तरशतं पुनः | अभिमन्त्र्य जलं मूर्ध्नि क्षिपेत् पापप्रणाशनम् || ४८-३२ || जुहुयाद्वस्त्रकामस्तु कुसुमैः कुमुदादिभिः | यद्वर्णं जुहुयात् पुष्पं तद्वर्णं वस्त्रमाप्नुयात् || ४८-३३ || वृष्टिकामः शुचौ देशे गोमयेनोपलेपिते | रक्तद्रव्येण तत्रैव मण्डलं परिकल्पयेत् || ४८-३४ || मण्डलस्य पुरस्तात्तु नवकुम्भं निधापयेत् | प्. ४६१) तन्तुना वेष्टितं सम्यक् पूरितं गन्धवारिणा || ४८-३५ || आवाहयेत् ततः सूर्यं कुम्भे शुभ्रे समाहितः | तत्रस्थमर्चयेद् विष्णुं पूर्ववत् साधकोत्तमः || ४८-३६ || पायसं जुहुयात् तत्र शतमष्टोत्तरं बुधः | ध्यायन्नेकाग्रधीः सिंहं जपेन्मन्त्रं सहस्रशः || ४८-३७ || एवं कुर्वीत सप्ताहं द्वादशाहमथापि वा | ततः प्रसन्नो भगवान् महावृष्टिं विमुञ्चति || ४८-३८ || वैतसेनैव होमेन वृष्टिर्भवति सर्वथा | अनश्नन्नार्द्रवासस्को वृष्टिकामः सदा जपेत् || ४८-३९ || सप्ताहाज्जायते वृष्टिर्महती दिव्यशासनात् | भस्महोमेन वा सम्यग् लवणेनाथवा पुनः || ४८-४० || वृष्टिं निवारयेद् भूयः शान्तिः कार्या मनीषिणा | यस्तु मन्त्रं जपेन्नित्यं प्रातः स्नात्वा सहस्रशः || ४८-४१ || श्रीरारोग्यं च तेजश्च वर्धते तस्य सर्वदा | सर्वाहःसु जपेद्यस्तु क्षीराहारो जितेन्द्रियः || ४८-४२ || अर्चनं च यथाशक्ति कुर्वन्नियुतमन्वहम् | संसिद्धिमतुलां गच्छेदणिमादिगुणैर्युताम् || ४८-४३ || अहोरात्रोषितो यस्तु पञ्चगव्यं पिबेत् ततः | नित्यमष्टसहस्रं तु सर्वपापप्रणाशनम् || ४८-४४ || प्. ४६२) पञ्चगव्यं तु संपीत्वा जपेत् पञ्च दिनानि वै | ब्रह्महत्यादिभिः सद्यो मुच्यते सर्वपातकैः || ४८-४५ || वापयेत् सर्वबीजानि ह्यभिमन्त्र्य सहस्रकम् | महती सस्यसंपत्तिर्जायते नात्र संशयः || ४८-४६ || घृतेन पायसा चापि स्नापयेद् देवमुत्तमम् | ततः प्रसन्नो भगवान् ददाति मनसेप्सितम् || ४८-४७ || अश्नीयादन्वहं विद्वानन्नं सप्ताभिमन्त्रितम् | परकर्माचरन्नस्मिन्नासीनः कुरु सर्वदा || ४८-४८ || यथोपदिष्टानुष्ठानेन राज्ञो निष्कण्टकभूमिलाभः तेनैवमनुशिष्टोऽयं मासमात्रमथाकरोत् | तेनास्य शत्रवः सर्वे विनष्टा व्याधिभिर्बलैः || ४८-४९ || तेन निष्कण्टका भूमिर्वश्याभूत् तस्य सार्णवा | अङ्गुलीयप्रभाववर्णनाय विशालोपाख्यानारम्भः विशालो नाम राजायं विशालाख्ये पुरे वसन् || ४८-५० || पालयामास धर्मात्मा मेदिनीं साब्धिपत्तनाम् | विशालगुणवर्णनम् सत्यवादी समो बन्धुर्दैष्टिको धर्मवत्सलः || ४८-५१ || वसन् विंशतिमे वर्षे ब्राह्मणानामुपासकः | प्. ४६३) प्रजानुरञ्जको धीरो दैवे पित्र्ये च निष्ठितः || ४८-५२ || तज्जनन्याः स्वपुत्रमरणसूचकाकाशवाणीश्रवणाद्विलापः बाल्ये पित्रा वियुक्तस्य तस्येत्थं वसतो मुने | जननी वाचमश्रौषीदाकाशे ह्यशरीरिणीम् || ४८-५३ || आगामिनि चतुर्थेऽह्नि पञ्चत्वं ते गमिष्यति | पुत्र इत्यादि सा श्रुत्वा विललापाकुला भृशम् || ४८-५४ || राज्ञा मातुः समाश्वासनपूर्वकं पुरोधसः पुलहस्याश्रमगमनम् तच्छ्रुत्वा जननीमार्तामुवाच सुसमाहितः | किमर्थं रोदिषीत्येवं पृष्टा निर्बन्धतः सती || ४८-५५ || तत्त्वतो वृत्तमाचख्यौ स तच्छ्रुत्वा महामनाः | मा भैषीरिति तामुक्त्वा निर्ययौ पुलहाश्रमम् || ४८-५६ || पुलहं प्रति स्ववृत्तान्तनिवेदनम् तपस्यन्तं मुनिं दृष्ट्वा प्रणिपत्येदमब्रवीत् | अशृणोज्जननी चैवमशरीरां सरस्वतीम् || ४८-५७ || मुनिना तत्प्रतीकारोपायोपदेशनम् इत्थं तेनैवमुक्तोऽसौ मुनिराह पुरोहितः | सौदर्शनमहायन्त्रघटितं चाङ्गुलीयकम् || ४८-५८ || धारयैनमनेनैव मृत्युर्नश्यत्यसंशयम् | प्. ४६४) राज्ञा यथोपदिष्टानुष्ठानम् इति शिष्टोऽङ्गुलीयं स आहूयैनमधारयत् || ४८-५९ || ततश्च राज्ञो यमकिंकरैः समागमः विशालेन धृते तस्मिन्नङ्गुलीये सुयन्त्रिते | ततः कालेन संदिष्टाः किंकरा भीमदर्शनाः || ४८-६० || प्राणानादातुमाजग्मुस्तस्यान्तिकमवारिताः | अङ्गुलीयप्रभावात् किंकराणां दूरात् पलायनम् पार्श्वं न शेकुस्ते गन्तुमङ्गुलीयप्रभावतः || ४८-६१ || संरब्धोर्ध्वकरास्तस्मिन् यावत् पाशान्न चिक्षिपुः | तावच्चक्रमहानेमिनिःसृतैर्विविधायुधैः || ४८-६२ || प्रदुद्रुवुस्ते नितरां पीड्यमाना यथागतम् | राज्ञोऽपमृत्युजयात् यमादीनां विस्मयः ततः सहैव कालेन सुरा विस्मयमागमन् || ४८-६३ || सुदर्शनप्रभावेण तीर्णमृत्युरसाविति | दर्पणप्रभाववर्णनाय सुनन्दोपाख्यानम् तथैव दर्पणस्यापि शृणु वीर्यं महामुने || ४८-६४ || सुनीतिरिति राजासीच्छृङ्गाराख्ये पुरे पुरा | त्रेतायुगावसानेऽसौ पालयामास मेदिनीम् || ४८-६५ || प्. ४६५) सुमतिनाम्नस्तत्पुत्रस्य नागकन्यया नागलोके नयनम् लेभे चिरेण तनयमयमिष्ट्वा शतक्रतुम् | चकार सुमतिं नाम्ना वर्धमानं दिने दिने || ४८-६६ || जनकस्तं ततः श्रीमान् कालेन प्राप्तयौवनः | सोऽभूदनल्पकालेन प्राप्तविद्योऽस्त्रकोविदः || ४८-६७ || एकदा मृगयां कर्तुं बाह्योपवनमभ्यगात् | तत्रापश्यन्मनोज्ञाङ्गीं रूपयौवनशालिनीम् || ४८-६८ || अदृष्टपूर्वां तां दृष्ट्वा मुमोह मदनातुरः | सुमतिं तं समादाय सा जगाम स्वमालयम् || ४८-६९ || मायया मोहयित्वैनं नागलोकं विवेश सा | तस्यानङ्गमञ्जरीं वासुकितनयां परिणीय तत्रैव चिरकालनिवासः तस्मिन् भोगवतीं रम्यां नागराजपुरीं तदा || ४८-७० || प्रविश्यानङ्गमञ्जर्यै प्रायच्छत् सुमतिं रमा | तं दृष्ट्वा परमप्रीता सा वव्रे सुमतिं पतिम् || ४८-७१ || तं लोकं तां पुरीं तां च नागकन्यां मनोहराम् | विलोक्य विस्मयं प्राप स तां चानङ्गमञ्जरीम् || ४८-७२ || गान्धर्वेण विवाहेन परिगृह्य तया सह | रेमे विस्मृतसर्वस्वपुरीपितृपरिग्रहः || ४८-७३ || प्. ४६६) पुत्रविरहात् खिद्यता राज्ञा चारैः पुत्रान्वेषणम् एतस्मिन्नन्तरे राजा शुश्रावानागतं सुतम् | त्वरया परयाविष्टः सचिवांश्चेदमब्रवीत् || ४८-७४ || कृच्छ्राल्लब्धः प्रियः पुत्रो ममैकोऽद्य प्रवेश्यताम् | तेन सार्धं तु भुञ्जीय न भोक्ष्येऽद्येत्यचोदयत् || ४८-७५ || इति तस्य वचः श्रुत्वा निर्ययुः सर्वतो दिशः | सचिवैः प्रेषिताश्चारा दूताश्चान्ये जवान्विताः || ४८-७६ || विदिक्षु दिक्षु कोणेषु गिरिष्वप्सु सरित्सु च | ग्रामेषु नगरेष्वेते चेरुश्चैत्येषु शाखिषु || ४८-७७ || पत्तनेष्वप्यरण्येषु तीर्थेष्वन्विष्य सर्वतः | नापश्यन् सुमतिं सर्वे तथैवोचुर्नृपाय वै || ४८-७८ || अलब्धपुत्रवृत्तान्तेन राज्ञा अनशनव्रतस्वीकरणम् तच्छ्रुत्वा शोकसंतप्तो विलप्य बहु भूपतिः | अनश्नन्नशयिष्टान्तः शोकेन महतावृतः || ४८-७९ || पुरोधसा कण्वाश्रमगमनपूर्वकं तस्मिन् राजवृत्तस्य निवेदनम् एवं शोकाभिभूतेऽस्मिन् महाराजे पुरोहितः | स्वगुरुं कण्वमासाद्य तमसातीरवासिनम् || ४८-८० || वृत्तं विज्ञापयामास राजपुत्रस्य तादृशम् | प्. ४६७) कण्वमुनिना राजकुमारवृत्तान्तस्याविष्करणम् तच्छ्रुत्वा स मुनिर्युक्तो बभूव कृपया पुनः || ४८-८१ || दृष्ट्वा कुमारवृत्तान्तं योगेनास्मात् समुत्थितः | स तस्मै कथयामास तद्वृत्तमखिलं मुनिः || ४८-८२ || आसीद् भोगवती नाम पुरी परमशोभना | पाताले नागराजस्य वासुकेरमितद्युतेः || ४८-८३ || अनङ्गमञ्जरी नाम तस्यां तस्याभवत् सुता | रूपलावण्यसंपन्ना कालेन प्राप्तयौवना || ४८-८४ || अस्या यस्मिन् वरे लिप्सा तस्मै दास्यामि तामिति | संकल्पं वासुकेर्मत्वा चेष्ट्यश्चेरुरितस्ततः || ४८-८५ || तस्याः सदृशमन्वेष्टुं वरं तं नैव लेभिरे | नागलोके तथा भूम्यां व्यचरन् वरवाञ्छया || ४८-८६ || तत्रैनं सुमतिं दृष्ट्वा राजपुत्रं मनोहरम् | प्रोचुस्तस्या महाराजतनयो मदनोपमः || ४८-८७ || तवैव सदृशो भूम्यां पुरुहूतसमः श्रिया | न च सामादिभिः शक्यः समानेतुमसाविति || ४८-८८ || तदाकर्ण्य तमत्रैव क्षिप्रमानयतेति ताः | उक्त्वा तत्संगमौत्सुक्यात् परां चिन्तामुपागता || ४८-८९ || ततः संमन्त्र्य ताः सख्यो रमां मायाविशारदाम् | प्. ४६८) मायया मोहयित्वैनमिहानय मनोरमम् || ४८-९० || इत्यूचुः सा तथोक्तैनमानयामास मायया | सुमतिस्तामथोद्वाह्य रमते तत्र सांप्रतम् || ४८-९१ || कुमारप्रत्याहरणे सुदर्शनयन्त्रघटितदर्पणस्यैव साधनत्वोपदेशः सुदर्शनप्रभावेण विनाहरणकर्मणि | नास्त्युपायान्तरं तस्य ततस्तेनाहराम्यहम् || ४८-९२ || सुदर्शनमहायन्त्रं दर्पणीकृत्य हाटकैः | पूर्वोक्तवर्त्मना तेन तमानयत मा चिरम् || ४८-९३ || इत्युक्त्वा स पुनश्चक्रे तपः परमदारुणम् | यथोपदिष्टानुष्ठानात् राज्ञो नागलोकगमनसिद्धिः पुरोहितो विनिष्क्रम्य राज्ञे सर्वं न्यवेदयत् || ४८-९४ || राजा च परमप्रीतः कृत्वा यन्त्रितदर्पणम् | रथे पुरस्तात् संस्थाप्य बिलद्वारं तदा ययौ || ४८-९५ || तेनाभिगन्तुं शक्तोऽभूत् सुनन्दो दर्पणौजसा | अत्यद्भुतनागलोकदर्शनात् राज्ञो विस्मयातिशयः प्रविश्य लोकं नागानां स्वर्गलोकमिवापरम् || ४८-९६ || विस्मयं परमं प्राप तत्समृद्धिविलोकनात् | राज्ञा सदारस्य कुमारस्य स्वपुरीं प्रति प्रत्यानयनम् तस्मिन् भोगवतीं रम्यां नागराजपुरीमसौ || ४८-९७ || प्. ४६९) प्रविश्याथानयामास पुत्रं परमवत्सलः | सदारः पितरं द्रष्टुं शुद्धान्तात् सुमतिस्तदा || ४८-९८ || निर्ययौ वनितालोकसहितो मदनो यथा | तं ताभिर्नागकन्याभिः सह स्यन्दनमुत्तमम् || ४८-९९ || आरोप्य स्वपुरीं राजा प्रतस्थे परवीरहा | ततः क्रुद्धस्य वासुकेर्युद्धसमुद्योगः तव जामातरं पुत्रीं स्वावरोधान्महीपतिः || ४८-१०० || कश्चित् स्यन्दनमारोप्य यातीत्याकर्ण्य वासुकिः | निर्ययौ परमक्रुद्धः फणिसेनापरीवृतः || ४८-१०१ || स दृष्ट्वा राजशार्दूलं तिष्ठ तिष्ठेति चाब्रवीत् | क्व गम्यते समादाय वधूं वरमितस्त्वया || ४८-१०२ || सुदर्शनयन्त्रघटितदर्पणप्रभावात् राज्ञो विजयलाभः सुनन्दोऽथ समाकर्ण्य निवर्त्य स्यन्दनोत्तमम् | वव्रे दर्पणमद्यैव शत्रुसेनां जहीति वै || ४८-१०३ || ततः प्रस्वापनाग्नेये दिव्यास्त्रे निःसृते क्षणात् | प्रस्वापनं नागसेनां विवेशानेन सास्वपत् || ४८-१०४ || आग्नेयमस्त्रमारब्ध तां पुरीं दग्धुमोजसा | पराजितेन वासुकिना शरणागतिपूर्वकं राजाभ्यर्हणम् तद् दृष्ट्वा नागराजस्तं शरणं समुपागमत् || ४८-१०५ || प्. ४७०) नाज्ञायि सर्वमस्माभिस्तदेतत् क्षम्यतां विभो | अत्याहितमिदं स्त्रीणामिति मत्वा शमं व्रज || ४८-१०६ || गृहाणेमानि रत्नानि महार्हाणि महाद्युते | इमां च कन्यामन्याश्च सहस्रं नागयोषितः || ४८-१०७ || आदाय प्रतिसंहृत्य दिव्यास्त्रे गन्तुमर्हसि | ततो राज्ञः सपरिकरस्य स्वपुरप्रवेशः सुनन्दोऽपि तथेत्युक्त्वा संहृत्यास्त्रे समाहितः || ४८-१०८ || ततः स्वपुत्रं रत्नानि महान्ति वरयोषितः | आदायामन्त्र्य तं राजा जगाम स्वपुरीं कृती || ४८-१०९ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां श्रीसुदर्शनमहायन्त्रघटितासनादिप्रभाववर्णनं नाम अष्टाचत्वारिंशोऽध्यायः || ४८ || आदितः श्लोकाः ३०४५ सुदर्शनमहायन्त्रघटितध्वजप्रभावनिरूपणं नाम एकोनपञ्चाशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || सुदर्शनयन्त्रघटितध्वजप्रभावनिरूपणप्रतिज्ञा अहिर्बुध्न्यः - सुदर्शनमहायन्त्रघटितस्य ध्वजस्य तु | प्रभावः श्रूयतां सम्यग् याथातथ्येन नारद || ४९-१ || चित्रशेखराधिष्ठितभद्रवाटीनगरवर्णनम् सरस्वत्यास्तटे रम्ये भद्रवाटीति विश्रुता | परःसहस्रैः प्रासादैर्जातरूपमयैश्चिता || ४९-२ || पुरी विविधकामाढ्या हेमसालसमन्विता | समृद्ध्या त्रिदिवप्रख्या बभूव भुवि दुर्लभा || ४९-३ || तामध्यास्ते महावीर्यो राजोपरिचरात्मजः | पालयन्नैकवर्षाणि चित्रशेखरसंज्ञितः || ४९-४ || प्. ४७२) तत्पित्रोपरिचरेण कदाचिद् द्वन्द्वयुद्धे शङ्कुकर्णाख्यासुरहननम् पितर्यस्य पुरा दिव्यमिन्द्रदत्तं क्रमागतम् | रथमारुह्य देवानां कार्यार्थं याति खे बली || ४९-५ || शङ्कुकर्ण इति ख्यातो दानवो भीमलोचनः | जिघृक्षुस्तद्रथं मार्गे तस्य कूबरमग्रहीत् || ४९-६ || उवाच च मया सार्धं युध्यस्व यदि वा रथम् | जहि वेत्युक्तवत्यस्मिन् स तथेत्यग्रहीद् धनुः || ४९-७ || ततस्तेन महायुद्धे दिनमेकं प्रवर्तिते | अथास्त्रजालमुत्सृज्य द्वन्द्वयुद्धे हतोऽसुरः || ४९-८ || अमर्षणनाम्ना शङ्कुकर्णसुतेन चित्रशेखरपीडनम् जित्वा तमसुरं राज्ञि कालेनास्तं गते मुने | तत्पुत्त्रं शङ्कुकर्णस्य सुतः परमरोषणः || ४९-९ || अमर्षण इति ख्यातो मायावी चित्रशेखरम् | जिघांसुस्तद्बलं राज्ञः पुरं चापीडयत् सदा || ४९-१० || एकदामर्षणः क्रुद्धो भद्रवाटीमुपागमत् | पितृहन्तृसुतं योद्धुं ससैन्यं चित्रशेखरम् || ४९-११ || निहत्य चैनमादास्ये सर्वं तत्स्यन्दनोत्तमम् | इत्युक्त्वा नगरीं रम्यां रुरोध बलदर्पितः || ४९-१२ || प्. ४७३) चित्रशेखरस्य तेन सह घोरयुद्धम् निर्ययौ महतीं सेनां संनह्य नृपतिः पुरात् | तत्र युद्धं समभवद्राज्ञस्तेन दुरात्मना || ४९-१३ || सरणैश्चाभिसरणैः कचाकचि भयावहम् | गजाश्वरथपादातं प्रभग्नरथमाकुलम् || ४९-१४ || प्रवृत्तासृक्सरित्सार्थं कृत्तच्छत्रध्वजाचितम् | नृत्यत्कबन्धमुत्कृत्तदष्टाधरशिरश्चितम् || ४९-१५ || दिनत्रयं युध्यमानस्यापि विजयालाभः एवं दिनत्रयं युद्धं प्रवृत्तं रोमहर्षणम् | न लेभे विजयं तस्मिन्नाहवे चित्रशेखरः || ४९-१६ || श्रान्तसेनयोर्द्वयोरपि युद्धात् प्रतिनिवृत्तिः श्रमान्निववृते सेनाद्वयी तस्माद् द्वयोरपि | तावुभौ जग्मतुः स्वं स्वं पुरं विश्रान्तवाहनौ || ४९-१७ || एवं सप्तदशवारं युध्यमानस्यापि विजयासिद्धिः वारान् सप्तदशैतेन युयुधे चित्रशेखरः | एवमेव जयं प्राप न क्वचित् पृथिवीपतिः || ४९-१८ || खिन्नस्य राज्ञः चिन्ताप्रकारः अथ दुर्जयमालोच्य महासुरममर्षणम् | प्. ४७४) केनोपायेन जेतव्य इति चिन्तापरोऽभवत् || ४९-१९ || महादेवप्रसादेन विना नैव जयो मम | अतस्तं तपसा देवं तोष्यामीति मनो दधे || ४९-२० || कृतनिश्चयस्य कैलासगमनम् कृती निश्चित्य मनसा राज्यं संन्यस्य मन्त्रिषु | जगाम तपसे राजा रथमारुह्य कामगम् || ४९-२१ || कैलासशिखरं रम्यं नभसा वसुधाधिपः | गगने गच्छतोऽस्य मन्दरोपरि स्यन्दनगतिप्रतिरोधः तेनैव गच्छतस्तस्य स्यन्दनं मन्दरोपरि || ४९-२२ || अतिष्ठत् प्रेर्यमाणेषु वराश्वेष्वपि नारद | तत्कारणजिज्ञासया चरतस्तत्र कुबेरदर्शनम् रथः कस्मादकस्मान्मे विष्टब्धः इति विस्मितः || ४९-२३ || रथादवातरच्छृङ्गे तस्य रम्ये महीपतिः | अवतीर्य रथात् तस्माच्चचार गिरिमूर्धनि || ४९-२४ || तत्रापश्यत् सरस्तीरे तरुणं दिव्यलक्षणम् | उपास्य पश्चिमां संध्यामवस्थितमनाकुलम् || ४९-२५ || तरुणादित्यसंकाशं ज्वलन्तं प्रभया स्वया | प्. ४७५) तेन समं संलापः तं प्रणम्य महाबाहुः कृताञ्जलिरभाषत || ४९-२६ || कस्त्वं पुराणपुरुषो यदि वा कमलोद्भवः | उमेश्वरो दिशेशानां यदि वान्यतमो भवान् || ४९-२७ || इत्युक्तस्तेन भगवान् प्राह गम्भीरया गिरा | किंनामकोऽसि कथय किमागमनकारणम् || ४९-२८ || एकाकिना त्वया देशः कथं प्राप्तोऽयमित्यपि | राज्ञा कुबेरे स्ववृत्तान्तस्य निवेदनम् अथ न्यवेदयत् सर्वं राजोपरिचरात्मजः || ४९-२९ || चित्रशेखरनामानमात्मानमवनीपतिम् | महासुरप्रवृत्तिं च स्वस्य तेन च पीडनम् || ४९-३० || तज्जयायेशतुष्ट्यर्थं तपश्चरणकारणात् | स्यन्दनेनाभिगमनं निरोधं तत्र तस्य तु || ४९-३१ || कुबेरवचनात् तत्र गिरौ लक्ष्मीनिवासपरिज्ञानम् इत्युक्तस्तेन सोऽप्याह विद्धि मां गुह्यकेश्वरम् | अत्रैवास्ते महालक्ष्मीः सर्वकारणकारणम् || ४९-३२ || तत्सेवार्थमिह प्राप्तः सा हि सर्वगतिः परा | तदाज्ञयैव चरतश्चन्द्रसूर्यौ विहायसि || ४९-३३ || तत्प्रभावेण ते भग्नं गमनं स्यन्दनस्य तु | प्. ४७६) लक्ष्मीप्रसादनोपदेशपूर्वकं कुबेरान्तर्धानम् तां दृष्ट्वा साधयाभीष्टमित्युक्त्वान्तरधीयत || ४९-३४ || राजसाहाययार्थं कुबेरप्रहितपुरुषसमागमः तस्य साहाययकामोऽन्यस्तन्निदेशादुपागमत् | प्रणम्य भूपतिं प्राह गुह्यकोऽहं तदाज्ञया || ४९-३५ || साहाययकामस्ते प्राप्तो वासावोऽत्रैव शर्वरीम् | प्रत्यूषेऽपेक्षितं यत् स्यात् तत् करिष्यामि नान्यथा || ४९-३६ || तद्वचनात् तत्रैव स्थाने तद्रात्रियापनम् परस्परप्रणयिनौ तां रात्रिं तत्र चोष्य तु | देव्याः सदसि गन्धर्वगीतवादित्रनिःस्वनम् || ४९-३७ || शृण्वन्तौ तत्कथाभिश्च निन्यतुस्तां सरस्तठे | प्रभाते राज्ञा लक्ष्मीनिवासस्थानजिज्ञासया गुह्यकं प्रति प्रश्नः प्रत्यूषसमये संध्यामुपास्य प्रथमां नृपः || ४९-३८ || गुह्यकं प्राह शैलेऽस्मिन् देवी सा कुत्र वर्तते | केनाध्वना वा तद्धाम याम तद्दर्शनं कदा || ४९-३९ || गुह्यकस्य प्रतिवचनम् गुह्यकः प्रत्युवाचेदं क्रोशे तन्मन्दिरं परम् | प्. ४७७) यतो गीतमृदङ्गानां निस्वनः श्रूयते महान् || ४९-४० || कंचित् कालमुपास्यैनां धनदो यास्यति क्षणात् | तस्मिन् गते प्रविश्यैनां नमस्यसि सनातनीम् || ४९-४१ || ततो गुह्यकेन सह लक्ष्मीमन्दिरगमनम् प्रस्थापयामास ततो याममात्रं प्रतीक्ष्य तम् | राजापि स्वरथं तत्र संस्थाप्यैनमथान्वगात् || ४९-४२ || गुहाद्वारदेशे गुह्यकस्यावस्थानम् ततो महागुहापार्श्वे मन्दिरं समदृश्यत | तद्गुहाद्वारि सोऽतिष्ठत् पालयन् बिलगह्वरम् || ४९-४३ || राज्ञो मन्दिरान्तःस्थरत्नमण्डपे प्रवेशः अतीत्य च ततः कक्ष्याश्चतस्रो मणिगोचराः | ततो रत्नमयं दिव्यं विवेशास्थानमण्डपम् || ४९-४४ || मण्डपवर्णनम् मणिस्थूणासहस्राढ्यं मण्डपं समदृश्यत | परःशतमहारत्नपर्यङ्कसमलंकृतम् || ४९-४५ || रत्नमङ्गलदीपैश्च मण्डितं तुङ्गतोरणम् | अनेककल्पकाकीर्णं मणिपीठपरिष्कृतम् || ४९-४६ || मन्दारकुसुमामोदैर्मृगनाभिमदैरपि | प्. ४७८) कस्तूरिकोत्थसौरभ्यैर्वासितान्तरमूर्जितम् || ४९-४७ || अत्यादित्यप्रभं पुण्यं मुक्तादामविभूषितम् | हेमपङ्कजमालाढ्यं पताकाध्वजशोभितम् || ४९-४८ || धूपैः कालागरूद्भूतैः समन्तादधिवासितम् | कर्पूरमिश्रकालेयक्षोदपङ्कपरिष्कृतम् || ४९-४९ || इतस्ततश्चरन्तीनां शक्तीनां भूषणारवैः | झणज्झणितमञ्जीरनिनदैर्नादितान्तरम् || ४९-५० || मण्डपमध्यस्थरन्तपर्यङ्के अब्जासनस्थमहालक्ष्मीदर्शनम् तन्मध्ये रत्नपर्यङ्के संस्कृताब्जासनाश्रिताम् | महालक्ष्मीं महानन्दां संश्रितां सर्वशक्तिभिः || ४९-५१ || सर्वाभरणसंयुक्तां सर्वालंकारशोभिताम् | लावण्यामृतकल्पाङ्गीं शशिबिम्बनिभाननाम् || ४९-५२ || संवीतदिव्यकौशेयां दिव्यचन्दनमालिकाम् | विलोक्य प्रणतो भूत्वा विस्मयस्तिमितोऽभवत् || ४९-५३ || तत्पादोदकप्राशनपरिपूतेन राज्ञा तत्स्तुतिकरणम् तत्पादाम्बु समादाय रतिरेनमपाययत् | सोऽथ तुष्टाव सुप्रीतस्तां देवीं शुभलोचनाम् || ४९-५४ || प्. ४७९) तत्र लक्ष्म्याः उभयविभूत्यैश्वर्यप्रतिपादनम् महालक्ष्मि भद्रे परव्योमवासि- न्यनन्ते सुषुम्नाह्वये सूरिजुष्टे | जये सूरितुष्टे शरण्ये सुकीर्ते प्रसादं प्रपन्ने मयि त्वं कुरुष्व || ४९-५५ || सति स्वस्ति ते गौरि गायत्रि गार्गि ध्रुवे कामधेनो सुराधीशवन्द्ये | सुनीते सुपूर्णेन्दुशीते कुमारि प्रसादं प्रपन्ने मयि त्वं कुरुष्व || ४९-५६ || सदा सिद्धगन्धर्वयक्षेशविद्या- धरैः स्तूयमाने रमे रामरामे | प्रशस्ते समस्तामरीसेव्यमाने प्रसादं प्रपन्ने मयि त्वं कुरुष्व || ४९-५७ || लक्ष्म्या एव निर्व्याजपुरुषकारत्वसमर्थनम् दुरितौघनिवारणप्रवीणे विमले भासुरभागधेयलभ्ये | प्रणवप्रतिपाद्यवस्तुरूप- स्फुरणाख्ये हरिवल्लभे नमस्ते || ४९-५८ || प्. ४८०) सिद्धे साध्ये मन्त्रमूर्ते वरेण्ये गुप्ते तृप्ते नित्यमुद्गीथविद्ये | व्यक्ते विद्वद्भाविते भावनाख्ये भद्रे भद्रं देहि मे संश्रिताय || ४९-५९ || सर्वाधारे सद्गतेऽध्यात्मविद्ये भाविन्यार्द्रे निर्वृतेऽध्यात्मवल्लि | विश्वाध्यक्षे मङ्गलावासभूमे भद्रे भद्रं देहि मे संश्रिताय || ४९-६० || लक्ष्म्याः पारमार्थिकमङ्गलगुणाकरतया श्रुतिशिरोभूषणत्वम् अमोघसेवे निजसद्गुणौघे विदीपितानुश्रवमूर्धभागे | अहेतुमीमांस्यमहानुभावे विलोकने मां विषयीकुरुष्व || ४९-६१ || उमाशचीप्रभृतीनां महालक्ष्मीविभूतित्वम् उमाशचीकीर्तिसरस्वतीधी- स्वाहादिनानाविधशक्तिभेदे | अशेषलोकाभरणस्वरूपे विलोकने मां विषयीकुरुष्व || ४९-६२ || प्. ४८१) स्तुतिप्रीतया लक्ष्म्या राजाभीष्टस्य प्रश्नः इति स्तुतिं निशम्यैषा प्रसन्ना प्राह पार्थिवम् | प्रार्थितं ते ददाम्यद्य किं तत् कथय भूपते || ४९-६३ || राज्ञा स्ववृत्तान्तस्य निवेदनम् | लक्ष्म्या सुदर्शनयन्त्रघटितध्वजस्यार्पणम् राजा च स्वान्वयं स्वं च महासुरनिपीडितम् | आचख्यौ सर्वमेवास्यै मा भैषीरिति साब्रवीत् || ४९-६४ || अहमाधारभूतापि शक्तीनां जगतस्तथा | सुदर्शनप्रभावेण करोम्याश्रितरक्षणम् || ४९-६५ || अनेन जहि ते शत्रुमिति ध्वजमथार्पयत् | लक्ष्मीदत्तध्वजमहिम्ना शत्रुजयपूर्वकं राज्ञो निष्कण्टकराज्यलाभः यन्त्रितं तं ध्वजं लब्ध्वा जगाम स्वपुरं नृपः || ४९-६६ || जिगाय तेन महतीमासुरीं स वरूथिनीम् | तं च हत्वा सुखं राज्यमकरोच्चित्रशेखरः || ४९-६७ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां सुदर्शनमहायन्त्रघटितध्वजप्रभावनिरूपणं नाम एकोनपञ्चाशोऽध्यायः || ४९ || आदितः श्लोकाः ३११२ कीर्तिमाल्युपाख्यानवर्णनं नाम पञ्चाशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || वक्ष्यमाणार्थसूचनम् अहिर्बुध्न्यः - इदं तु शृणु देवर्षे कीर्तिमाली वितानतः | अजयत् त्रिदिवं पूर्वं येनैव विधिना बली || ५०-१ || भद्रशृङ्गनाम्ना राज्ञा भूमण्डलस्य परिपालनम् भद्रशृङ्ग इति ख्यातो राजा परमधार्मिकः | आसीदुदारचरितो विशालाख्ये पुरे पुरा || ५०-२ || तस्य स्वपुरवत् पृथ्वीं सप्तद्वीपवतीमपि | शासतः शक्रकल्पस्य शरदामयुतं गतम् || ५०-३ || तत्पुत्रस्य कीर्तिमालिनो गुणवर्णनम् तस्य दीर्घायुषः पुत्रः कीर्तिमाली मदोद्धतः | शूरः कमलपत्राक्षः कन्दर्प इव रूपवान् || ५०-४ || प्. ४८३) बलवानप्रतिद्वन्द्वः सर्वशास्त्रविशारदः | विनयज्ञो महोदारः प्रतापी सत्यसंगरः || ५०-५ || समरेष्वपरावर्ती गम्भीरो धनदर्पितः | मेघगम्भीरनिर्ह्रादी जिगीषुः शत्रुतापनः || ५०-६ || मत्तद्विप इव स्वैरं चचार जगतीमिमाम् | पितुरनन्तरं तेनापि धर्मतो राज्यस्य पालनम् तस्यैवं वर्तमानस्य पिता मृत्युमुपागतः || ५०-७ || पितर्युपरते श्रीमाञ्छशास पितृवद् भुवम् | जगत्याः सर्ववृत्तान्तं चारैः कैश्चिद्विवेद सः || ५०-८ || स्वपुरे स्वयमङ्गेषु चरितं वेद सप्तसु | कदाचित् निशीथे गूढं संचरतस्तस्य पुराद् बहिर्विप्रदर्शनम् एकाकी चैकदा धन्वी नृपः स्वैरकथा नृणाम् || ५०-९ || श्रोतुं निशीथे निर्गत्य सर्वतो व्यचरत् पुरम् | आपणेषु च रथ्यासु चत्वरेषु गृहेषु च || ५०-१० || सर्वद्वारेषु वप्रेषु सरसीषु वनेषु च | उपकार्यासु चैत्येषु देवतायतनेषु च || ५०-११ || शस्त्रशालासु तीर्थेषु वनेषूद्यानभूमिषु | संचरन् विप्रमासीनं शमीमूले पुराद् बहिः || ५०-१२ || प्. ४८४) ददर्श राजा निर्भीको ज्वलन्तमिव पावकम् | प्रसाधिततनुं शान्तं साक्षात्कृतसुदर्शनम् || ५०-१३ || संप्राप्तसर्वकामं तं योगारूढमकल्मषम् | प्रश्रयावनतो भूत्वा पप्रच्छेदं महीपतिः || ५०-१४ || तद्वृत्तान्तजिज्ञासोः राज्ञस्तं प्रति प्रश्नः कस्त्वं किमर्थमधुना वृक्षमूलमुपाश्रितः | कस्मादुपागतः सर्वमाचक्ष्वानघ पृच्छते || ५०-१५ || योगारूढस्य तस्य राजप्रश्नमजानतो मौनीभावः एवमुक्तोऽपि योगस्थो न वेदैतदुदीरितम् | तथा पुनः पुनश्चोक्तो राजानं नाभ्यभाषत || ५०-१६ || बलाद् ग्रहीतुमुद्युक्तस्य राज्ञो विप्रप्रभावात् स्तम्भीभावः बलाद् ग्रहीतुमारेभे ब्राह्मणं कुपितो नृपः | ततस्तस्य प्रभावेण स्तब्धचेष्टोऽभवत् तदा || ५०-१७ || विस्मितेन राज्ञा स्तुतिभिर्विप्रस्य प्रसादनम् स्तब्धमात्मानमालक्ष्य विस्मयं परमं ययौ | स्तुतिभिस्तोषयामास तं प्रणम्य ततस्ततः || ५०-१८ || प्. ४८५) प्रसन्नेन विप्रेण स्ववृत्तान्तस्याविष्करणम् तुष्टः स योगादुत्थाय जगादेदं वचो नृपम् | सालग्राम इति ख्यातं विष्णुस्थानमनुत्तमम् || ५०-१९ || नित्यं संनिहितस्तत्र चक्ररूपी जगत्पतिः | तत्र चक्राङ्कितं सर्वं स्थावरं जङ्गमं च यत् || ५०-२० || तत्र प्रवेशमात्रेण जन्तवो वीतकल्मषाः | तत्र त्यक्तशरीरास्तु यान्ति निर्वाणमुत्तमम् || ५०-२१ || तस्मिन् देशे समुत्पन्नो ब्राह्मणः शिष्टसंमतः | सुदर्शनप्रभावेण साधिताखिलसाधनः || ५०-२२ || गम्यते पौष्करं तीर्थं मयाद्य जगतीपते | निशि मार्गवशात् प्राप्तः पुरमेतत् तवर्द्धिमत् || ५०-२३ || पिहितद्वारमालक्ष्य शमीमूलमिह श्रितः | विदितवृत्तान्तेन राज्ञा स्वपुरं प्रति ब्राह्मणस्यानयनम् एवमुक्तस्ततो राजा सत्कृत्यैनमनिन्दितम् || ५०-२४ || प्रावेशयत् पुरीं रम्यां तत्राप्यायतनं हरेः | तत्रोषितस्तु तां रात्रिं सर्वसत्कारपूर्वकम् || ५०-२५ || अपरेद्युर्द्विजो गन्तुमारेभे पुष्करं प्रति | हितमुपदेष्टुं राजप्रार्थना राजा तु कृतपूर्वाह्णकर्माणं तमभाषत || ५०-२६ || प्. ४८६) साधूनां दर्शनं पुण्यं समस्ताभीष्टसाधनम् | इति श्रुतमतो भाषे भगवन् किं हितं मम || ५०-२७ || यथेह विन्देय सुखं परत्राप्यसपत्नकम् | तथा प्रसादं कुरु मे करुणार्द्रमना ह्यसि || ५०-२८ || तेन राज्ञे साङ्गसौदर्शनमहामन्त्रस्योपदेशः ततः प्रसन्नो राजानमुपसन्नं (१) मुने द्विजः | सौदर्शनं महामन्त्रं षड्वर्णं सर्वसाधकम् || ५०-२९ || सत्कारपूर्वकं तस्मै नृपायोपादिशत् तदा | साङ्गमन्त्रं तथा ध्यानं साधनं यन्त्रमेव च || ५०-३० || अस्त्रमन्त्रांस्तथा सर्वान् प्रवर्तकनिवर्तकान् | परिच्छदानि पञ्चाशद्यन्त्रितानि महामुने || ५०-३१ || सर्वं तस्मै प्रदायासौ गन्तुं समुपचक्रमे | राज्ञा गुरवे दक्षिणयाः प्रदानम् राजा च परमप्रीतो द्रव्यजातमुपानयत् || ५०-३२ || गवां सहस्रं कोटिं च सुवर्णानां तथा मुने | ________________ १ अत्र अभिलक्ष्येति पदमध्याहृत्य वाक्यं योजनीयम् | उपसन्नपदं च तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय इत्यादिश्रुतिप्रतिपादितानामवश्यंभाविनां शिष्यगुणान्तराणामुपलक्षकम् | तथाच स द्विजः प्रश्रयमृदुवचनादिभिर्लिङ्गै राजानं प्रशान्तचित्तत्वादिगुणयुक्तं ब्रह्मविद्योपदेशयोग्यमभिलक्ष्य साङ्गं सौदर्शनमहामन्त्रं तस्मै उपादिशदिति संबन्धः ________________ प्. ४८७) रत्नपूर्णानि हैमानि पात्राण्यन्यानि सप्त च || ५०-३३ || तथा भूयांसि वासांसि महार्हाणि च भूपतिः | ग्रामानष्टौ च गुरवे प्रादात् परमधार्मिकः || ५०-३४ || गुरुणा तदग्रहणपूर्वकं स्वाभिमतदेशस्य गमनम् न चैच्छद् ब्राह्मणस्तत्र दक्षिणाः समुपाहृताः | किं कार्यमेभिर्नृपते सर्वं संकल्पिते भवेत् || ५०-३५ || यथेष्टं विनियुङ्क्ष्वैतदित्युक्तः प्राह भूपतिः | अवश्यं गृह्यतामेतन्न चेन्नैवास्मि साधकः || ५०-३६ || त्यज्यतां वा यथेष्टं भो मद्दत्तं दत्तमेव हि | इत्युक्तो ब्राह्मणोऽप्याह राजानममितौजसम् || ५०-३७ || मदर्थमर्थजातं तद् ब्राह्मणेभ्यः प्रदीयताम् | इत्युक्त्वा प्रययौ विप्रो भूपतिश्चैनमन्वयात् || ५०-३८ || निवर्तितः स गुरुणा ब्राह्मणेभ्यो धनं ददौ | राज्ञा धर्मतो राज्यस्य प्रशासनम् तस्मिन् गते महाराजो विप्रसात्कृत्य तद्धनम् || ५०-३९ || अन्वशात् पृथिवीमेतां त्रिदिवं मघवानिव | नक्तंदिवं विभज्यैव धर्ममोक्षाविरोधिनौ || ५०-४० || अर्थकामौ यथाकालमसेवत महीपतिः | राजधर्मेषु चान्येषु नात्यवर्तिष्ट किंचन || ५०-४१ || प्. ४८८) एवं च मानवं मार्गमनुतिष्ठन् महीपतिः | धर्म्येण पालनेनैव प्रजा रञ्जयति स्म सः || ५०-४२ || वश्यावश्यपरराष्ट्रादिबुभुत्सया कदाचिदमात्यान् प्रति राज्ञः प्रश्नः एकदा मन्त्रिणः सर्वानाहूयास्थानमण्डपे | पप्रच्छ पृथिवीपालः के च वश्या उतेतरे || ५०-४३ || देशेषु भूमिपालेषु प्रकृतिष्वथवा मम | ब्रूत सर्वं हि जानन्ति भवन्तश्चारचक्षुषः || ५०-४४ || मन्त्रिणां प्रतिवचनम् इति प्रतिसमादिष्टास्ते सर्वे मन्त्रिणोऽवदन् | देव त्वयि महीमेतां शासत्येव परंतपे || ५०-४५ || प्रतिपक्षाः प्रलीयन्ते तपत्यर्के यथा तमः | कृत्स्नस्यापि भूमण्डलस्य वश्यत्वप्रतिपादनम् साधुना पृथिवी वश्या सशैलाम्बुधिपत्तना || ५०-४६ || दिवीव देव राजानः सर्वे द्वारि निवारिताः | तव प्रकृतिवर्गेषु का कथा जगतीपते || ५०-४७ || देवादीनां वश्यत्वाभावप्रतिपादनम् न च देवा न गन्धर्वा नासुरा न च पन्नगाः | यथा वयं ते सेवन्ते भवन्तं परमेश्वरम् || ५०-४८ || देवः प्रमाणमिति ते विज्ञाप्यार्थमुपारमन् | प्. ४८९) पुनरमात्यान् प्रति राज्ञो देवादिविजयोपायप्रश्नः कीर्तिमाली च तच्छ्रुत्वा देवादीनां जिगीषया || ५०-४९ || व्यजृम्भत तदा सर्वान् मन्त्रिणश्चाब्रवीदिदम् | कथमेतान् विजेष्यामो बलिनो वीर्यशालिनः || ५०-५० || विचित्रयोधिनो दृप्ता मायाबलसमन्विताः | अनुकूला विशिष्टाश्च लोकान्तरमुपाश्रिताः || ५०-५१ || यथा भवन्ति ते वश्यास्तथा वदत मा चिरम् | अमात्यानां प्रतिवचनम् इत्युक्तास्ते महाराजमूचुः संमन्त्र्य मन्त्रिणः || ५०-५२ || एतानद्यैव यास्यामो विजेष्यामश्च संयुगे | स्वपक्षे बलसमृद्धिनिरूपणपूर्वकमभिषेणनोद्योगजननम् अस्मद्वरूथिनी सर्वा चतुरङ्गबलान्विता || ५०-५३ || मेरुमन्दरसंकाशा गजाः परमदुर्जयाः | एकैकमेव पर्याप्तं शत्रुशैन्यप्रमर्दने || ५०-५४ || एवंविधानां नागानां नियुतानि दशाभवन् | मत्तानां तुरगाणां च पञ्च कोट्यः परंतप || ५०-५५ || तिस्रः कोट्यश्च संपूर्णाः स्यन्दनानां तथाभवन् | बद्धापदानमानानां शूराणामनिवर्तिनाम् || ५०-५६ || प्. ४९०) चतुर्विधपदातीनामक्षौहिण्यश्चतुर्दश | निशितास्त्राणि नः संख्ये यान्यसंख्यानि भूपते || ५०-५७ || एकतः सर्वमेतच्च एकतः केवलो बली | अतिरिक्तो भवान् वीर्यादिति मन्यामहे वयम् || ५०-५८ || किंच दिव्यानि चास्त्राणि लब्धवानसि भूसुरात् | एभिः परिवृतस्यैवं कस्तिष्ठेत् संमुखे तव || ५०-५९ || संवर्तवर्तिनः शंभोर्भूतानीव दिधक्षतः | यत्र यत्र जिगीषा ते वर्तते तत्र मा चिरम् || ५०-६० || नियुङ्क्ष्वास्मान् महाबाहो जयं विद्धि करे स्थितम् | मन्त्रिवचनात् प्रथमं राज्ञो नागलोकाभिषेणनम् इत्युक्तः परमप्रीतः कीर्तिमाली महाबलः || ५०-६१ || सर्वानमात्यानाहूय तत्तत्सेना मयाहृता | नागलोकं प्रयात्वद्य युध्यतामद्य पन्नगैः || ५०-६२ || अहं चाद्यैव यास्यामि समूलबलवाहनः | इत्युक्त्वा तैः परिवृतो जगाम स महीपतिः || ५०-६३ || गरुडास्त्रप्रभावेण तत्र राज्ञो विजयप्राप्तिः तत्र तैः पन्नगैर्युद्धमभवद्रोमहर्षणम् | ततोऽचिरेण कालेन दिव्यास्त्रेण गरुत्मतः || ५०-६४ || विजयं प्राप्तवांस्तत्र तेभ्यो रत्नादिकं करम् | गृहीत्वा दैत्यनाशाय मनश्चक्रे महामनाः || ५०-६५ || प्. ४९१) तथा दैत्यविजयः तैर्युद्धमभवत् तीव्रं चिरकालं महामुने | नाशयित्वा तु तत्सैन्यं विजयं परमं ययौ || ५०-६६ || यक्षगन्धर्वादिजयपूर्वकं राज्ञः स्वनगरगमनम् ततश्च यक्षगन्धर्वान् सिद्धविद्याधरानपि | निर्जित्य समरे सर्वान् किंकरानकरोद् बली || ५०-६७ || एतान् विजित्य समरे स्वपुरं पुनराययौ | तत्र स्वपरिवारेषु देवानामदर्शनादिन्द्रं प्रति संदेशप्रेषणम् आस्थानसद्मन्यासीनो राजभिः परिवारितः || ५०-६८ || तथा गन्धर्वयक्षैश्च दानवैः पन्नगेश्वरैः | चक्रवर्ती निजास्थाने नामरान् ददृशे तदा || ५०-६९ || ततो मनोजवं नाम गन्धर्वमिदमूचिवान् | अद्य त्रिदिवमभ्येत्य वचनान्मम वासवम् || ५०-७० || ब्रूया ऐरावतं नागं कुलिशं कल्पकं तथा | अष्टौ चाप्सरसः क्षिप्रं मदर्थं विसृजेति वै || ५०-७१ || राजसंदेशात् मनोजवनाम्नो दूतस्यामरावतीगमनम् मनोजवस्तथेत्युक्त्वा शिरसा चक्रवर्तिनः | मालामिवाज्ञां संगृह्य प्रययावमरावतीम् || ५०-७२ || तत्रास्थानमण्डपे वासवदर्शनम् प्रविश्य तत् पुरं रम्यमुपमानं परं पुराम् | प्. ४९२) वासवं वसुभी रुद्रैरादित्यैश्च समावृतम् || ५०-७३ || आस्थामण्डपासीनमप्सरोगणसेवितम् | विश्वावसुमुखैः सिद्धैः स्तूयमानं शचीपतिम् || ५०-७४ || ददर्श स तदा देवं नाट्यदर्शनलालसम् | दृष्ट्वा प्रणम्य तुष्टाव विरते नृत्यकर्मणि || ५०-७५ || वासवेन दूतस्याभिनन्दनम् दृष्ट्वा प्रीतः सुरपतिर्मनोजवमवैक्षत | दूतेनेन्द्राय राजसंदेशस्य निवेदनम् विमलीकृतमात्मानं मन्यमानः स वीक्षितैः || ५०-७६ || व्यजिज्ञपद्यथावृत्तं वृत्रहन्त्रेऽविलम्बितम् | देव भूमण्डले कश्चित् कीर्तिमालीति विश्रुतः || ५०-७७ || चक्रवर्ती सुरपते देवायैतन्न्यवेदयत् | दूतेन राजोक्तसंदेशस्यानुवादः विनिर्जिता मया लोकाः सर्वे त्रिदिवमन्तरा || ५०-७८ || भवन्तं द्रष्टुमिच्छामि सांप्रतं त्रिदिवेश्वर | आरोहणार्थं नागेन्द्रमैरावतमवारितम् || ५०-७९ || कल्पकं कुलिशं चाष्टौ योषितो विसृजेह नः | इत्थमाज्ञापितं तेन महाराजेन गोपते || ५०-८० || देवः प्रमाणमत्रेति विरराम मनोजवः | प्. ४९३) संदेशश्रवणात् कुपितस्येन्द्रस्य तत्प्रतिक्रियाचरणम् ततो विहस्य मघवानास्थाने देवसेविते || ५०-८१ || प्राह गम्भीरया वाचा विज्ञायैतां विडम्बनाम् | वज्रमैरावतं नागं प्रेषयाम्यद्य ते उभे || ५०-८२ || आगत्य स्वयमन्यांस्तु समाहृत्य प्रयात्वसौ | इत्युक्त्वा प्रेषयामास वज्रमैरावतं गजम् || ५०-८३ || सवज्रेणैरावतेन राजसैन्यस्य विनाशनम् निष्क्रम्योभौ विविशतुः कीर्तिमालिमहापुरीम् | प्रविश्यैरावतो नागो वज्रमादाय वाहिनीम् || ५०-८४ || अदृष्टेनैव रूपेण जघानैनां महामुने | भीतैर्जानपदैः राज्ञे तद्वृत्तान्तस्य निवेदनम् हन्यमानेषु सैन्येषु गजवाजिभटात्मसु || ५०-८५ || सर्वे जानपदा भीता भूपायैन्न्यवेदयन् | देव सामोद्भवा नागा निहता भुवि शेरते || ५०-८६ || तथा हयोत्तमाः शूरा भटाः परमशोभनाः | अकस्मादेव दृश्यन्ते निहता जगतीपते || ५०-८७ || सैन्यविनाशश्रवणात् दुःखितेन राज्ञा पुरोधसं प्रति प्रश्नः एतच्छ्रुत्वा महाराजः शोकेन महता वृतः | पुरोधसं समाहूय वचनं चेदमब्रवीत् || ५०-८८ || वारणा वाजिनो योधा हन्यन्ते कारणादृते | प्. ४९४) न रोगो दृश्यते चैषु न तापः कालकल्पितः || ५०-८९ || नाभिचारः परकृतो दृश्यते सुनिरूपितः | किमेतच्चिन्त्यतां ब्रह्मन् भ्रमतीव च मे मनः || ५०-९० || पुरोधसा देवकोपस्यैव तत्कारणत्वेन निवेदनम् इत्युदीरितमाकर्ण्य पुरोधाश्चाप्यचिन्तयत् | चिन्तयित्वा जगादैतद् देवकोपादुपागतम् || ५०-९१ || इति शङ्के न शोकस्य वशमागाः परंतप | अत्रान्तरे मनोजवसमागमः इति चिन्तयतोरेव तयोरागान्मनोजवः || ५०-९२ || प्रणतः प्राञ्जलिस्तथौ महाराजस्य पार्श्वतः | मनोजवं प्रति राज्ञः प्रश्नः मनोजव किमानीतमुक्तरत्नचतुष्टयम् || ५०-९३ || किमाह वासवः सर्वं कथयाद्याविलम्बितम् | मनोजवेन राज्ञे निवेदनम् इत्युक्तस्तेन सकलं पृष्टमस्मै न्यवेदयत् || ५०-९४ || राजवाक्यस्य कथनमतो मघवतः स्मयः | वज्रैरावतयोस्तेन प्रेषणं तद्वचस्ततः || ५०-९५ || प्. ४९५) स्वसैन्यविनाशमैरावतकृतं ज्ञातवता राज्ञा वारणास्त्रेणैरावतस्य एवं तेनेरितो राजा निश्चित्यैरावतक्रियाम् | पुरोधसा प्रतीकारं तस्य संमन्त्र्य तत्क्षणात् || ५०-९६ || व्यसृजद्वारणाख्यास्त्रं दिव्यं वारणवारणम् | तदस्त्रं तु गजं प्राप्तं निश्चेष्टः सोऽभवत् तदा || ५०-९७ || तच्छ्रुतवता वासवेन युद्धार्थं देवसैन्यस्य प्रेषणम् स्तब्धमैरावतं वज्रं तेनास्त्रेण महात्मना | व्यजिज्ञपुर्मघवते सुराश्चैरावतानुगाः || ५०-९८ || तच्छ्रुत्वा परमक्रुद्धो मघवान् समनह्यत | संनद्धमिन्द्रमालक्ष्य सुराश्चुक्षुभिरे तदा || ५०-९९ || प्रेषितास्तेन ते सर्वे सैनिकास्तत्पुरं ययुः | प्रलयोज्जृम्भिताम्भोधिकल्पं सैन्यं शतक्रतोः || ५०-१०० || ततो देवमानुषसेनयोर्घोरयुद्धप्रवृत्तिः विलोक्य त्वरितो राजा ससैन्यो निर्ययौ पुरात् | ततः प्रववृते युद्धं देवमानुषसेनयोः || ५०-१०१ || प्रवृत्तयुद्धवर्णनम् अदृष्टचरमाश्चर्यं हाहाकारि भयावहम् | दिव्यदुन्दुभिनिर्घोषैः शङ्खभेरीरवैरपि || ५०-१०२ || क्ष्वेलितैस्तलशब्दैश्च विहायः समपूर्यत | नागा युयुधिरे नागैः पत्तिभिः पत्तयस्तथा || ५०-१०३ || प्. ४९६) स्यन्दनैः स्यन्दनाश्चाश्वैरश्वाश्चैव परस्परम् | नाराचैः परिघैः शूलैः पट्टसैर्मुद्गरैरपि || ५०-१०४ || कार्मुकैः शक्तिभिः खड्गैः प्रासैः कुन्तैः परश्वधैः | एवं नानाविधैः शस्त्रैर्निजघ्नुस्ते परस्परम् || ५०-१०५ || केचिन्निकृत्तशिरसः केचिच्छिन्नोरसः परैः | केचिदुत्कृत्तशस्त्रास्तु विद्धवक्षांसि कानि च || ५०-१०६ || छिन्नहस्ता गजाः केचित् खड्गनिर्भिन्नमस्तकाः | भल्लैर्निर्भिन्नहृदया दृश्यन्ते तुरगास्तथा || ५०-१०७ || प्रवृत्ता रक्तसरितो हस्तिस्यन्दनवाजिनाम् (१) | निपतच्छस्त्रसंभिन्ना दृश्यन्ते रणभूमयः || ५०-१०८ || तत्र जिगीषुणेन्द्रेण स्वसेनाधिपतीनां प्रचोदनम् एवं प्रवृत्ते संग्रामे जयार्थी पाकशासनाः | देवसेनापतीन् सर्वांश्चोदयामास सत्वरः || ५०-१०९ || देवसेनापतीनां तात्कालिकजयप्राप्तिः तेन प्रवर्तिता देवा विद्राव्य नृपतेर्बलम् | विजयं लेभिरे सद्यस्ततः क्रुद्धोऽभवन्नृपः || ५०-११० || _______________ १ स्यन्दनानां वाजिनः स्यन्दनवाजिन इति प्रथमं षष्ठीतत्पुरुषः | ततो हस्तिनश्च स्यन्दनवाजिनश्चेति द्विपदघटितो द्वन्द्वः | न तु हस्तिनश्च स्यन्दनाश्च वाजिनश्चेति त्रिपदघटितः अचेतनानां स्यन्दनानां रक्तसंरित्संबन्धित्वायोगेन स्यन्दनपदस्य द्वन्द्वघटकत्वासंभवात् ________________ प्. ४९७) राज्ञा दिव्यास्त्रस्य विमोचनम् विनष्टे स्वबले सोऽथ दिव्यास्त्राणि मुमोच ह | आग्नेयादीनि चास्त्राणि प्रवृत्तानि महामुने || ५०-१११ || तेषामपीन्द्रेण निवारणान्निर्विण्णेन राज्ञा सुदर्शनयन्त्रघटितवितानसमाश्रयणम् निवृत्य बलभित् क्रुद्धः प्रत्यस्त्रैस्तान्यवारयत् | ततो निर्वेदमापन्नः कीर्तिमाली द्विजोत्तमात् || ५०-११२ || लब्धं विमानं सस्मार तत्तथाकारयत् ततः | सुदर्शनमहायन्त्रयन्त्रितं सवितानकम् || ५०-११३ || कृत्वा निषेदिवांस्तस्य छायायां स महीपतिः | राजप्रयुक्तेन वैष्णवचक्रेण देवसैन्यस्य प्रतिहतिः प्राहिणोद्विष्णुचक्रं तु महास्त्रप्रभवं परम् || ५०-११४ || तेजसा विश्वमापूर्य विरराज विहायसि | तस्यैव तेजसा सर्वे सुराः प्रतिहता रणे || ५०-११५ || विनिघ्नाश्चेष्टितुं नैव शेकुर्देवगणा मुने | वासवप्रयुक्तानां दिव्यास्त्राणामपि तस्मिन् विष्णुचक्रे विलयः ततः क्रुद्धः स मघवान् दिव्यास्त्राणि व्यसर्जयत् || ५०-११६ || तानि सर्वाणि निर्गत्य विष्णुचक्रे निलिल्यिरे | सर्वास्त्रप्रकृतौ तस्मिञ्छलभा इव पावके || ५०-११७ || प्. ४९८) ततश्चिक्षेप शस्त्राणि सर्वाण्यपि पुनः पुनः | तानि तत्रैव लीनानि सरितः सागरे यथा || ५०-११८ || अन्ततो वज्रस्याप्यकिंचित्करत्वम् ततश्च परमक्रुद्धो वज्रं सुरसुपूजितम् | चिक्षेप तच्च तत्रैव तथैवान्तरधीयत || ५०-११९ || स्वपराजयात् विस्मितस्य शक्रस्य राज्ञा सह संलापः तद् दृष्ट्वा विस्मितः शक्रो राजपार्श्वमुपाययौ | कीर्तिमाली च देवेन्द्रं विमानस्थं पुरः स्थितम् || ५०-१२० || उत्थाय प्रणतो भूत्वा तुष्टाव शुभया गिरा | ततस्तुष्टः शचीनाथो राजानमिदमब्रवीत् || ५०-१२१ || पुरा विमुक्तान्यस्त्राणि विफलानि तवाभवन् | अधुना विपरीतानि दृश्यन्ते कारणं वद || ५०-१२२ || राज्ञा सुदर्शनयन्त्रघटितवितानप्रभावात् स्वस्याजययत्वस्य ख्यापनम् सुदर्शनमहायन्त्रयन्त्रितस्य प्रभावतः | वितानस्य हरे प्राप्तमजययत्वमवेहि नः || ५०-१२३ || राजशक्रयोः सख्यकरणपूर्वकं स्वस्वस्थानगमनम् अतः परं महाराज सख्यं भवतु चावयोः | यन्मे तत् तव यत् ते स्यात् तन्मम स्यादिति ब्रुवन् || ५०-१२४ || प्. ४९९) स ययौ त्रिदिवं देवः सबलायुधवाहनः | कीर्तिमाली च संतुष्टो विजयी स्वपुरं ययौ || ५०-१२५ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां कीर्तिमाल्युपाख्यानवर्णनं नाम पञ्चाशोऽध्यायः || ५० || आदितः श्लोकाः ३२३७ तारादिबीजाक्षरस्वरूपार्थवर्णनं नाम एकपञ्चाशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || तारादिमन्त्रार्थप्रश्नः नारदः- भगवन् भूतभव्येश भगनेत्रनिपातन | साधकानां हितार्थाय यन्त्रं नानाविधात्मकम् || ५१-१ || नानामन्त्रमयं प्रोक्तं नानाशक्त्युपबृंहितम् | प्रदर्शितानि चास्त्राणि द्वितयानीह शंकर || ५१-२ || विधानमपि च प्रोक्तं दिव्यं माहाभिषेचनम् | उक्ता चोच्चावचा शान्तिरियं ग्लपितयातना || ५१-३ || ऋग्भिरप्युदिता सम्यगस्त्रशक्तिरनेकधा | नानाफला महावीर्या मन्त्रा एवात्र कारणम् || ५१-४ || उक्ता भगवता पूर्वं मन्त्रास्ते तारकादयः | एषामर्थकृतं भावं वक्तुमर्हसि शंकर || ५१-५ || प्. ५०१) यत्तज्ज्ञानं महत् प्रोक्तं सर्वशास्त्रार्थसंभवम् | तत्ते मनोमयं सर्वं सर्वज्ञो ह्यसि शाश्वत || ५१-६ || उत्तरकथनारम्भः अहिर्बुध्न्यः - शृणु नारद तत्त्वेन मन्त्राणामर्थजं यशः | यद्विज्ञानान्नरः शश्वत् सर्वज्ञत्वमवाप्नुयात् || ५१-७ || तारकस्य सर्वश्रैष्ठ्यप्रतिपादनम् तारको नाम यो भावः सारः सर्वगिरामयम् | प्रभवन्ति ह्यतः शब्दा अपियन्ति च तं पुनः || ५१-८ || अनेनाप्यायिताः शब्दा भावं पुष्णन्ति च स्वकम् | मन्त्रसामान्येऽप्यर्थस्य त्रैविध्यम् स्थूलः सूक्ष्मः परश्चेति भावो मन्त्रे त्रिधा स्थितः || ५१-९ || स्थूलादीनां सामान्यतो लक्षणम् स्थूलः संसर्गजो योऽर्थः सूक्ष्मः पदविभावितः | अप्रमेयादिभिर्भावैरक्षरस्थः परः स्मृतः || ५१-१० || स्थूललक्षणम् संस्तुतैरन्वितैर्योगैः स्वस्ववाच्याभिधानतः | पुरुषार्थोऽविभागात्मा संसर्गो नाम भाव्यते || ५१-११ || प्. ५०२) सूक्ष्मलक्षणम् स्वरूपालोचनेनैव यः प्रतीतः पदे पदे | योगेन जन्यते भावः स सूक्ष्म उदितो बुधैः || ५१-१२ || परलक्षणम् अप्रमेयादिभिर्भावैर्भावो यो वर्णसंश्रयः | स परः कथ्यते सद्भिरिति त्रेधार्थसंस्थितिः || ५१-१३ || तारस्य स्थूलार्थप्रदर्शनम् ओतमस्मिन् (१) मितं सर्वमित्यर्थः स्थूल उच्यते | ओकारेण मकारेण संसर्गस्तारकाश्रयः || ५१-१४ || द्वौ वर्णौ गमकावेतावोतस्य च मितस्य च | यत् किंचिद्भगवत्तोऽन्यत् तन्मितं सर्वमिष्यते || ५१-१५ || शक्तिमान् भगवान् वाच्यस्तच्छक्तेः प्रविजृम्भणम् | संकल्पनीयः संकल्प इति यत्ते पुरोदितम् || ५१-१६ || तत्र संकल्पनीयोऽर्थो भूतिः शुद्धेतरात्मिका | अव्याहता तु तत्प्रेक्षा संकल्पस्तत् सुदर्शनम् || ५१-१७ || कल्प्यकल्पात्मकं सर्वं तदेतन्मितमिष्यते | _______________ १ इत आरभ्य पञ्चचत्वारिंशश्लोकं यावत् प्रणवस्य स्थूलसूक्ष्मरूपार्थद्वयप्रदर्शनव्याजेन माण्डूक्योपनिषन्निगूढः परमरहस्यार्थो विशदीक्रियते | अत एव वासुदेवादिव्यूहचतुष्टयस्वरूपतद्गुणतत्कृत्यादिनिरूपणपरस्य कृत्स्नस्यापि पाञ्चरात्रवचनसंदर्भस्य माण्डूक्योपनुषदुपबृंहणरूपतया तन्मूलकत्वेन श्रुतिमूर्धप्रसिद्धस्वतःसर्वज्ञवासुदेवभाषिततया स्वातन्त्र्येण वा प्रामाण्यं त्रययन्तनिष्णाताः संगिरन्ते | ________________ प्. ५०३) एकपञ्चाशोऽध्यायः मितं तदोतं सूत्रे हि मणिवद्भगवत्यजे || ५१-१८ || अवतिस्तु प्रवेशार्थो गतिर्व्याप्तिः प्रवेशनम् | मितं प्रविष्टं देवेशे पुष्करे परमाणुवत् || ५१-१९ || ओतो मिते च देवेशः प्रविष्टः सूत्रवन्मणौ | स्थूलोऽयं प्रणवस्यार्थं सूक्ष्मोऽर्थार्थो निरूप्यते || ५१-२० || सूक्ष्मार्थनिरूपणप्रतिज्ञा | तत्रानिरुद्धप्रद्युम्नसंकर्षणा- नामखण्डभगवच्छक्त्यंशत्वकथनम् सृष्टिस्थित्यन्तकारिण्यः (१) शक्तयस्तिस्र ऊर्जिताः | पूर्णाया भगवच्छक्तेरेकस्या अंशतां गताः || ५१-२१ || क्रमेण तेषां प्रणवाक्षरत्रयप्रतिपाद्यत्वम् अकाराद्यक्षरत्रेतारूपिण्यः परमाद्भुताः | तेषामेकैकस्य विश्वतैजसप्राज्ञरूपैकैकसंज्ञाभागित्वम् अकारशक्तिर्विश्वाख्या उकारोत्था तु तैजसी || ५१-२२ || मकारशक्तिः प्राज्ञाख्या तासां रूपं पुनः शृणु | _______________ १ एवं स्थूलार्थनिरूपणद्वारा समस्तप्रणवप्रतिपाद्यब्रह्मस्वरूपात्मकं माण्डूक्यप्रथमखण्डार्थं प्रदर्श्य व्यस्तप्रणवप्रतिपाद्यानिरुद्धादिव्यूहचतुष्टयात्मको माण्डूक्यस्य द्वितीयादिखण्डत्रयार्थः सूक्ष्मार्थविरूपणद्वारात्र स्पष्टीक्रियत इति ज्ञेयम् | ________________ प्. ५०४) विश्वाख्यानिरुद्धरूपप्रदर्शनम् एकोनविंशतिमुखा (१) विश्वाख्या विश्वधारिणः || ५१-२३ || अनिरुद्धस्यैव स्थानविशेषनिर्देशपूर्वकं भोग्यविशेषनिरूपणम् नानासृष्टिमयी विश्वा भुङ्क्ते स्थूलानि जाग्रती (२) | द्रव्यक्रियागुणाकारं नानासामान्यचित्रितम् || ५१-२४ || स्थूलं तर्पयते विश्वं विश्वां सृष्टिमयीमजाम् | प्रद्युम्नस्य भोग्यविशेषस्थानविशेषनिरूपणम् विश्वं (३) तदेव सूक्ष्माख्यमन्तःकरणसंमितम् || ५१-२५ || स्वाप्नीं तर्पयते शक्तिमुकारस्थां तु तैजसीम् | ________________ १ मध्यमं तु मुखं गजमुखाकारं, पार्श्वद्वयेऽपि नव नव मुखानि पुरुषमुखाकाराणि, इत्येकोनविंशतिमुखत्वं बोध्यम् | इदमुपलक्षणं सप्ताङ्गत्वस्यापि; सप्ताङ्ग एकोनविंशतिमुखः इति श्रुतौ दर्शनात् | चत्वारो हस्ताः, द्वौ पादौ, गजमुखत्वाद्गजहस्त एक इति सप्ताङ्गत्वम् | २ अस्य च शब्दस्य स्थानविशेषनिर्देशपरत्वम्, जागरितस्थानः इति श्रुतौ दर्शनात् | यत्र स्थित्वा जगतिं तच्चक्षुर्जागरितम् | अधिकरणे क्तप्रत्ययः | तदेव स्थानं यस्य स जागरितस्थानः, चक्षुःस्थान इति तदर्थः | ३ अत्रामयर्थः- विश्वशब्दः स्थूलजगत्परः | यदेवानिरुद्धस्य भोग्यभूतं स्थूलं जगत्, तदेवेदानीं वासनाजन्यतया बाह्यार्थेनेभ्यो विविच्य विलक्षणतया ज्ञायमानत्वेन प्रविविक्तापरपर्यायसूक्ष्मशब्दशब्द्यमानम् अन्तःकरणसंमितं बाह्यार्थज्ञानजन्यवासनासचिवेनान्तःकरणसंज्ञेन चित्तेन सम्यक्प्रमितं ज्ञातं सत्, स्वाप्नीं स्वप्ननिर्वाहकत्वेन कण्ठदेशस्थानम् उकारस्थां प्रणवस्य द्वितीयाक्षरे उकारे वाच्यतासंबन्धेनावतिष्ठमानां, तैजसीं तेजोमयचित्तस्थतया चित्तसम्बन्धित्वेन तैजसनाम्नीं प्रद्युम्नशक्तिं तर्पयत इति | _________________ प्. ५०५) संकर्षणस्य भोग्यविशेषस्थानविशेषनिरूपणम् विश्वं (१) तदेव सूक्ष्मत्वं विहायानन्दतां गतम् || ५१-२६ || परां तर्पयते शक्तिं सौषुप्तिं प्राज्ञनामिकाम् | उकारशक्तिस्त्रिमुखा सूक्ष्मा स्वाप्नी पुरोदिता || ५१-२७ || निरञ्जना मकाराख्या शक्तिरानन्दभोजिनी | अनिरुद्धस्य स्थूलदेहाधिष्ठातृतया प्रवृत्तिः स्थूलं पुरमधिष्ठाय देहं विश्वा प्रवर्तते || ५१-२८ || प्रद्युम्नस्य सूक्ष्मदेहाधिष्ठातृतया प्रवृत्तिः सूक्ष्मं पुर्यष्टकं स्वाप्नी पुरमादाय वर्तते | संकर्षणस्यानन्दाधिष्ठातृतया प्रवृत्तिः प्राज्ञा प्रवर्तते प्राप्य पुरमानन्दजं परम् || ५१-२९ || _______________ १ अयमर्थः- विश्वशब्दः प्रविविक्तापरपर्यायसूक्ष्मजगत्परः | यदेव प्रद्युम्नस्य भोग्यभूतं सूक्ष्मं जगत्, तदेवेदानीं सूक्ष्मत्वमपि विहायानन्दरूपतां गतं सत्, सौषुप्तिं जीवस्य सुषुप्तिनिर्वाहकत्वेन हृत्कर्णिकाग्रस्थां, प्राज्ञनामिकां, प्रकर्षेण न ज्ञापयतीति प्राज्ञः, जीवस्वरूपातिरिक्तं बाह्यं स्वाप्नं वा किमपि वस्तुजातं जीवस्य न ज्ञापयतीति प्रज्ञनामिकां, प्रपूर्वादन्तर्णीतणिजर्थकान्नञुपपदात् ज्ञाधातोः आतश्चोपसर्गे इत्यनुशासनात् कप्रत्ययः | पराम् अन्तिमां मकारस्थानमिति यावत्, शक्तिं संकर्षणरूपां तर्पयते | तामिमां तृतीयशक्तिं निशिनष्टि- उकारेत्यादिना भोजिनीत्यन्तेन | आनन्दं स्वयं भुङ्क्ते जीवं च भोजयतीत्यानन्दभोजिनी, वाच्यवाचकयोरभेदविवक्षया मकाराख्या सैषा संकर्षणरूपा तृतीया शक्तिः निरञ्जना निर्लेपा ; विषयभोगान् विना आनन्दमात्रभोक्तृत्वात् | नित्यपूर्णानन्दानुभवैकस्वरूपस्यानिरुद्धरूपेण स्थूलप्रपञ्चभोक्तृत्वं प्रद्युम्नरूपेण प्रविविक्तभोक्तृत्वं च क्रीडारूपमेव, क्रीडार्थमपि तादृशं भोक्तृत्वं शुद्धानन्दभोक्तुः संकर्षणस्य नास्तीति निरञ्जनत्वमिति | _______________ प्. ५०६) अनिरुद्धस्य बहिःप्रज्ञत्वम् बाह्यप्रमाणभूमिष्ठा विश्वस्य स्थूलता दशा | प्रद्युम्नस्यान्तःप्रज्ञत्वम् अन्तःकरणभूमिष्ठा सूक्ष्मता तस्य वै दशा || ५१-३० || संकर्षणस्यानन्दमयत्वम् सदानन्दमयी तस्य विश्वस्य परता दशा | स्थूलत्वादिदशात्रयस्यानिरुद्धादिशक्तित्रयप्रीतिहेतुत्वम् एतास्तिस्रो दशास्तिस्रः शक्तीः संप्रीणयन्ति ताः || ५१-३१ || अनिरुद्धादिरूपास्ता भोक्तृशक्तीर्विचिन्तयेत् | वासुदेवाख्यायाश्चतुर्थशक्तेर्नादप्रतिपाद्यत्वम् अर्धमात्रा तु या दिव्या मकारोत्था प्रकाशिनी || ५१-३२ || वासुदेवमयीं शक्तिं विद्धि तामनुपस्कृताम् (१) | ________________ १ अनुपस्कृताम्- जाग्रत्स्वप्नसुषुप्तिप्रवर्तकानामनिरुद्धप्रद्युम्नसंकर्षणानां तत्तत्प्रवर्तनरूपैर्व्यापारैरनाविष्टामित्यर्थः ; नान्तःप्रज्ञम् इत्यादिश्रुता तुरीयस्य विश्वादित्रयवैधर्म्यप्रतिपादनात् | अत एव कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ | प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिध्यतः || इति मन्त्रार्थसंवादिश्लोकेनापि कार्यकारणबन्धनियमनव्यापारस्य कारणमात्रबन्धनियमनव्यापारस्य च तुर्ये प्रतिषेधं विदधता तुर्यस्य विश्वादिवैधर्म्यमेव स्पष्टीक्रियत इति ध्येयम् | ________________ प्. ५०७) शक्तिचतुष्टयविलये सति अखण्डभगवच्छक्तेः स्तैमित्यरूपत्वम् तिसृणां सार्धमात्राणां विलये या विराजते || ५१-३३ || तां विद्धि भगवच्छक्तिमनुच्चार्यां निरञ्जनाम् | शक्तिचतुष्टयविलापनप्रकारः उच्चरन्नोमिति व्यक्तं (१) क्रमादादीर्विलोपयेत् || ५१-३४ || शक्तीश्चतस्र उद्दिष्टा उत्तरोत्तरभूमिषु | स्तैमित्यरूपायास्तस्याः शक्तेः पञ्चमदशारूपत्वम् (२) या न किंचिदिवाभाति न सती नापि चासती || ५१-३५ || सर्वासां ग्रसनी दिव्या शक्तीनां पञ्चमी दशा | प्रणवाभ्यासविशेषस्य तादृशशक्तिसाक्षात्कारहेतुत्वम् ओमित्युच्चरतः सम्यक् शाम्यतः क्रमतो मुने || ५१-३६ || महाभासा निराभासा शक्तिः सान्तर्विजृम्भते | __________________ १ आदीः- अः आदिः यासामिति बहुव्रीहिः; द्वितीयाबहुवचनान्तं शक्तीरित्यस्य विशेषणम् | २ अयमत्राशयः- यथा अर्णवे बुद्बुदानामर्णवजलोन्मेषरूपत्वम्, बुद्बुदत्वावस्थाविगमे च अर्णवजलस्य बुद्बुदग्रसितृत्वम्, ग्रसनोत्तरं च जलस्य बुद्बुदत्वाकारेण सत्त्वाभावादसत्त्वम्, स्वरूपेण सत्त्वादसत्त्वाभावश्च; एवमनिरुद्धादिशक्तिचतुष्टयस्याप्यखण्ड- भगवच्छक्त्युन्मेषरूपत्वम्, अनिरुद्धत्वाद्यवस्थाविगमे चाखण्डशक्तेरनिरुद्धादिग्रसितृत्वम्, ग्रसनोत्तरं चाखण्डशक्तेरनिरुद्धत्वाद्याकारेण सत्त्वाभावादसत्त्वम्, स्वरूपेण सत्त्वादसत्त्वाभावश्चेति | __________________ प्. ५०८) तस्याः शक्तेर्भगवदपृथक्सिद्धविशेषणीभूतलक्ष्मी- रूपत्वम् अनन्या सा परा शक्तिर्विष्णोर्लक्ष्मीः सनातनी || ५१-३७ || गौरी सरस्वती धेनुर्वाच्या वाच्यक्रमोज्झिता | ओंकाराभ्यासिनो हृदये लक्ष्म्या निर्हेतुकं स्वस्वरूपस्य प्रकाशनम् उदेति स्वयमेवान्तरोंकारं शृण्वतो मुने || ५१-३८ || भवद्रूपे परस्मिन् ब्रह्मणि भावरूपत्वं लक्ष्म्याः नित्ये निरञ्जने शुद्धे निष्कले निर्विकल्पके | विष्णौ भवितरि व्यक्तं भावो ब्रह्मणि वर्तते || ५१-३९ || पौराणिकोक्तस्य ब्रह्मविष्ण्वादिसंज्ञाचतुष्टयस्य लक्ष्मीपरत्वम् ब्रह्मविष्णुशिवाख्याभिस्तथैवाव्याकृताख्यया | उक्ता चतसृभिर्दिव्या स्तूयते सैव पञ्चमी || ५१-४० || पाशुपतोक्तस्येशादिसंज्ञाचतुष्टयस्यापि लक्ष्मीपरत्वम् ईशविद्यासमाख्याभिस्तथैव च शिवाख्यया | उक्ता चतसृभिः सैव शक्तिः पाशुपते मते || ५१-४१ || सांख्ययोगोक्तस्य संज्ञाचतुष्टयस्यापि लक्ष्मीपरत्वम् व्यक्ताव्यक्तपुमाख्याभिस्तथा कालाख्यया मुने | उक्ता चतसृभिः सैव शक्तिर्वै सांख्ययोगयोः || ५१-४२ || प्. ५०९) लक्ष्मीविशिष्टस्य परस्य ब्रह्मणो मुक्तप्राप्यत्वम् (१) प्राप्य तां पञ्चमीं शक्तिं यदन्ते विरमत्यसौ | परं ब्रह्म परं धाम तद्विष्णोः परमं पदम् || ५१-४३ || उक्तार्थस्यैव भङ्ग्यन्तरेण विशदीकरणम् अर्धमात्रोर्ध्वगां दिव्यां दीर्घघण्टानदोपमाम् | अन्तरास्वादयञ्छक्तिमानन्दात्मानमव्ययाम् || ५१-४४ || यमन्ते लभते भावं रूपं विष्णोस्तदुज्ज्वलम् | इति ते प्रणवस्यार्थः सूक्ष्मात्मा संप्रदर्शितः || ५१-४५ || अथ परार्थनिरूपणम् योऽर्थः पराह्वयस्तस्य तमिदानीं निबोध मे | प्रणवं भावयेदेतदक्षरद्वितयात्मकम् || ५१-४६ || सृष्ट्याद्युन्मुखशक्त्युपहितस्य स्थूलचिदचिद्विशिष्टस्य ब्रह्मणोऽकारप्रतिपाद्यत्वम् पञ्चकृत्यकरी शक्तिर्या हि सा वैष्णवी परा | ________________ १ अयमाशयः- असौ प्रणवाभ्यासात् विमुक्तसंसारबन्धनः पुमान्, यथोक्तस्वरूपां लक्ष्मीरूपां पञ्चमीं शक्तिं प्राप्य, यदन्ते यदुपान्ते यस्य लक्ष्मीविशिष्टस्य परस्य ब्रह्मणः परिसर इति यावत्, विरमति ततः प्राप्यान्तराभावात् प्राप्यविषयकव्यापारोपरतिमान् भवति, तत् विष्णोः व्यापनशीलस्य, परमं समाभ्यधिकरहितं, पदं पद्यते गम्यते उपास्यते पाप्यत इति वा पदं स्वरूपमित्यर्थः | तदेव पुनर्विशेष्यते- परं ब्रह्म परं धामेति | तदेव बृहत्त्वादिगुणविशिष्टं, परं न त्वपरं हिरण्यगर्भादिरूपम्, तदेव परं धाम अपरिच्छिन्नतेजोरूपम्; यथोक्तलक्ष्मीसंबन्धादेव ह्यप्रमेयतेजोरूपत्वं परस्यापि ब्रह्मणः | यथोक्तमादिकविना- ऽऽअप्रमेयं हि तत्तेजो यस्य सा जनकात्मजाऽऽ इति | विष्णोः पदमिति व्यतिरेकनिर्देशस्तु ऽशिलापुत्रकस्य शरीरम्ऽ इत्यादिवदौपचारिक इति | ________________ प्. ५१०) तयैवोपहितं ब्रह्म नानाकारविकल्पवत् || ५१-४७ || अभिधत्ते परं विष्णुं सृष्टिकृत् परमेश्वरः | सृष्ट्याद्यनुन्मुखशक्त्युपहितस्य सूक्ष्मचिदचिद्विशिष्टस्य ब्रह्मण उकारप्रतिपाद्यत्वम् अव्यक्तपञ्चकृत्यासौ तूष्णींभूतेव राजते || ५१-४८ || निरञ्जना निराभासा निश्चला वैष्णवी परा | सदा प्रतायमानापि सूक्ष्मैर्भावैरलक्षणैः || ५१-४९ || निर्व्यापारेव सा भाति स्तैमित्यमिव चोदधेः | तयैवोपहितं ब्रह्म निर्विकल्पं निरञ्जनम् || ५१-५० || अभिधत्ते परं विष्णुं व्यापी व्योमेश उज्ज्वलः | ओंकारेण यथोक्तब्रह्मणोरभिन्नत्वस्य बोधनम् (१) एकतानयनं यत् तदनयोर्वर्णयोर्द्वयोः || ५१-५१ || तदोमित्यक्षरं ब्रह्म परेयमजपा स्मृता | जगद्विलापनं रूपं तदेव प्रणवाह्वयम् || ५१-५२ || उक्तार्थध्याननिष्ठस्य योगनिष्ठासिद्धिः अत्र योऽवहितो योगी स समाधिं व्रजेत् परम् | ________________ १ अत्रायमाशयः- अकारोकाररूपाक्षरयोरेकीकरणेन निष्पन्नत्वात् तत्संध्यक्षररूप ओकारो न वर्णान्तरम् | तत्राक्षरद्वयमपि क्रमेण स्थूलचिदचिद्विशिष्टब्रह्मणः सूक्ष्मचिदचिद्विशिष्ठब्रह्मणश्च वाचकम् | वाचकद्वयैकीकरणानिष्पन्नेन चौकारेण वाच्यद्वयैकी- करणबोधनप्रक्रियया यथोक्तविशेषणविशिष्टयोर्ब्रह्मणोः प्रकार्येकत्वरूपमद्वैतं बोध्यत इति कार्यकारणयोरद्वैतसिद्धिरिति | ________________ प्. ५११) इति ते त्रिविधावस्था प्रणवस्य प्रदर्शिता || ५१-५३ || तारानुतारयोरर्थवर्णनप्रतिज्ञा तारानुतारयोरन्या विधास्तिस्रो निशामय | तत्र तारायाः स्थूलार्थनिरूपणम् हरत्यशेषदुरितमीड्यते च सुरासुरैः || ५१-५४ || मीयते चाखिलैर्मानैरतो ह्रीमिति कीर्त्यते | सूक्ष्मार्थनिरूपणम् इति ते स्थूल उद्दिष्टः सूक्ष्ममद्य निशामय || ५१-५५ || सर्वत्र प्राणीति व्यक्तमलंभावं न गच्छति | नित्योन्नमनरूपा सा कलयत्यखिलं जगत् || ५१-५६ || परार्थनिरूपणम् इति ते सूक्ष्म उद्दिष्टः परमद्य निशामय | परमात्मा परो योऽसौ देवो नारायणाह्वयः || ५१-५७ || तस्यानपायिनी शक्तिर्देवी तद्धर्मधर्मिणी | मायाश्चर्यकरत्वेन पञ्चकृत्यकरी सदा || ५१-५८ || व्यापिनी विष्णुरूपेण सर्वभावानुगामिनी | अशेषभुवनाधारसंकल्पप्रविजृम्भिणी || ५१-५९ || समाश्रितानलंभावं विधाय विविधं जगत् | व्योमेशव्यापिनी स्पष्टं पुनः सा प्रतितिष्ठति || ५१-६० || परोऽयमर्थ उद्दिष्टस्तारिकाया महामुने | प्. ५१२) अनुतारायाः स्थूलार्थनिरूपणम् (१) शृणाति निखिलान् दोषाञ्छ्रीणाति (२) च गुणैर्जगत् || ५१-६१ || श्रीयते चाखिलैर्नित्यं श्रयते च परं पदम् | लेशतः स्थूल उद्दिष्टः श्रिय एष महामुने || ५१-६२ || सूक्ष्मार्थनिरूपणम् पुण्डरीकं परं धाम नित्यमक्षरमव्ययम् | शंकरी श्रयतां तत्र मर्दयन्ती भवोदधिम् || ५१-६३ || नानाश्चर्यकरी भूत्वा तत्तद्भोगप्रदानतः | परार्थनिरूपणम् इति ते सूक्ष्म उद्दिष्टः परमद्य निशामय || ५१-६४ || प्रशान्तं यत् परं ब्रह्म नित्यशुद्धं निरञ्जनम् | षाड्गुण्यमचलं दिव्यं नारायणसमाह्वयम् || ५१-६५ || तद्धर्मधर्मिणी देवी शक्तिस्तस्यानपायिनी | मायाश्चर्यकरत्वेन पञ्चकृत्यकरी सदा || ५१-६६ || व्यापिनी विष्णुरूपेण सर्वभावानुभाविनी | _________________ १ शॄ हिंसायाम् इति क्रैयादिकाद्धातोर्लटि रूपमिदं शृणातीति | पुरुषकारत्वेन स्वरचरणकमलमुपाश्रितानामनादिकालसंचितान् संचेष्यमाणांश्च निखिलानपि कर्मरूपान् दोषान् शृणाति हिनस्ति विनाशयतीति श्रीरिति वाक्यतात्पर्यम् | २ श्रीञ् पाके इति क्रैयादिकाद्धातोर्लटि रूपमिदं श्रीणातीति | जगच्छब्दविवक्षितं निखिलचेतनवर्गं स्वीयैः कारुण्यवात्सल्यादिभिर्मातृत्वप्रयुक्तैर्गुणैः श्रीणाति पचति मानसकाठिन्यापाकरणेन मृदूकरोतीति श्रीरिति भावः | _________________ प्. ५१३) अशेषभुवनाधारसंकल्पप्रविजृम्भिणी || ५१-६७ || समास्थितानलंभावं विधाय विविधं जगत् | व्योमेशव्यापिनी स्पष्टं पुनः सा प्रतितिष्ठति || ५१-६८ || अर्थोऽयमनुतारायास्ताराया इव वर्णितः | उक्तसर्वार्थसंक्षेपः सर्ववाच्यार्थविषयं संक्षेपं शृणु नारद || ५१-६९ || योऽसौ तवेरितो देवः परमात्मा सनातनः | शक्तिमानखिलावासः षाड्गुण्यपरिबृंहितः || ५१-७० || तद्धर्मिणी शक्तिरेका तस्यानपायिनी | सर्वभूतानुगा देवी स्तैमित्यमिव वारिधेः || ५१-७१ || अत्यन्ताल्पाल्पकांशेन सा स्वेनैव विभाव्यते | भाव्यभावकभेदेन भाव्या भूतिः सितेतरा || ५१-७२ || भावको विष्णुसंकल्पः सुदर्शनसमाह्वयः | भूतिः शब्दार्थभेदेन द्विधा पूर्वा प्रवर्तते || ५१-७३ || शब्दस्य शब्दनं यत् तदर्थं प्रति निरूप्यते | तत् क्रियारूपतो ज्ञेयं सौदर्शनमयं वपुः || ५१-७४ || शब्दभावो हि योऽर्थस्य कर्मीभावसमाह्वयः | सोऽपि क्रियात्मभावेन सुदर्शनमयः स्मृतः || ५१-७५ || अतः स्पन्दमयो विष्णोर्यः संकल्पः सुदर्शनम् | प्. ५१४) तन्मययेव क्रिया सर्वा कारकस्था न संशयः || ५१-७६ || सर्वः शब्दश्च सर्वश्च वाच्यो द्वेधा प्रवर्तते | गुणेन कर्मणा वापि विधान्या नैव विद्यते || ५१-७७ || अतो नैव प्रवर्तन्ते वाचो ब्रह्मणि रूपतः | अवगाहयतो ब्रह्म एते तु गुणकर्मणी || ५१-७८ || ते च सौदर्शने रूपे विशेषणमयात्मना | मन्त्रग्रामो हि यो यावान् ब्रह्मणि प्रविगाहते || ५१-७९ || सुदर्शनप्रभावेण तत् सर्वमिति चिन्त्यताम् | इति ते गदितः सम्यक् संक्षेपः शास्त्रसंमतः | अस्य विस्तृतिमव्यग्रो मन्त्रे मन्त्रे निबोध मे || ५१-८० || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां तारादिबीजाक्षरस्वरूपार्थवर्णनं नाम एकपञ्चाशोऽध्यायः || ५१ || आदितः श्लोकाः ३३१७ विष्ण्वादिमन्त्रार्थनिरूपणं नाम द्विपञ्चाशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || वृत्तानुवादपूर्वकं विष्ण्वादिमन्त्रार्थकथनप्रतिज्ञा अहिर्बुध्न्यः - तारतारानुताराणां स्वरूपं ते प्रदर्शितम् | स्थूलसूक्ष्मपरत्वेषु गुणकर्मनिमित्तजम् || ५२-१ || मन्त्राणां विष्णुपूर्वाणामर्थमद्य निशामय | नमःशब्दस्य स्थूलार्थनिरूपणे शब्दार्थप्रदर्शनम् प्रेक्षावतः प्रवृत्तिर्या प्रह्वीभावात्मिका स्वतः || ५२-२ || उत्कृष्टं परमुद्दिश्य तन्नमः परिगीयते | उत्कृष्टापकृष्टभेदेन चेतनद्वैविध्यम् लोके चेतनवर्गस्तु द्विधैव परिकीर्त्यते || ५२-३ || ज्यायांश्चैव तथाज्यायान्नैवाभ्यां विद्यते परः | अनवधिकातिशयप्रकर्षविशिष्टस्य ज्यायःशब्दमुख्यार्थत्वम् कालतो गुणतश्चैव प्रकर्षो यत्र तिष्ठति || ५२-४ || शब्दस्तं मुख्यया वृत्त्या ज्यायानित्यवलम्बते | प्. ५१६) तदन्येषामज्यायस्त्वम् अतश्चेतनवर्गोऽन्यः स्मृतः प्रत्यवरो बुधैः || ५२-५ || अज्यायांश्चानयोर्योगः शेषशेषितयेष्यते | अज्यायांसः स्मृताः सर्वे ज्यायानेको मतः परः || ५२-६ || जीवपरयोः संबन्धनिरूपणपूर्वकं नन्तृनन्तव्यत्वव्यवस्था नन्तृनन्तव्यभावेन तेषां तेन समन्वयः | नन्तव्यः परमः शेषी शेषा नन्तार ईरिताः || ५२-७ || जीवेशयोः शेषशेषिभावस्य निरूपाधिकत्वम् नन्तृनन्तव्यभावोऽयं न प्रयोजनपूर्वकः | नीचोच्चयोः स्वभावोऽयं नन्तृनन्तव्यतात्मकः || ५२-८ || निरुपाधिकोत्कर्षापकर्षज्ञानस्य नमनहेतुत्वम् उपाधिरहितेनायं येन भावेन चेतनः | नमति ज्यायसे तस्मै तद्वा नमनमुच्यते || ५२-९ || भगवान् मत्परो नित्यमहं प्रत्यवरः सदा | इति भावो नमः प्रोक्तो नमसः कारणं हि सः || ५२-१० || अन्तर्णीतणिजर्थविवक्षया नमःशब्दस्य निर्वचनान्तरम् नामयत्यपि वा देवं प्रह्वीभावयति ध्रुवम् | प्रह्वीभवति नीचे हि परो नैच्यं विलोकयन् || ५२-११ || प्. ५१७) अतो वा नम उद्दिष्टं यत् तं नामयति स्वयम् | करणत्रयसहितस्य नमसः पूर्णत्वम् वाचा नम इति प्रोच्य मनसा वपुषा च यत् || ५२-१२ || तन्नमः पूर्णमुद्दिष्टमतोऽन्यन्न्यूनमुच्यते | इयं करणपूर्तिः स्यादङ्गपूर्तिमिमां शृणु || ५२-१३ || प्रह्वीभावात्मकात्मनिक्षेपतद्विरोधिनोर्निरूपणम् शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् | पुरुषं परमुद्दिश्य न मे सिद्धिरतोऽन्यथा || ५२-१४ || इत्यङ्गमुदितं श्रेष्ठं फलेप्सा तद्विरोधिनी | कार्पण्यतद्विरोधिनोर्निरूपणम् अनादिवासनारोहादनैश्वर्यात् स्वभावजात् || ५२-१५ || मलावकुण्ठितत्वाच्च (१) दृक्क्रियाविहतिर्हि या | तत् कार्पण्यं तदुद्बोधो द्वितीयं ह्यङ्गमीदृशम् || ५२-१६ || ________________ १ अत्र दृक्छब्देन ज्ञातृत्वं क्रियाशब्देन च कर्तृत्वं विवक्षितम् | इदं च भोक्तृत्वस्याप्युपलक्षकम् | तेषां विहतिः प्रतिहतिः कुण्ठनमिति यावत् | तदेव कार्पण्यम् | तज्ज्ञानं द्वितीयमङ्गमिति | अयमाशयः- चेतनस्य ज्ञातृत्वकर्तृत्वभोक्तृत्वानि द्विविधानि स्वाभाविकान्यौपाधिकानि चेति | तत्र सप्रकारकपरमपुरुषविषयकं ज्ञातृत्वं, तदीयपर्यन्ततच्चरणकमलपरिचर्याविषयकं कर्तृत्वं, सोऽश्नुते सर्वान् कामान् सह इत्यादिश्रुतिबोधितं भोक्तृत्वं च स्वरूपानुबन्धित्वात् स्वाभाविकम् | तच्च यथोक्तेनानादिवासनारोहादि- रूपेण हेतुत्रयेणामोक्षं कार्त्स्न्येन कुण्ठितम् | यानि तु चेतनस्य सांसारिकतत्तत्पदार्थविषयकाणि ज्ञातृत्वकर्तृत्वभोक्तृत्वानि, तानि कर्मोपाधिकस्वातन्त्र्यज्ञाननिमित्तकत्वादौपाधिकान्युपाध्यनुगुण- मामोक्षात् तत्तज्जन्मसु तरतमभावेन प्रवर्तन्ते | सोऽयं स्वस्वातन्त्र्यावबोधो यथोक्तकार्पण्यविरोधीत्युच्यत इति | ________________ प्. ५१८) स्वस्वातन्त्र्यावबोधस्तु तद्विरोधीत्युदीर्यते | महाविश्वासतद्विरोधिनोर्निरूपणम् परत्वे सति देवोऽयं भूतानामनुकम्पनः || ५२-१७ || अनुग्रहैकधीर्नित्यमित्येतत्तु तृतीयकम् | उपेक्षको यथाकर्म फलदायीति या मतिः || ५२-१८ || विश्वासात्मकमेतत्तु तृतीयं हन्ति वै सदा | गोप्तृत्ववरणतद्विरोधिनोर्निरूपणम् (१) एवंभूतोऽप्यशक्तः सन्न त्राणं भवितुं क्षमः || ५२-१९ || इति बुद्ध्यास्य देवस्य गोप्तृशक्तिनिरूपणम् | चतुर्थमङ्गमुद्दिष्टममुष्य व्याहतिः पुनः || ५२-२० || उदासीनो गुणाभावादित्युपेक्षानिमित्तजा | प्रातिकूल्यवर्जनतद्विरोधिनोर्निरूपणम् स्वस्य स्वाम्यनिवृत्तिर्या प्रातिकूल्यविवर्जनम् || ५२-२१ || तदङ्गं पञ्चमं प्रोक्तमाज्ञाव्याघातवर्जनम् | अशास्त्रीयोपसेवा तु तद्व्याघात उदीर्यते || ५२-२२ || आनुकूल्यसंकल्पतद्विरोधिनोर्निरूपणम् चराचराणि भूतानि सर्वाणि भगवद्वपुः | __________________ १ एवंभूत इति हेतुगर्भविशेषणम् | परमपुरुष इति विशेष्यं प्रकरणलभ्यम् | एवंभूतः परमपुरुषः स्वयमशक्तश्चेत् चेतनानां त्राणं भवितुं क्षमो न भवेत् | अतः शक्तः सन् क्षमो भवेदेवेति योजना | __________________ प्. ५१९) अतस्तदानुकूल्यं मे कार्यमित्येव निश्चयः || ५२-२३ || षष्ठमङ्गं समुद्दिष्टं तद्विघातो निराकृतिः (१) | उक्तार्थनिगमनम् पूर्णमङ्गैरुपाङ्गैश्च नमनं ते प्रकीर्तितम् || ५२-२४ || स्थूलोऽयं नमसश्चार्थः सूक्ष्ममद्य निशामय | नमःशब्दस्य सूक्ष्मार्थनिरूपणे म इत्यस्याहंकारममकारवाचित्वम् चेतनस्य यदा मम्यं स्वस्मिन् स्वीये च वस्तुनि || ५२-२५ || मम इत्यक्षरद्वन्द्वं तदा मम्यस्य वाचकम् | नमःशब्दस्याहंताममताबुद्धिनिवर्तकत्वम् अनादिवासनाधीनमिथ्याज्ञाननिबन्धना || ५२-२६ || आत्मात्मीयपदार्थस्था या स्वातन्त्र्यस्वतामतिः | मे नेत्येवं समीचीनबुद्ध्या सात्र निवार्यते || ५२-२७ || उक्तार्थस्यैव विवरणम् नाहं मम स्वतन्त्रोऽहं नास्मीत्यस्यार्थ उच्यते | न मे देहादिकं वस्तु स शेषः परमात्मनः || ५२-२८ || इति बुद्ध्या निवर्तन्ते तास्ताः स्वीया मनीषिकाः | नमःशब्दार्थज्ञानस्याहंताममताबुद्धिनिवर्तकत्वे उपपत्तिप्रदर्शनम् अनादिवासनाजातैर्बोधैस्तैर्विकल्पितैः || ५२-२९ || ________________ १ भगवच्छरीरभूतानां चराचरात्मकानां भूतानां निराकृतिः प्रद्वेषादिना तिरस्करणं तद्विघातः आनुकूल्यसंकल्परूपषष्ठाङ्गविरोधिनीत्यर्थः | _________________ प्. ५२०) रूषितं यद् दृढं चित्तं स्वातन्त्र्यस्वत्वधीमयम् | तत्तद्वैष्णवसार्वात्म्यप्रतिबोधसमुत्थया || ५२-३० || नम इत्यनया वाचा नन्त्रा स्वस्मादपोह्यते | इति ते सूक्ष्म उद्दिष्टः परमद्य निशामय || ५२-३१ || नमःशब्दस्य परार्थनिरूपणम् पन्था नकार उद्दिष्टो मः प्रधानो निरूप्यते | विसर्गः परमेशस्तु तत्रार्थोऽयं निरूप्यते || ५२-३२ || अनादिः परमेशो यः शक्तिमान् पुरुषोत्तमः | तत्प्राप्तये प्रधानोऽयं पन्था नमननामवान् || ५२-३३ || इति ते त्रिविधः प्रोक्तो नमःशब्दार्थ ईदृशः | विष्णुमन्त्रस्य स्थूलार्थनिरूपणम् विष्णुनारायणादीनामर्थमद्य निशामय || ५२-३४ || नीचभावेन संद्योत्यमात्मनो यत् समर्पणम् | विष्ण्वादिस्था चतुर्थी तत्संप्रदानप्रदर्शनी || ५२-३५ || नीचीभूतो ह्यसावात्मा यत्संरक्ष्यतयाप्यते | तत् कस्मा इत्यपेक्षायां विष्णवे स इतीर्यते || ५२-३६ || क्रियाकारकसंसर्गलभ्योऽर्थः स्थूल ईरितः | प्. ५२१) विष्णुमन्त्रस्य सूक्ष्मार्थनिरूपणे विष्णौ परत्वद्योतकगुणविशेषनिरूपणम् यः प्रातिपदिकप्रेक्षाजन्यः सूक्ष्मः स ईर्यते || ५२-३७ || व्याप्तिकान्तिप्रवेशेच्छास्तत्तद्धातुनिबन्धनाः | परत्वद्योतिका विष्णोर्देवस्य परमात्मनः || ५२-३८ || व्याप्तिगुणनिरूपणम् व्याप्नोति देशकालाभ्यां सर्वं यद्रूपतोऽपि च | तत् परं गदितं (१) सद्भिर्विषेर्धातोर्निरूपणात् || ५२-३९ || कान्तिगुणनिरूपणम् कान्तिर्नाम गुणोत्कर्षो गुणा ज्ञानबलादयः | अतिवेलं प्रकृष्यन्ते यत्र कान्तः स ईरितः || ५२-४० || अकान्ताश्चेतनाः सर्वे कान्तः स पुरुषः परः | कान्तिर्नाम गुणः सोऽयं (२) वशेर्धातोर्निरूपणात् || ५२-४१ || प्रवेशगुणनिरूपणम् चेतनाचेतनाः सर्वे विशन्त्येव यतः स्वयम् | महीयांसं विशत्येव योऽणीयानणुषु स्वयम् || ५२-४२ || स परो गदितः (३) सद्भिर्विशेर्धातोर्निरूपणात् | इच्छागुणनिरूपणम् य इष्यते सदा सर्वैरात्मभावेन चेतनैः || ५२-४३ || _________________ १ ऽऽविषॢ व्याप्तौऽऽ. २ ऽऽवश कान्तौऽऽ. ३ ऽऽविश प्रवेशनेऽऽ. __________________ प्. ५२२) स परो गदितः सद्भिरिषेर्धातोर्निरूपणात् (१) | विष्णुशब्दे एकैकवर्णार्थनिरूपणम् विश्वं प्रजायते वस्तु समवैति च तत्र हि || ५२-४४ || प्रस्नौति च सदा सद्भ्यः पुरुषार्थं चतुर्विधम् | (२) वेः (२) सचेश्च (२) स्नुतेश्चैव विष्णुर्धातुत्रयान्वयात् || ५२-४५ || इति ते लेशतः सूक्ष्मो विष्णुशब्दार्थ ईरितः | परार्थनिरूपणम् परस्त्वक्षरलभ्योऽर्थस्तस्य तत्त्वं निशामय || ५२-४६ || अमृतायितसर्वार्थो ज्योतिस्त्रयसमिन्धनः | ददात्यभयमित्येतत् परोऽर्थः परिकीर्तितः || ५२-४७ || इति ते वैष्णवे मन्त्रे त्रिविधा गतिरीरिता | नारायणमन्त्रस्य सूक्ष्मार्थनिरूपणम् नारायणे निबोधैतद्रूपाणां त्रितयं मुने || ५२-४८ || क्रियाकारकलभ्योऽर्थस्तत्र स्थूलो (३) निदर्शितः | यः प्रातिपदिकस्थोऽर्थः स सूक्ष्मोऽद्य निरूप्यते || ५२-४९ || _______________ १ ऽऽ इष दच्छायाम् ऽऽ. २ ऽऽ वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषुऽऽ ऽऽषच समवायेऽऽ ऽऽष्णु प्रस्रवणेऽ इति धातुत्रयमत्र क्रमेण बोध्यम् | अत एव द्वितीयतृतीयधातुद्वयानुगुण्येनात्र विष्णुशब्देपि षकारद्वित्वमवधेयम् | अत्र सवेश्चेति द्वितीयो धातुः क्वचित् पठ्यते; तत्तु शमवैति च तत्र हिऽऽ इति पूर्वोक्तविवरणवाक्याननुगुणत्वादुपेक्षितम् | ३ पञ्चत्रिंशषट्त्रिंशश्लोकौ द्रष्टव्यौ. _______________ प्. ५२३) नरसंबन्धिनो नारा नरः स पुरुषोत्तमः | नयत्यखिलविज्ञानं नाशयत्यखिलं तमः || ५२-५० || न रिष्यति च सर्वत्र नरस्तस्मात् सनातनः | नरसंबन्धिनः सर्वे चेतनाचेतनात्मकाः || ५२-५१ || ईशितव्यतया नारा धार्यपोष्यतया तथा | नियाम्यत्वेन सृज्यत्वप्रवेशहरणैस्तथा || ५२-५२ || अयते निखिलान्नारान् व्याप्नोति क्रियया तथा | नाराश्चाप्ययनं तस्य तैस्तद्भावनिरूपणात् || ५२-५३ || नाराणामयनं वासस्ते च तस्यायनं सदा | परमा च गतिस्तेषां नाराणामात्मनां सदा || ५२-५४ || आपो नारा इति प्रोक्तास्ता अप्ययनमस्य च | अतो नारायणो नाम हेतुभिर्दर्शितः परः || ५२-५५ || इति ते सूक्ष्म उद्दिष्टः परं वर्णाश्रयं शृणु | परार्थनिरूपणम् अकुण्ठितश्चक्ररूपः समस्तदुरितानलः || ५२-५६ || व्यापकः सर्वशास्त्रेषु प्रथितो गोपनः सताम् | सदानन्दमयः पन्था नाराणां च परा गतिः || ५२-५७ || इत्यर्थः पर उद्दिष्टो वासुदेवे निशामय | प्. ५२४) वासुदेवमन्त्रस्य सूक्ष्मार्थनिरूपणम् क्रियाकारकगो योऽर्थः स्थूलः (१) पूर्वोक्त एव सः || ५२-५८ || सूक्ष्मोऽर्थो वासुदेवाख्ये मन्त्रे प्रतिपदाश्रयः | भगवानिति पूज्यार्थः शब्दोऽयं समुदायतः || ५२-५९ || भकारार्थनिरूपणम् धारयत्यखिलं विश्वं पोषयत्यपि तत् सदा | भरते पूरयत्येतत् संभरत्यपि चात्मना || ५२-६० || त्रयीकर्मात्मकं सूक्ष्ममिति भार्थो निरूप्यते | गकारार्थनिरूपणम् गीयते निखिलैः शब्दैर्गम्यते चापवर्गिभिः || ५२-६१ || स्वतोऽवबुध्यते सर्वं व्याप्नोति निखिलं जगत् | नेता च निखिलार्थस्य गकारार्थः स्मृतो मुने || ५२-६२ || मतुबर्थनिरूपणम् स्वत्वेन वृणुते विश्वं वर्तते चेशतात्मना | वर्धयत्यखिलं कामं वतोऽर्थोऽयं समीरितः || ५२-६३ || वासुशब्दार्थनिरूपणम् छादयत्यखिलं स्वेन ज्ञानानन्दामलात्मना | _______________ १ पञ्चत्रिंशषट्त्रिंशश्लोकौ द्रष्टव्यौ. _______________ प्. ५२५) यथा च वह्निनाविष्टमिन्धनं तन्मयं भवेत् || ५२-६४ || एवमाच्छादितं तेन विश्वं तन्मयमेव तत् | वसत्यस्मिन् यतो विश्वं तत्रापि च वसत्ययम् || ५२-६५ || वासुशब्दार्थ उद्दिष्टो वा गन्ता परिकीर्त्यते | तन्तुवत् सकलार्थेषु संतनोतीति वाः स्मृतः || ५२-६६ || प्रसूयतेऽखिलान् भावान् सौति प्रेरयतीत्यपि | मखेष्वभिष्टुतः सद्भिरिति स्वर्थोऽयमुच्यते || ५२-६७ || देवशब्दार्थनिरूपणम् द्योतते स्वत एवायं सृष्ट्याद्यैः क्रीडति स्वयम् | स्तूयते च सदा देवैरिति देवार्थ ईरितः || ५२-६८ || दाता च सर्वकामानां शोधकः सर्वदेहिनाम् | रक्षिता सर्वभूतानामिति देकार उच्यते || ५२-६९ || सर्वैः संभजनीयश्च वोढा च सकलात्मनाम् | वकारार्थोऽयमुद्दिष्ट इति सूक्ष्मगतिस्त्वियम् || ५२-७० || परार्थनिरूपणे भकारार्थनिरूपणम् परस्त्वक्षरसंलभ्यस्तस्य रूपं निशामय | ध्रुवः पूर्वोऽवधिर्ज्ञेयो यदुपादानमुच्यते || ५२-७१ || ध्रुवं जगदुपादानमिति भाक्षरचिन्तनम् | प्. ५२६) गकारार्थनिरूपणम् गां वेदयति सच्छास्त्रमादौ विन्दति वा स्वयम् || ५२-७२ || गोविन्दो नाम देवोऽसौ गार्थः संकर्षणो मुने | वकारार्थनिरूपणम् वरुणो वृणुते विश्वं त्रयीकर्मोभयात्मकम् || ५२-७३ || वृणुते कुरुते विश्वमिति वार्थो निरूप्यते | तकारार्थनिरूपणम् यत् सृज्यते संह्रियते स्रग्घरः परिकीर्त्यते || ५२-७४ || धत्ते तदुभयं देवः स्वनाभिकमलोदरे | अतः स्रग्धर इत्येवमनिरुद्धोऽत्र चोदितः || ५२-७५ || चतुर्भिरक्षरैरेवं चतुर्व्यूहनिरूपणम् | वाकारार्थनिरूपणम् वकारेणामृताधारो वासुदेवो निरूप्यते || ५२-७६ || आकारेणादिदेवस्तु संकर्षण उदीर्यते | यो वासुदेवो भगवान् मोक्षाधारः सनातनः || ५२-७७ || संकर्षणः स एवेति वाकारार्थो निरूप्यते | सुकारार्थनिरूपणम् भुवनं कर्म चैवादौ योऽसूयत सनातनः || ५२-७८ || प्. ५२७) स सोम उदितस्तेन प्रद्युम्नः पुरुषोत्तमः | उद्दाम उदयश्चात्र संकर्षण उदीर्यते || ५२-७९ || संकर्षणदशायां हिं संपूर्ण उदयो हरेः | वासुदेवात्मको यः स संकर्षण उदीरितः || ५२-८० || प्रद्युम्नोऽपि स एवेति सुकारार्थो निरूप्यते | देकारार्थनिरूपणम् दत्तो येनावकाशोऽप्सु शयानेन महात्मना || ५२-८१ || क्षेत्रक्षेत्रज्ञयोर्वृद्ध्यै स्वनाभिकमलोदरे | दत्तावकाशो दस्यार्थः सोऽनिरुद्ध उदीर्यते || ५२-८२ || एकारेण जगद्योनिः प्रद्युम्नः परिपठ्यते | संकर्षणात्मको यः स प्रद्युम्नः परिकीर्तितः || ५२-८३ || अनिरुद्धः स इत्येवं देकारार्थो निरूप्यते | वकारार्थनिरूपणम् एवं वर्णत्रयेणोक्तं व्यूहतादात्म्यमुत्तमम् || ५२-८४ || उपसंहाररूपेण पुनर्वेति तदुच्यते | लेशतो वासुदेवाख्ये परोऽर्थस्ते प्रदर्शितः | जितन्तायामिदानीं मे सर्वमर्थं निशामय || ५२-८५ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां विष्ण्वादिमन्त्रार्थनिरूपणं नाम द्विपञ्चाशोऽध्यायः || ५२ || आदितः श्लोकाः ३४०२ जितन्ताख्यमन्त्रार्थनिरूपणं नाम त्रिपञ्चाशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || मन्त्राद्यपादस्य स्थूलार्थनिरूपणे जिधात्वर्थयोरौज्ज्वल्याविघातयोर्नमनप्रयोजकत्वकथनम् अहिर्बुध्न्यः - औज्ज्वल्यमविघातश्च जयतेरर्थ उच्यते | प्रयोजकं तदुभयं नन्तुर्नमनकर्मणि || ५३-१ || तयोर्ज्ञानादिषड्गुणजन्यत्वम् ज्ञानशक्तिबलाद्यैस्तदुभयं खलु जायते | ज्ञानादिगुणपूर्णत्वात् भगवत एव नन्तव्यत्वम् ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः || ५३-२ || भगवानेव विश्वात्मा नन्तव्यः प्रविवक्ष्यते | पूण्डरीकाक्षशब्दस्य यथोक्तार्थप्रकाशकत्वोपपादनम् पुण्डरीकाक्षशब्देन तदिदं प्रतिसूत्र्यते || ५३-३ || प्रयुक्तो रागरोषाभ्यां चक्षुषैव विभाव्यते | प्. ५२९) अयं त्ववाप्तकामत्वात् तत्तत्कृत्यविवर्जितः || ५३-४ || प्रसन्नो वैकृतत्यागात् पुण्डरीकाक्ष उच्यते | तस्यैव शब्दस्य हेयप्रतिभटत्वकल्याणगुणाकरत्वरूपोभयलिङ्गपरत्वम् रागादिदोषनिर्मुक्तिः कल्याणगुणपूरणम् || ५३-५ || पुण्डरीकाक्षशब्देन शब्द्यते पुरुषोत्तमे | तस्यैव वासुदेवाख्यप्रथमव्यूहनिरूपकत्वम् पुण्डरीकाक्षशब्दोऽयमादिव्यूहनिरूपणः || ५३-६ || पुण्डरीकाक्षमामन्त्र्य ब्रह्मा तेनैव हेतुना | नन्ता स्वं च समालोक्य जितं त इति वक्त्ययम् || ५३-७ || इति संसर्गजः स्थूलः सूक्ष्मं चापि मुने शृणु | सूक्ष्मार्थनिरूपणे पुण्डरीकाक्षशब्देन भगवतोऽकालकाल्यत्वस्याविष्करणम् पुण्डरीकं तु कालाख्यं पुरं जरयते यतः || ५३-८ || तेनाक्षतो बहिर्भावात् तेनानाकलितो यतः | कालत्रैविध्यकथनपूर्वकं तदुपपादनम् स्थूलः सूक्ष्मः परः कालस्त्रिविधो न परात्मनि || ५३-९ || वासुदेवे परे ब्रह्मण्यवगाहनमर्हति | स्थूलो लवादिमान् कालः सूक्ष्मस्तत्त्वनिरूपकः || ५३-१० || व्यूहानां चेष्टितव्यापी परः कालो निरूप्यते | प्. ५३०) व्यूहत्रयात् परवासुदेवस्य वैलक्षण्याविष्करणम् व्यूहत्रयस्य भवति कालेन कलनं सदा || ५३-११ || भगवान् वासुदेवस्तु न व्यूहेनापि कालवान् | व्यूहत्रयमपेक्ष्यैव कालव्यूहनिरूपणम् || ५३-१२ || कालेनामानतश्चायममितद्युतिरुच्यते | पुण्डरीकाक्षशब्दस्य भगवति नित्यविभूतियोगप्रतिपादकत्वम् पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् || ५३-१३ || तस्मिन्निवसनान्नित्यं पुण्डरीकाक्ष उच्यते | तस्यैव स्वमहिमप्रतिष्ठितत्वप्रतिपादकत्वम् पुण्डरीकं परं धाम स्व एव महिमोज्ज्वलः || ५३-१४ || स्वे महिम्नि स्थितो देवः पुण्डरीकाक्ष उच्यते | वासुदेवस्ततः प्रोक्तः पुण्डरीकाक्षसंज्ञया || ५३-१५ || पुण्डरीकाक्षशब्दस्य सूक्ष्मार्थः सोऽयमीरितः | परार्थनिरूपणारम्भः पुण्डरीकाक्ष इत्यस्य परमर्थं निशामय || ५३-१६ || पकारार्थनिरूपणम् (१) रागादिदोषनिर्मुक्तः पवित्रं परमं हरिः | ______________ १ अत्रेदं बोध्यम्- पकारः, उकारः, णकारः, डकारः, रीकारः, ककारः, आकारः, क्षकारः, इत्येवं पुण्डरीकाक्षशब्दस्थान् वर्णानष्टधा विभज्य तेषामप्रमेयादिभावसंसिद्धः परसंज्ञोऽर्थो रागादीत्युपक्रम्य सार्धश्लोकचतुष्टयेन क्रमात् प्रदर्श्यत इति | ______________ प्. ५३१) उकारार्थनिरूपणम् नित्योदितस्वरूपत्वादुद्दाम उदयः स्मृतः || ५३-१७ || णकारार्थनिरूपणम् व्यूहत्रितयपूर्वत्वात् प्रधानः परिपठ्यते | डकारार्थनिरूपणम् शुद्धाशुद्धाध्वसंप्राप्तेः संस्मृतोऽखण्डविक्रमः || ५३-१८ || ईकारशिरस्करेफार्थनिरूपणम् संकर्षणादिभूम्यन्तमशेषभुवनं यतः | बिभर्त्याधारभावेन व्याप्नोत्यन्तश्च तत् स्वयम् || ५३-१९ || आकारसहितककारार्थनिरूपणम् आनन्दो नैरपेक्ष्येण परा च प्रकृतिः स्वयम् | क्षकारार्थनिरूपणम् शुद्धाशुद्धमयस्यास्य चेतनाचेतनात्मनः || ५३-२० || वर्गस्यान्तः परा सीमा वर्गान्तः परिपठ्यते | पुण्डरीकाक्षशब्दार्थस्य चिरकालादपि कार्त्स्न्येन वक्तुमशक्यत्वम् इति वर्णमयी रीतिः पराख्या ते प्रदर्शिता || ५३-२१ || वर्षायुतैरपि व्यक्तं न शक्या वक्तुमञ्जसा | प्. ५३२) मन्त्रद्वितीयपादस्थूलार्थनिरूपणम् विश्वभावनसंज्ञेयं संकर्षश्रीसमीरणी || ५३-२२ || क्रियाकारकसंसर्गजन्यः स्थूलो निरूपितः | सूक्ष्मार्थनिरूपणम् सूक्ष्ममर्थमिदानीं तु गदतो मे निशामय || ५३-२३ || विश्वभावनशब्दस्य सर्वकारणपरत्वम् चेतनाचेतनाकारं विश्वं प्रद्युम्नपूर्वकम् | भावयन्ननिशं देवः कथितो विश्वभावनः || ५३-२४ || कारणत्वोपयोगिसर्वज्ञत्वपरत्वम् विश्वं भावयति व्यक्तं जानात्येव यथार्थतः | विश्वभावन उद्दिष्टः सर्वज्ञः शब्दवित्तमैः || ५३-२५ || संकर्षणाख्यद्वितीयव्यूहपरत्वम् अनिशं बिभ्रतं प्राप्य विश्वं भवति वै ततः | विश्वभावन उद्दिष्टो बलदेवो महाबलः || ५३-२६ || सर्वशेषिपरत्वम् अनाथमभवद्विश्वं नाथो भावयति स्वयम् | तस्मिन्नुदितमात्रे वै विश्वं यद्भवति स्वयम् || ५३-२७ || विश्वभावन उद्दिष्टो नाथत्वेन निरीक्षणात् | सर्वाधारपरत्वम् विशालोऽयं यदाधारो विश्वस्य भवने स्वयम् || ५३-२८ || प्. ५३३) तिलकालकवद्विश्वं यस्मात् तत्रावतिष्ठते | विशालाधाररूपेण विशालाक्षो भवेत् स्वयम् || ५३-२९ || विश्वं तद्भावयन् विश्वं विश्वभावन ईर्यते | इति ते लेशतः प्रोक्तः सूक्ष्मोऽर्थो विश्वभावने || ५३-३० || परार्थनिरूपणारम्भः परमर्थमिदानीं त्वं गदतो मे निशामय | इकारशिरस्कवकारार्थनिरूपणम् (१) अमृताधारतस्त्विद्धो वासुदेवादिभूमिकः || ५३-३१ || शकारार्थनिरूपणम् सम्यग्ज्ञानोपदेशेन शंकरः सर्वदेहिनाम् | द्वितीयवकारार्थनिरूपणम् अह्नां वरमहो यस्माद्वराहः परिपठ्यते || ५३-३२ || अहः संकर्षणः प्रोक्तो वासुदेवस्य तत्त्वतः | आकारसहितभकारार्थनिरूपणम् सिद्धिदः सर्वभूतानां देवानामादिरेव च || ५३-३३ || ______________ १ इयमत्र योजना- इकारशिरस्कः प्रथमवकारः, शकारः, द्वितीयवकारः, भकारः, आकारः, तृतीयवकारः, नकारः, इत्येवं विश्वभावनशब्दस्थान् वर्णान् सप्तधा विभज्य तेषामप्रमेयादिभावसंसिद्धः परसंज्ञोऽर्थः अमृताधारत इत्यादिना सार्धश्लोकपञ्चकेन क्रमात् प्रदर्श्यत इति | _________________ प्. ५३४) भकारविवक्षितसिद्धिप्रदत्वोपपादनम् तत्तत्सच्छास्त्रसंभूतशुक्लकर्मोपजोषणः | सिद्धिं ददाति जीवानामतः सिद्धिद उच्यते || ५३-३४ || आकारविवक्षितयोरादित्वदेवत्वयोरुपपादनम् आदिभूतः स देवानां सव्यूहविभवात्मनाम् | आदिश्च दीव्यति व्यक्तमादिदेवः स उच्यते || ५३-३५ || तृतीयवकारनकारार्थनिरूपणम् आवृणोति तमः सर्वं विवृणोति तदक्षरम् | वरुणः सोऽप्रमेयस्थः स च पन्थाः स्मृतो बुधैः || ५३-३६ || विश्वभावन इत्येवमर्थो वर्णमयः परः | मन्त्रतृतीयपादस्थूलार्थस्य पूर्वनिरूपितत्वसूचनम् हृषीकेशपदार्थं तु ब्रुवतो मे निशामय || ५३-३७ || क्रियाकारकसंसर्गजन्योऽर्थः पूर्वमीरितः | सूक्ष्मार्थनिरूपणम् यः प्रातिपादिकार्थस्तं सूक्ष्ममद्य निशामय || ५३-३८ || हृषीकेशपदस्य सप्तधा अर्थवर्णने प्रथमं ज्ञानोत्तेजकत्वपरत्वकथनम् प्रद्योतयति विद्यायास्तमो हत्वा मधुं रिपुम् | प्. ५३५) भगवद्भावितं रूपं सत्सत्त्वप्रतिपादकम् || ५३-३९ || हृषीकेशत्वमीशस्य तदेव गदितं बुधैः | ज्ञाननिर्मलीकरणद्वारा हर्षहेतुत्वपरत्वेन प्रद्युम्नाख्यव्यूहपरत्वम् हर्षयत्यमलीकृत्य विद्यामीश इतीदृशम् || ५३-४० || हृषीकेशत्वमेतद्धि प्रद्युम्नत्वमुदीर्यते | ज्ञानेन्द्रियनियामकपरत्वम् ज्ञानेन्द्रियं हृषीकं स्यात् तस्य सोऽन्तर्नियामकः || ५३-४१ || हृषीकेशत्वमेतद्धि प्रद्युम्नस्य निगद्यते | जगन्मयपरत्वम् हृषीका विषयाः प्रोक्ताः प्रकृतिप्राकृतात्मकाः || ५३-४२ || हर्षयन्ति हि ते जीवांस्तेषामीशो जगद्गुरुः | जगन्मयत्वमेतद्धि तन्मयत्वसमीरणात् || ५३-४३ || सृष्ट्यादिरूपक्रीडाहेतुकहर्षाश्रयदेवपरत्वम् क्रीडया हृष्यति व्यक्तमीशस्तत्सृष्टिरूपया | हृषीकेशत्वमीशस्य देवत्वं चास्य तत् स्फुटम् || ५३-४४ || ऐश्वर्यवीर्यरूपगुणाश्रयपरत्वम् अविकारितया हृष्टो हृषीको वीर्यरूपया | ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि || ५३-४५ || प्. ५३६) ऐश्वर्यवीर्यरूपत्वं हृषीकेशत्वमुच्यते | जगच्छब्दविवक्षितसर्वचेतनशेषित्वपरत्वम् हृषी ज्ञानं समुद्दिष्टं हृषीकाश्चेतनात्मकाः || ५३-४६ || जङ्गमत्वाज्जगद्रूपास्तदीशो जगतां पतिः | इति सूक्ष्मोऽयमुद्दिष्टः स प्रातिपादिकाश्रयः || ५३-४७ || परार्थनिरूपणारम्भः वर्णाश्रयमिदानीं मे परमर्थं निशामय | हकारार्थनिरूपणम् (१) प्राणयत्यखिलं जीवं शुक्लधर्मात्मभावतः || ५३-४८ || ऋकारार्थनिरूपणम् सत्यश्च नामतः सच्च त्यच्च यस्माद्भवत्ययम् | ईकारशिरस्कषकारार्थनिरूपणम् माययाश्चर्ययोगेन भास्करं भरते दिवि || ५३-४९ || एकारशिरस्कककारार्थनिरूपणम् करालां जगतो योनिं घोररूपां तमोमयीम् | ________________ १ अत्रेयं योजना- हकारः, ऋकारः, ईकारशिरस्कः षकारः, एकारशिरस्कः ककारः, शकारः, इत्येवं हृषीकेशपदस्थान् वर्णान् पञ्चधा विभज्य तेषामप्रमेयादिभावसंसिद्धः परसंज्ञोऽर्थः प्राणयतीत्यादिना सार्धश्लोकद्वयेन क्रमात् प्रदर्श्यत इति | ________________ प्. ५३७) शकारार्थनिरूपणम् शमयत्यप्रमेयस्थ इति वर्णाश्रया स्थितिः || ५३-५० || अर्थोऽयं त्रिविधः प्रोक्तो हृषीकेशे महामुने | मन्त्रचतुर्थपादस्य स्थूलार्थनिरूपणम् अर्थं शृणु त्वं त्रिविधं महापुरुषपूर्वजे || ५३-५१ || जितं च इति वाकृष्य आहार्योऽत्र जयेति वा | जितं तेऽथ नमस्तेऽस्तु पदमेतदिहोभयम् || ५३-५२ || अञ्जसा जगतोऽध्यक्षे चेतनाचेतनात्मनः | जयः प्रणामरूपोऽर्थो ह्यनिरुद्धेऽभिधीयते || ५३-५३ || जितं त इति शब्दोऽयमतिस्वामित्वसूचकः | संनिकृष्टो नमस्कारः सर्वोत्कृष्टे कथं भवेत् || ५३-५४ || अत्युच्चो येन रूपेण संनिकर्षमुपैति सः | तद् द्वितीयतृतीयौ द्वाविति तत्र नमस्क्रिया || ५३-५५ || भावद्वयेन भगवाननिरुद्धो जगद्धितः | इति द्योतयितुं तत्र वाच्ये जयनमस्क्रिये || ५३-५६ || क्रियाकारकजन्योऽर्थ इति स्थूलो निरूपितः | सूक्ष्मार्थनिरूपणम् यः प्रातिपदिकस्थोऽर्थस्तं त्वं सूक्ष्मं निशामय || ५३-५७ || प्. ५३८) मकारार्थनिरूपणम् मिमीते विविधं वस्तु क्षेत्रक्षेत्रज्ञतन्मयम् | हाकारार्थनिरूपणम् जिहीते तदशेषं च प्रविशत्यन्तरात्मना || ५३-५८ || महेतिसमुदायार्थनिरूपणम् प्राणयत्यथ तत् सर्वं तत्र तत्र महीयते | महद्भ्यश्च महानित्थं महानिति निरुच्यते || ५३-५९ || पुकारार्थनिरूपणम् पुष्यति स्थितिमाव्यक्ति पुनः पुनरुदेति च | रुशब्दार्थनिरूपणम् रौति शास्त्रं च नानार्थं रूयते तत्तदात्मना || ५३-६० || राति पूजामथादत्ते राति चाराधितः फलम् | षकारार्थनिरूपणम् (१) अन्तं करोति पापानां नाना सभज्यते जनैः || ५३-६१ || पुरुषपदसमुदितार्थनिरूपणम् पुरमोषति कर्मान्ते पुरुभिः सेव्यते तथा | ________________ १ ऽऽषोऽन्तकर्मणिऽऽ ऽऽषण संभक्तौऽऽ इति धातुद्वयमत्र बोध्यम्. _________________ प्. ५३९) पुरि शेते पुरं सौति सत्त्वे पुरुणि सीदति || ५३-६२ || रेफशिरस्कपूकारार्थनिरूपणम् पारयत्यखिलं विश्वं वारयत्यखिलं तमः | वकारजकारार्थनिरूपणम् वनते चाश्रितान् सर्वाञ्जयत्यपि तमोमयम् || ५३-६३ || अजति क्षिपति स्पष्टं द्विषतः क्रूरयोनिषु | पूर्वजशब्दसमुदितार्थनिरूपणम् पूर्व एव पुराणः संस्तत्तद्योनिषु जायते || ५३-६४ || पूर्वजः सर्वदेवानां पूर्वोऽजो यस्य देहजः | अजो हि पुत्रः पूर्वोऽस्य ब्रह्मा प्रथमकल्पितः || ५३-६५ || पूर्वा जीवाः समाख्याताः पुरस्ते (१) वन्वते यतः | स्वेन रूपेण पूर्वांस्तान् प्रादुर्भावयति स्वयम् || ५३-६६ || महापुरुषपदसमुदितार्थनिरूपणम् महत्त्वमनपेक्षत्वं सर्वभावक्रियाविधौ | (२) पुरुषैरविभागो यो महापुरुषतास्य सा || ५३-६७ || एतदेव च तेजस्तत् सैषा शक्तिरुदीरिता | ________________ १ ऽऽवनु याचनेऽ इति धातोः रूपमिदम् २ पुरुषैरविभागे या. ________________ प्. ५४०) एतदेवानिरुद्धत्वं भगवत्त्वमपीदृशम् || ५३-६८ || स्थित्युत्पत्तिलयत्राणहेतुत्वं चैतदीदृशम् | इति ते लेशतः प्रोक्तः सूक्ष्मः प्रतिपदाश्रयः || ५३-६९ || परार्थनिरूपणारम्भः वर्णाश्रयमिदानीं मे परमर्थं निशामय | मकारार्थनिरूपणम् मर्दनः सर्वदुष्टानामप्रमेयपराक्रमः || ५३-७० || हाकारार्थनिरूपणम् अरिभ्यश्च हितो नित्यं गोपनः सर्वदेहिनाम् | व्यक्तः क्रियावतां पन्थास्त्रयीकर्मसमुद्भवः || ५३-७१ || उकारशिरस्कपकारार्थनिरूपणम् पद्मनाभोऽम्बुशायी सन्नुद्दामभुवनोदयः | तादृशरेफार्थनिरूपणम् अशेषभुवनाधारस्तत्तत्कार्योदयस्थितिः || ५३-७२ || षकारपकारार्थनिरूपणम् श्वेतद्वीपे नृसिंहः सन्नग्निरूपो हविर्भुजाम् | भास्करः सर्वदेवानां पवित्रं परमं सताम् || ५३-७३ || ऊकारार्थनिरूपणम् नानाविधानां प्रज्ञानामाधारः कार्यसाधने | द्वितीयरेफार्थनिरूपणम् बलवान् सर्वलोकेशः कल्पान्ते कालपावकः || ५३-७४ || वकारजकारार्थनिरूपणम् वराहो वसुधोद्धारे जन्महन्ता स्मृतः सताम् | अजितो देवदैत्याद्यैर्महापुरुषपूर्वजः || ५३-७५ || इति वर्णाश्रया रीतिर्महापुरुषपूर्वजे | प्रकृतमहामन्त्रतात्पर्यसूचनम् नानाविधमहार्थोऽयं जितन्ताख्यो महामनुः | चक्ररूपं चित्ररूपं वक्ति देवं सनातनम् || ५३-७६ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां जितन्ताख्यमन्त्रार्थनिरूपणं नाम त्रिपञ्चाशोऽध्यायः || ५३ || आदितः श्लोकाः ३४७८ नारसिंहानुष्टुभमन्त्रार्थनिरूपणं नाम चतुष्पञ्चाशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || सप्तभिः श्लोकैर्मन्त्रमाहात्म्यनिरूपणम् अहिर्बुध्न्यः - इति ते लेशतः प्रोक्तो जितन्ताख्यो महामनुः | नारसिंहमिदानीं मे तत्त्वतः शृणु नारद || ५४-१ || मन्त्रस्यास्यैहिकामुष्मिकनानाविधफलसाधनता सर्वाश्चर्यकरः सोऽयं नारसिंहो महामनुः | दिव्यान्तरिक्षभौमानां भोगानामुपपादकः || ५४-२ || आध्यात्मिकादिरूपाणां त्रिविधानां तथापदाम् | निवारणस्तथा रक्षोदैत्यदानवमर्दनः || ५४-३ || संख्ययोगपाञ्चरात्रवेदान्तपाशुपतैरप्यस्यावश्योपजीव्यत्वम् सांख्यानां परमं ज्ञानमिदमेव महामुने | इयं सोपानभूमिः सा योगिनां नियतात्मनाम् || ५४-४ || प्. ५४३) तदेतदयनं ह्येकं सात्त्वतानां महात्मनाम् | एतत् त्रययन्तसर्वस्वमेतत् पाशुपतं मतम् || ५४-५ || सर्वचेतनहितकामनया कल्पादौ संकर्षणेनास्य प्रकाशितत्वम् संकर्षणो जगत्यस्मिन् सृष्टे नानाविधे पुरा | हिताय सर्वजीवानां ज्ञानमेतत् परं जगौ || ५४-६ || ब्रह्मरुद्रादीनामपि महता श्रमेण संकर्षणादेतन्मन्त्रप्राप्तिः तप्त्वा घोरं तपो ब्रह्मा तस्मादधिजगौ पुरा | अधीतवानहं तस्मान्मत्तो दिव्या महर्षयः || ५४-७ || स्थूलार्थनिरूपणे शेषत्वज्ञानपूर्वकमात्मात्मीययोर्भगवति समर्पणनिरुपणम् नमनं नतिरित्युक्तं नीचीभावश्च स स्मृतः | परं प्रत्यात्मनो नीचीभावः शेषत्वमेव हि || ५४-८ || आत्मानं शेषतां नीत्वा नमामीतिपदेन तु | आत्मीयमर्थं तत् तस्मै निवेदयति मन्त्रवित् || ५४-९ || मान्त्रवर्णिकैरुग्रादिपदैः रौद्रादिरसप्रतिपादनम् क्रोधातिशयतो रौद्रो रस उग्र उदीरितः | उत्साहातिशयोत्थायी वीरो वीरपदोदितः || ५४-१० || चतुर्भिरद्भुतैः शब्दैर्महाविष्ण्वादिपूर्वकैः | भयातिशयहेतुत्वाद् भीषणेन भयानकः || ५४-११ || प्. ५४४) रसं वदति शृङ्गारं मन्त्रभद्रपदं मुने | मृत्युमृत्युपदं चापि वदत्यद्भुतभीषणौ || ५४-१२ || अहंपदस्य भगवच्छेषत्वेन रूपेणात्मस्वरूपनिष्कर्षकत्वम् अहमित्यात्मनिष्कर्षो नन्तुर्भागवतात्मना | उग्रादिपदाभिहितानां रौद्रादिरसानां विषयव्यवस्थाप्रदर्शनम् उग्रः शत्रुधिया देवो वीरो देवगणेक्षया || ५४-१३ || महाविष्णुर्ज्वलंश्चैव सर्वतोमुख इत्यपि | नृसिंह इति चाश्चर्यो योगसिद्धजनेक्षया || ५४-१४ || भीषणो देव उद्दिष्टः क्षुद्ररक्षोगणेक्षया | आनन्दवलितापाङ्ग्या लक्ष्म्या भद्रो निरीक्षितः || ५४-१५ || ऋषीणां मृत्युमृत्युः स भीषणाश्चर्ययोगतः | क्रियाकारकसंसर्गजन्योऽर्थः स्थूल ईदृशः || ५४-१६ || सूक्ष्मार्थनिरूपणम् सूक्ष्ममर्थं निबोधेमं यः प्रातिपदिकाश्रयः | उग्रशब्दार्थनिरूपणम् उद्गिरत्यखिलं विश्वमुद्गीर्णं ग्रसति स्वयम् || ५४-१७ || वीरशब्दार्थनिरूपणम् वीरयत्यखिलं भावं विविधं रमयत्यपि | महच्छब्देन त्रिविधपरिच्छेदशून्यत्वस्य बोधनम् प्. ५४५) कालदेशाद्यवच्छेदविरहात् स महान् स्मृतः || ५४-१८ || पुनर्महच्छब्दस्य नवधा निर्वचनप्रदर्शनम् (१) महीयतेर्मेहतेर्वा मुह्यतेरथवा मिहेः | मनुतेः सजहातेर्वा मां जिहीतेऽथवा महान् || ५४-१९ || मात्यस्मिन्नथ वा विश्वं न जहात्यपि वै जगत् | यथाक्रमं तेषामुपपादनम् महीयते परे व्योम्नि महानिति निरुच्यते || ५४-२० || मेहतिर्दानकर्मायं महान् मेहत्यभीप्सितम् | मोहयत्यात्मचेष्टाभिरिति देवो महान् स्मृतः || ५४-२१ || स्वं मेहत्यप्सु वै वीर्यमण्डत्वेनेति वै महान् | मनुते नित्ययोगेन स्वेन ज्ञानात्मना महान् || ५४-२२ || जहाति विविधान् भावान् षड् भावा इति यान् विदुः | मेति लक्ष्मीर्मता देवी तां जिहीतेऽभिगच्छति || ५४-२३ || दिव्यं नित्यपरिष्वक्तं मिथुनं तन्महानतः | _________________ १ अत्रैते सप्त धातवो विवक्षिता बोध्याः- मह पूजायाम् भ्वादि मिह सेचने भ्वादिः; मुह वैचित्त्ये दिवादिः; मनु अवबोधने तनादिः; ओहाक् त्यागे जुहोत्यादिः; ओहाङ् गतौ जुहोत्यादिः; मा मने अददिः; इति | अत्र मिह सेचने इत्यत्र सेचनं मिश्रीकरणम् | तेन मेहतिर्दानकर्मायं इति ग्रन्थोपपत्तिः | यद्यपि नवविधनिर्वचनोपयोगितया नव धातवोऽपेक्षिताः, तथापि मिहधातोर्हाङधातोश्च तात्पर्यभेदेन वारद्वयमावृत्तत्वान्नवसंख्यापूरणं बोध्यम् | _________________ प्. ५४६) मात्यस्मिन्निखिलेनेदं कुण्डे बदरवज्जगत् || ५४-२४ || न जहाति बहिर्भूतस्तच्च देहे महानतः | विष्णुशब्दार्थनिरूपणम् (१) विविनक्ति जगत्यस्मिन् सच्चासच्च विचेष्टते || ५४-२५ || (२) वेवेष्टि निखिलान् भोगान् यच्छति प्राणिनां स्वयम् | आयत्तैः सकलैर्जीवैः प्रणौत्यन्तः स्वरात्मना || ५४-२६ || इति शब्दार्थतत्त्वज्ञा विष्णुं देवं प्रचक्षते | महाविष्णुपदसंपिण्डितार्थनिरूपणम् महान् विशति संसारे जायमानो यतो महान् || ५४-२७ || महाविष्णुमतो धीरा देवमेनं प्रचक्षते | ज्वलच्छब्दार्थनिरूपणम् हृदये योगिनां नित्यं सूरीणां परमे पदे || ५४-२८ || वितानेषु च विप्राणां यतो ज्वलति वै स्वयम् | सूर्याचन्द्रमसौ वह्निरिति तेजस्त्रयं परम् || ५४-२९ || आविश्य ज्वलयत्यन्तरवतीर्णो ज्वलत्यपि | ज्ञानात्मना स्वरूपेण ज्वलत्येको जगद् ग्रसन् || ५४-३० || इति ज्वलन्तमाहुस्तं सर्वतो (३) हरिमेधसम् | __________________ १ विचिर् पृथग्भावे इति धातुः २ विषॢ व्याप्तौ इति धातुः ३ आश्रितदुरितानि हरन्ती मेधा संकल्पो यस्य स हरिमेधाः; स्वप्राप्तिप्रतिबन्धकस्वाश्रितदुरितविनाशविषयकामोघसंकल्प- विशिष्ट इत्यर्थः | ___________________ प्. ५४७) सर्वतोमुखशब्दार्थनिरूपणम् मुखं शक्तिः समुद्दिष्टा सर्वतो यस्य सा स्थिता || ५४-३१ || सर्वतोमुखमाहुस्तं सर्वशक्तिं सनातनम् | नृसिंहशब्दाथनिरूपणम् नराणां बन्धनं हन्ति हिनस्तीति नृसिंहता || ५४-३२ || भीषणशब्दार्थनिरूपणम् भियं सनोति दुष्टानां भीषणस्तेन शब्द्यते | भद्रशब्दार्थनिरूपणम् भां ददाति रवौ भद्रां भावं द्रावयते सताम् || ५४-३३ || भवं द्रावयते घोरं संसारं तापसंततम् | मृत्युमृत्युशब्दार्थनिरूपणम् मृत्युरज्ञानमुद्दिष्टं मृत्युः प्राणापहारकः || ५४-३४ || मृत्युः संसार उद्दिष्टस्तेषां मृत्युर्यतो हरिः | प्रथममृत्युशब्दस्याज्ञानादित्रयपरत्वे निर्वचनप्रदर्शनम् मतिं त्यजत्यनेनेति मृत्युरज्ञानमुच्यते || ५४-३५ || मृतिं तनोति जन्तूनामिति मृत्युरिति स्थितिः | मृतिसंतानरूपत्वान्मृत्युः संसार उच्यते || ५४-३६ || द्वितीयमृत्युशब्दस्य प्रथममृत्युशब्दोदिताज्ञानादित्रयनाशकत्वपरत्वम् प्. ५४८) नाशकत्वमिहोद्दिष्टं मितमुत्तरमृत्युना | अहंशब्दस्य चतुर्धार्थवर्णनम् अं जिहीते हरिं याति स्वरूपेणेह तादृशः || ५४-३७ || पूर्णानन्दस्वरूपो हि चेतनो निखिलो यतः | अहीनश्चाप्ययं सर्वैर्ज्ञानशक्त्यादिभिः स्वतः || ५४-३८ || अह्ना वाप्यमितोऽयं स्यात् कालातीतो यतोऽखिलः | अह्नि वा माति जीवोऽयमहमर्थः स उच्यते || ५४-३९ || अहः संकर्षणो ज्ञेयस्तस्मिञ्जीवोऽखिलः स्थितः | सांख्यमार्गेण मन्त्रार्थं प्रदर्शयितुमुग्रभीषणशब्दतात्पर्यार्थनिरूपणम् उग्रभीषणशब्दाभ्यां प्रोच्यतेऽव्यक्तरूपता || ५४-४० || उग्रमत्यन्तघोरं यद्भीषणं भयदायि च | अव्यक्तं तत् परिज्ञेयं भगवद्रूपमेव हि || ५४-४१ || ज्वलच्छब्दतात्पर्यार्थनिरूपणम् ज्वलन्तमिति शब्देन प्रोच्यते जीवरूपता | चैतन्यं ज्वलनं प्रोक्तं तत्कर्ता चेतनो ज्वलन् || ५४-४२ || ज्वलन्नित्युच्यते सोऽयमसमाप्तविदिक्रियः | सर्वतः प्रकृतिं दृष्ट्वा दोषांश्चैव तदुद्भवान् || ५४-४३ || विरक्तः सर्वथा तत्र यदा वेत्ति परं हरिम् | तदा समाप्यते तस्य वेत्तुः सर्वा विदिक्रिया || ५४-४४ || प्. ५४९) अतः प्रकृतिनिर्मग्नो बुध्यमानो य ईर्यते | संसारी स ज्वलन् सोऽपि भगवानिति भण्यते || ५४-४५ || वीरशब्दतात्पर्यार्थनिरूपणम् विविधं प्रेरयत्येतच्चेतनाचेतनं जगत् | यः कालो भगवद्रूपं वीरशब्देन स स्मृतः || ५४-४६ || महाविष्णुशब्दतात्पर्यार्थनिरूपणम् तत्तत्त्वत्रितयव्याप्तिर्विष्णुशब्देन भण्यते | व्याप्तौ तत्राप्यलिप्तत्वं तस्माच्चाधिकता च या || ५४-४७ || महा महत्त्वं पूज्यत्वं महच्छब्देन वर्ण्यते | सर्वतोमुखशब्दतात्पर्यार्थनिरूपणम् सर्वतोमुखशब्देन प्रोच्यते सर्वशक्तिता || ५४-४८ || सर्वज्ञता च देवस्य सर्वकर्तृत्वमेव च | भद्रशब्दतात्पर्यार्थनिरूपणम् भद्रशब्देन देवस्य नित्यनिर्दोषतोच्यते || ५४-४९ || नृसिंहशब्दतात्पर्यार्थनिरूपणम् तथा नृसिंहशब्देन पुरुषोत्तमतोच्यते | मृत्युमृत्युशब्दतात्पर्यार्थनिरूपणम् प्. ५५०) मोक्षप्रदत्वमेतस्य मृत्युमृत्युसमीरणात् || ५४-५० || अहंशब्दतात्पर्यार्थनिरूपणम् प्रसंख्यानेन या सिद्धा सिद्धिः कालेन भूयसा | प्रकृत्युत्तरता साक्षात् साहंशब्देन वर्ण्यते || ५४-५१ || हिनस्ति गच्छतीत्यादिः प्राकृती याखिला क्रिया | तत्कर्तृवाची हंशब्दस्तदन्योऽहंपदोदितः || ५४-५२ || निरुपाध्यवमर्शोऽयं देहप्राणात्यये स्थितः | अहमित्यास्पदं याति स जीवो निरुपस्कृतः || ५४-५३ || नमामिशब्दतात्पर्यार्थनिरूपणम् प्रसंख्यायेत्थमात्मानं प्रह्वीभवति यत् स्वयम् | नद्या इवाम्बुधौ देवे प्रह्वीभावो निमग्नता || ५४-५४ || इति ते सांख्यमार्गस्थो मान्त्रोऽर्थः सूक्ष्म ईरितः | तत्प्रसंख्यानतत्त्वज्ञा विशन्ति प्रुषोत्तमम् | योगमार्गस्थितं तस्य मत्तो रूपं निशामय || ५४-५५ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम चतुष्पञ्चाशोऽध्यायः || ५४ || आदितः श्लोकाः ३५३३ नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम पञ्चपञ्चाशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || योगमतानुसारेण मन्त्रार्थनिरूपणप्रतिज्ञा अहिर्बुध्न्यः - निर्ब्रुवन्ति यथा योगा मन्त्रमेतं विचक्षणाः | तथा वाच्यस्तव मुने तन्मे निगदतः शृणु || ५५-१ || उग्रशब्दार्थनिरूपणम् उद्गतः क्रुध इत्येवमुग्रः करणरोधनात् | वीरशब्दार्थनिरूपणम् विवृता येन विजिता ईरा देहस्थवायवः || ५५-२ || स वीर उदितो योगैस्तन्त्रविज्ञानपारगैः | ज्वलच्छब्दार्थनिरूपणम् जितेन्द्रियो जितश्वासो योऽन्तर्ज्वलति सर्वतः || ५५-३ || ५५२) अनिन्द्रियव्यवच्छेदात् सर्वतः प्रसृतो ज्वलन् | सर्वतोमुखशब्दार्थनिरूपणम् सर्वतोमुख उद्दिष्टः सर्वज्ञानमयो हरिः || ५५-४ || भीषणशब्दार्थनिरूपणम् भा सम्यग्ज्ञानमुद्दिष्टं तस्याः प्रेरणमीषणम् | भेषणो भीषणः प्रोक्तो भगवान् विश्वभावनः || ५५-५ || महाविष्णुनृसिंहभद्रमृत्युमृत्युशब्दार्थस्य पूर्वोक्तत्वसूचनम् महाविष्णुनृसिंहौ च मृत्युमृत्युश्च पूर्ववत् | संपिण्डितवाक्यार्थनिरूपणम् जितेन्द्रियसमीराद्यं जीवरूपं व्यवस्थितम् || ५५-६ || व्यापिनं महनीयं च धियां सम्यक् प्रचोदकम् | संसारमोचकं चैव यं विदुः पुरुषोत्तमम् || ५५-७ || नमामि तमहं देवमिति योगानुशासनम् | पाशुपतमतानुसारेण मन्त्रार्थनिरूपणे उग्रशब्दार्थनिरूपणम् उग्रव्रतसमाराध्य उग्रशब्देन वर्ण्यते || ५५-८ || वीरशब्दार्थनिरूपणम् तत्पारयितृवन्द्यत्वं वीरशब्देन वर्ण्यते | सर्वतोमुखशब्दार्थनिरूपणम् प्. ५५३) मलत्रयप्रागभावः सर्वतोमुखशब्दितः || ५५-९ || ज्वलच्छब्दार्थनिरूपणम् सविद्घनत्वमाद्यस्य ज्वलच्छब्देन वर्ण्यते | भीषणशब्दार्थनिरूपणम् अर्थपञ्चकरूपस्तु पाशो भीशब्ददर्शितः || ५५-१० || भियं स्यति द्यति स्पष्टं पाशं छिन्त्ते पशोरिति | पशुपाशच्छिदं वक्ति शब्दो भीषण इत्ययम् || ५५-११ || मृत्युमृत्युशब्दार्थनिरूपणम् शिवंकरत्वमीशस्य मृत्युमृत्युपदोदितम् | पदान्तरार्थस्य पूर्वप्रदर्शितत्वसूचनम् महाविष्णुर्नृसिंहश्च पूर्वमेव प्रदर्शितौ || ५५-१२ || संपिण्डितवाक्यार्थनिरूपणम् उग्रव्रतप्रियं नित्यमुग्रव्रतपरार्चितम् | मलत्रयापरामृष्टं चिद्घनं पाशभेदिनम् || ५५-१३ || शिवं वदन्ति यं विष्णुं महान्तं पुरुषोत्तमम् | नमाम्यहं तमित्येवमर्थः पाशुपते स्मृतः || ५५-१४ || प्. ५५४) त्रययन्तमतानुसार्यर्थस्य पूर्वनिरूपितत्वसूचनम् त्रययन्तपदवीवेद्यः पूर्वमेव (१) निरूपितः | सात्त्वतमतेन मन्त्रार्थनिरूपणम् अर्थं सात्त्वतसंवेद्यमप्रमत्तोऽवधारय || ५५-१५ || उग्रशब्दस्य संकर्षणाख्यव्यूहपरत्वम् उद्गिरत्यमलं शास्त्रमुद्गीर्य रमयत्यपि | गिरत्यन्ते च तच्छास्त्रमुग्रः संकर्षणः स्मृतः || ५५-१६ || वीरशब्दस्य प्रद्युम्नाख्यव्यूहपरत्वम् विना कृत्वा प्रेरयति रजसा तमसा त्रयीम् | वीरां करोति तां विद्यां वैद्यमानवसर्गयोः || ५५-१७ || वीरयत्यपि चात्मानं तमोमधुनिघातने | व्यापारयति शास्त्रार्थानुष्ठाने कर्म निर्मलम् || ५५-१८ || अतो वीरं वदन्त्याद्यं प्रद्युम्नं पुरुषोत्तमम् | महाविष्णुशब्दस्यानिरुद्धाख्यव्यूहपरत्वम् महान् भवति चेष्टाभिरनिरुद्धश्च सर्वतः || ५५-१९ || एकत्रिचतुरीहाभिस्ते पूर्वे मितवृत्तयः | कार्यस्य च मितत्वेन तेषां शक्तिर्निरोधिता || ५५-२० || _________________ १ पूर्वाध्याये सप्तदशश्लोकमारभ्य चत्वारिंशश्लोकपूर्वार्धान्तैः सार्धत्रयोविंशत्या श्लोकैर्निरूपित इति बोध्यम् | _________________ प्. ५५५) आम्नायन्तेऽनिरुद्धे तु चेष्टाः संख्यानवर्जिताः | कार्याण्यपरिमेयानि सृष्टिस्थित्यादिकानि तु || ५५-२१ || शक्तिस्तद्विषया या तु या व्याप्तिर्विष्णुता च सा | सा चानिरुद्धता तस्य तुर्यव्यूहस्य शार्ङ्गिणः || ५५-२२ || महाविष्णुस्ततः प्रोक्तः सोऽनिरुद्धो विचक्षणैः | ज्वलच्छब्दस्य रामकृष्णादिविभवपरत्वम् विकासो ज्वलनं प्रोक्तं तस्य ब्रह्माण्डमध्यतः || ५५-२३ || यद्वदन्त्यवतारं तु वैभवं हरिमेधसः | सर्वतोमुखशब्देनावताराणां सौलभ्यकाष्ठाभूमिभूतनानायोनित्वस्य बोधनम् सर्वतोमुखशब्देन नानायोनिनिवेशनम् || ५५-२४ || भद्रशब्दस्यावतारदशायामपि हेयसंबन्धराहित्यपरत्वम् भद्रत्वं तत्र तस्यापि ह्यजहत्स्वस्वभावता | भीषणशब्दस्य मोक्षप्रदत्वपरत्वम् भियः संसारबन्धस्य (१) सानं भीषणता मता || ५५-२५ || सा सप्रकारविज्ञानमात्रलभ्योपदिश्यते | __________________ १ षोऽन्तकर्मणि इति धातुः __________________ प्. ५५६) मृत्युमृत्युशब्देन भद्रशब्दोदितस्य हेयप्रतिभटत्वस्य बोधनम् हेयप्रत्यर्थिता या सा ब्रह्मणः सार्वकालिकी || ५५-२६ || स्वाभाविकी च सा प्रोक्ता मृत्युमृत्युपदेन तु | नृसिंहशब्दस्य द्विविधव्याप्तिपरत्वम् नॄनात्मनोऽनुबध्यान्तर्हित्वैनान् परितोऽपि च || ५५-२७ || या स्थितिस्तस्य देवस्य पुरुषोत्तमताह्वया | सोक्ता नृसिंहशब्देन सैषा वाक्यार्थ उच्यते || ५५-२८ || संकर्षणादिरूपेण व्यूह्यात्मानं त्रिधा स्थितः | तत्तदाश्रितकार्याय यो विभुः सर्वतोमुखः || ५५-२९ || नानाविभवरूपेण ज्वलत्यन्तर्भवोदरे | एवं ज्वलन् भवत्येव भद्रो भद्रतरस्तथा || ५५-३० || एवं विज्ञातमात्रो यो भीषणो बन्धनाशकृत् | मृत्योर्हेयस्वरूपस्य मृत्युः प्रतिभटो यतः || ५५-३१ || तमहं व्यूहविभवविज्ञानसुलभं नृणाम् | अन्तर्बहिरिदं व्याप्य तिष्ठन्तं पुरुषोत्तमम् || ५५-३२ || नृसिंहं करणैः सर्वैरात्मत्वेनानुसंदधे | इति सात्त्वतसिद्धार्थो लेशतस्ते निदर्शितः || ५५-३३ || प्. ५५७) सूक्ष्मो नानाविधोऽर्थो यः (१) परमद्य निशामय | परार्थवर्णने प्रथममुग्रपदस्य संकर्षणाख्यव्यूहपरत्वकथनम् अशेषभुवनाधारः संसारगदनाशनः || ५५-३४ || उद्दाम उदयो विष्णोः संकर्षणसमाह्वयः | उग्रवर्णैः समुद्दिष्ठो वैष्णवः प्रथमोदयः || ५५-३५ || तदुपपादनम् तिलकालकवद्यस्मात् तत्र विश्वं प्रकाशते | दिव्यशास्त्रोपदेशेन गदं ध्वंसयते यतः || ५५-३६ || उद्दामः सोऽप्रतिहतो विष्णोरुदय उज्ज्वलः ___________________ १ इदमत्र रहस्यम्- नारसिंहानुष्टुभमन्त्रस्य परार्थवर्णनं नाम मन्त्रवर्णानामप्रमेयादिभावसंसिद्धव्यूहविभवपरत्व- प्रदर्शनम् | तथा हि- आनुष्टुभे ह्येकादश पदानि | तत्र प्रथमान्तं कर्तृकारकबोधकं चरमं पदम् | उत्तमपुरुषैकवचनान्तं नमनक्रियावाचि दशमम् | अवशिष्टानि नव द्वितीयैकवचनान्तानि पदानि नमिकर्मीभूतवस्तुविशेषबोधनानि | तत्राद्यं पदत्रयं क्रमात् संकर्षणप्रद्युम्नानिरुद्धाख्यव्यूहत्रयपरम् | ज्वलदादिपदषट्कं तु पञ्चमाध्यायावसानप्रतिपादितस्य पद्मनाभादेः पातालशयनान्तस्य विभवानामेकोनचत्वारिंशतो यथासंभवं प्रतिपादकम् | तत्र परमद्य निशामय इत्यादिनाध्यायशेषेण संकर्षणादिव्यूहपरत्वमुग्रवीरमहा- विष्णुशब्दानां प्रदर्श्यते | बहुवक्तव्यत्वात् पृथगध्यायारम्भेण ज्वलदादिपदानां पद्मनाभादिपरत्वमुत्तराध्याये प्रदर्शयिष्यत इति | तत्र अशेषभुवनाधारः इत्यादेः सार्धश्लोकत्रयस्यायमाशयः- उग्रपदस्थैरुकारगकाररेफैर्व्युत्क्रमेण गुणत्रयं विवक्षितम् | रेफेणाशेषभुवनाधारत्वम्, गकारेण संसारगदनाशकत्वम्, उकारेणोद्दामत्वविशेषितमुदयरूपत्वम् | रेफादिभिः स्वपर्यायभूताशेषभुवनाधारादिशब्दान्तराण्युपस्थाप्य तन्मुखेन यथोक्तगुणोपस्थापनसंभवात् | अशेषभुवनाधारादिशब्दानां रेफादिपर्यायत्वं च प्रपञ्चितं सप्तदशे | उदये उद्दामत्वं चाप्रतिहतत्वम् | तथा चाशेषभुवनाधारत्वादिगुणविभूषितोऽप्रतिहतो विष्णोः प्रधमोदयः संकर्षण एव भवतीति स एवोग्रपदावयवैर्वर्णैः समुद्दिष्ट इति | अनयैव दिशा वीरादिपदेष्वप्यर्थगतिरभ्यूह्या | ___________________ प्. ५५८) अत उग्रपदोद्दिष्टो देवः संकर्षणः प्रभुः || ५५-३७ || वीरपदेन प्रद्युम्नव्यूहस्य प्रतिपादनम् अमृताधाररूपश्च मायावांश्च ततोऽनलः | प्रद्युम्नो वीरशब्देन गदितः पुष्करेक्षणः || ५५-३८ || तदुपपादनम् अमृतं भगवद्धर्मस्तस्याधारः समाश्रयः | संपिण्डितवाक्यार्थनिरूपणम् सद्धर्मस्य ह्यधिष्टाता प्रद्युम्नो धर्मसंश्रयः || ५५-३९ || माया ज्ञानं यतो विद्यां संबोधयति मायया | दहत्यनलवच्चैव विद्यादोषं तमोमयम् || ५५-४० || वीरवर्णैरतो देवः प्रद्युम्नः परिकीर्त्यते | महाविष्णुशब्देनानिरुद्धव्यूहस्य संकीर्तनम् कालः प्रधानमाधारस्तयोः प्राणः सदाभवत् || ५५-४१ || गोपनश्च तयोर्नित्यं वृण्वानः सकला गतीः | एधयन् मानवं गर्भं तत्तत्संवत्सरैः क्रमात् || ५५-४२ || अग्निरूपो जगत्यस्मिन् भास्करश्च स्वयं भवन् | भुवनाभयदश्चैव वैकुण्ठोऽविहतं जगत् || ५५-४३ || प्. ५५९) शासिता स्वयमध्यक्षो महाविष्णुर्विवर्णितः | तदुपपादनम् पुष्करं कालरूपेण धत्ते नाभिसमुद्भवम् || ५५-४४ || अन्तःस्थपुरुषं चैव प्रधानं तद्गतं दधत् | कालप्रधानशब्दाभ्यामभेदेनाभिधीयते || ५५-४५ || प्राणयन् कालतः सांख्यकालजीवत्रयीत्रयम् | प्राणवर्णेन निर्दिष्ठो गोपनो गोपनाख्यया || ५५-४६ || कार्याणि गतयः प्रोक्तास्ताश्च वृण्वंश्चिकीर्षया | उक्तो वरुणवर्णेन सा हि तस्यानिरुद्धता || ५५-४७ || गर्भं काल्स्थविद्यायां जीवमन्वष्टकात्मकम् | पुष्णन्नब्दसहस्रेण देव इद्धार्णवर्णितः || ५५-४८ || अग्निसूर्यादिके चैव देवसर्गे हि वैद्यके | तत्तद्देवप्रवेशेन तत्तन्नाम दधत् स्वयम् || ५५-४९ || अन्गिभास्करवर्णेन स्वयं देव उदीर्यते | कालाद्यवनिपर्यन्तं चेतनाचेतनात्मकम् || ५५-५० || भुवनार्णोदितं यत् तद् भुवनाङ्गविचित्रितम् | तस्य दुष्टनिबर्हेण यो ददात्यभयं सदा || ५५-५१ || यश्चाविहत एवासीत् तत्तत्कार्यसमुद्यमे | अनुप्रविश्य भूतानि योऽध्यक्षः संनियच्छति || ५५-५२ || प्. ५६०) एषोऽभयदवैकुण्ठशास्तृवर्णेन वर्ण्यते | इति व्यूहाः समुद्दिष्टा उग्रादित्रितयेन तु | ज्वलदादिनिरूप्योऽर्थो ह्यतः परमुदीर्यते || ५५-५३ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम पञ्चपञ्चाशोऽध्यायः || ५५ || आदितः श्लोकाः ३५८६ नारसिंहानुष्टुभमन्त्रार्थनिरूपणं नाम षट्पञ्चाशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || ज्वलदादिपदानां पद्मनाभाद्येकोनचत्वारिंशदवतारपरत्ववर्णनम् अहिर्बुध्न्यः- वैभवं देवताचक्रं ज्वलदाद्यर्णवर्णितम् | यथा तद्वर्ण्यते तैस्तैस्तथा तदवधारय || ५६-१ || ज्वलत्पदविवक्षितेष्वेकादशस्ववतारेषु (१) जकारस्य पद्मनाभाख्यप्रथमावतारपरत्वम् (२) अवतारो हि यो विष्णोः पद्मनाभो महोदयः | अजितः कुत्रचित् कैश्चित् सोऽजितार्णेन वर्ण्यते || ५६-२ || वकारस्य कान्तात्मामृतधारकाख्यविंशावतारपरत्वम् अमृताधारवर्णेन कान्तात्मामृतधारकः | __________________ १. अत्रायं तत्तदवतारपरवर्णविभागक्रमः- जकारः, वकारः, वकारोत्तराकारः, लकारः, पुनर्लकारः, पुनश्च लकारः, नकारः, तकारः, पुनस्तकारः, पुनश्च तकारः, अम्प्रत्ययः, इत्येवं ज्वलत्पदावयवैरेकादशभिर्वर्णैः पद्मनाभाद्येकादशावतारविवक्षेति | २. अत्र तत्तदवताराणां तत्तत्संख्यत्वेन परिगणनं पञ्चमाध्यायोक्तक्रममनुरुध्येति ज्ञेयम् | __________________ प्. ५६२) वकारोत्तराकारस्यैकाम्भोनिधिशाययाख्यचतुर्दशावतार- परत्वम् तत्रैवार्णवशायी च वरुणस्थाप्रमेयतः || ५६-३ || लकारस्य शक्त्यात्माख्यचतुर्थावतारपरत्वम् धरेशेन तु शक्तीशो धरा शक्तिर्हि वैष्णवी | तस्यैव संज्ञान्तरमुखेन हरिकृष्णाख्यत्रयस्त्रिंशचतुस्त्रिंशावतारद्वयपरत्वम् विबुधो हरिरुद्दिष्ठः कृष्णस्तु पुरुषेश्वरः || ५६-४ || विबुधाख्येन वर्णेन वर्ण्यते पुरुषेश्वरः | तावुभौ कथितौ देवौ नरनारायणात्मकौ || ५६-५ || नकारस्य धर्माख्यद्वादशावतारपरत्वम् स्वर्गापवर्गयोः पन्था यो हि धर्मः सनातनः | स धरेशोत्तरेणैव पथा देव उदीर्यते || ५६-६ || तकारस्यानन्ताख्यतृतीयावतारपरत्वम् ताललक्ष्मा हि भगवान् योऽनन्तः परिपठ्यते | स देवो धरणीधर्ता कथ्यते ताललक्ष्मणा || ५६-७ || तस्यैव संज्ञान्तरमुखेन कूर्मविद्याधिदेवाख्यपञ्चदशषष्ठावतारद्वयपरत्वम् लोकमालाः स्रजः प्रोक्ताः स्रग्धरः कूर्म उच्यते | विराड् विद्योदिता सद्भिर्वैराजश्च तदीश्वरः || ५६-८ || प्. ५६३) वैराजस्रग्धराख्येन तौ देवौ परिकीर्तितौ | अम्प्रत्ययावयवयोरकारमकारयोः कालनेमिघ्नाख्यद्वाविंशावतारपरत्वम् अप्रमेयनिगीर्णेन कालेन पुरुषोत्तमः || ५६-९ || उच्यते कालनेमिघ्नो यः कालः स दुरासदः | सर्वतोमुखशब्दविवक्षितेषु (१) दशस्ववतारेषु सकारस्य पीयुषहरणाख्याष्टादशावतारपरत्वम् अप्रमेयसमाक्रान्तममृताक्षरमुत्तमम् || ५६-१० || अमृताहरणं वक्ति पुरुषं पुष्करेक्षणम् | तस्यैव संज्ञान्तरमुखेन श्रीपत्याख्यैकोनविंशावतारपरत्वम् अप्रमेयसमाक्रान्ता सैव तृप्तिः सनातनी || ५६-११ || श्रीपतिं वक्ति देवेशं श्रीः सा तृप्तिरुदीरिता | सरेफस्य वकारस्य वराहाख्यषोडशावतारपरत्वम् अशेषभुवनाधारवराहसमुदायतः || ५६-१२ || अशेषभुवनाधारो वराहः परिगीयते | ________________ १ अत्रायं वर्णविभागक्रमः- सकारः, पुनःसकारः, सरेफो वकारः, पुनरकारशिरस्को वकारः, तकारः, ओकारः, पुनरोकारः, पुनश्च मकारशिरस्क ओकारः, उकारपूर्वको मकारशिरस्कः खकारः, पुनः खकारः, इत्येवं सर्वतोमुखशब्दावयवैर्दशभिर्वर्णैः पीयूषहरणाद्यवतारदशकविवक्षेति | ________________ प्. ५६४) अकारशिरस्कस्य तस्यैव वकारस्य संज्ञान्तरमुखेन पातालशयनाख्यैकोनचत्वारिंशावतारपरत्वम् अप्रमेयसमाक्रान्ताद्वरुणादेव चाक्षरात् || ५६-१३ || पातालशायी भगवान् देवदेवो निरुच्यते | तकारस्य वागीश्वराख्यत्रयोदशावतारपरत्वम् स्रग्वाक् प्रोक्ता मुनीन्द्रैः सा सृजती दधती जगत् || ५६-१४ || वागीशः स्रग्धरार्णेन (१) द्वितीयेन निरुच्यते | ओकारस्य त्रिविक्रमाख्यत्रिंशावतारपरत्वम् यः स देवो बलेर्नेता पृथिवीं त्रिर्विचक्रमे || ५६-१५ || हरिर्विक्रमिणा तेन वर्णेन परिगीयते | तस्यैव संज्ञान्तरमुखेन विश्वरूपाख्याष्टमावतारपरत्वम् (२) ओतो देवो हि यो विश्वं रूपेण स्वेन दीव्यता || ५६-१६ || विश्वरूपः स देवोऽसावोतदेवेन वर्ण्यते | तस्यैव मकारशिरस्कस्य संज्ञान्तरमुखेन बडबावक्त्राख्यैकादशावतारपरत्वम् ओदनेन समाक्रान्तो मर्दनो वर्ण उत्तरः || ५६-१७ || वक्त्यौर्वं बडबावक्त्रं देवदेवं जलाशनम् | तदुपपादनम् ओदनं जलमुद्दिष्टमोदनस्य प्रसूर्यतः || ५६-१८ || _______________ १ अत्र द्वितीयत्वं ज्वलत्पदस्थज्ञकारापेक्षया २ ओत इति कर्तरि क्तः _______________ प्. ५६५) जलं मृद्गन् स पानेन देव ओदनमर्दनः | उकारपूर्वकस्य मकारशिरस्कस्य खकारस्य वामनदेहाख्यैकोनत्रिंशावतारपरत्वम् खर्वदेहो हि यो वर्णः सोद्दामोदयमर्दनः || ५६-१९ || वामनं वक्ति सुव्यक्तं याचितारं बलिं भुवम् | तदुपपादनम् उद्दाममुदयं व्याप्तिं स हि मृद्गाति वामनः || ५६-२० || तस्यैव संज्ञान्तरमुखेन वेदविदाख्यसप्तत्रिंशावतारपरत्वम् स एव वर्णो वेदात्मा वक्ति वेदविदं हरिम् | नृसिंहशब्दविवक्षितेषु (१) नवस्ववतारेषु नकारस्य नरनारायणाख्यकत्रिंशद्वात्रिंशावतारद्वयपरत्वम् नरो नारायणश्चैव नरनारायणाक्षरात् || ५६-२१ || ऋकारस्य पारिजातहरणाख्यत्रयोविंशावतारपरत्वम् सत्या यस्य स सत्योऽसौ पारिजातहरो महान् | स सत्यार्णेन कथितः सत्यामङ्कस्थितां वहन् || ५६-२२ || _________________ १ अत्रायं वर्णविभागक्रमः- नकारः, पुनर्नकारः, ऋकारः, मकार-नकार-ऋकार-सकार-रूपवर्णचतुष्टयसमुदायः, इकारः, पुनरिकारः, ङकारः, हकारः, प्रत्ययावयवो मकारः, इत्येवं नृसिंहशब्दावयवैर्नवभिर्वर्णैर्नरनारायणाद्यवतारनवक- विवक्षेति | __________________ प्. ५६६) (१) मकारनकारऋकारसकाररूपवर्णचतुष्टयसमुदा- यस्य राहुजिदाख्यैकविंशावतारपरत्वम् खर्वदेहात् परो यो हि मर्दनः सहितः पथा | अङ्कुशस्तत्परः सोम इति वर्णचतुष्टयात् || ५६-२३ || सोमस्य चरतो मार्गाद्योऽङ्कुशो राहुरुच्यते | तं मर्दयति यो देवो राहुजित् स निरुच्यते || ५६-२४ || इकारस्य परशुरामश्रीरामाख्यपञ्चत्रिंशषट्त्रिंशावतारद्वय- परत्वम् रामद्वयं समुद्दिष्टं रामवर्णेन नारद | (२) ङकारस्य क्रोडात्माख्यदशमावतारपरत्वम् एकदंष्ट्रेण भगवान् क्रोडात्मा परिगीयते || ५६-२५ || हकारस्य विहंगमाख्यनवमावतारपरत्वम् सूर्येण यः सहायाति हंसरूपी जनार्दनः | ________________ १ अयं च मकारो मन्त्रपूर्वार्धचरमावयवभूत आकाङ्क्षासत्तियोग्यताबलादर्थगत्यनुरोधेनात्रानुषक्तः | अत एव मुले खर्वदेहात् परः इति खकारात् परत्वेन मकारोऽयं विशेष्यते | २ इदमत्रावधेयम्-सिंहशब्दस्य हि द्वयी गतिः शब्दानुशासनसिद्धा | यथा- षिच क्षरणे इति धातोः सिंचेः संज्ञायां हनुमौ कश्च इत्यौणादिकानुशासनेन कप्रत्यये नुमागमे धातोरन्त्यस्य चकारस्य हकारादेशे च कृते सिंह इति रूपनिष्पत्तिरित्येका | पृषोदरादेराकृतिगणत्वात् सिंहशब्दस्य तदन्तःपाठमङ्गीकृत्य हिसि हिंसायां इति धातोः पचाद्यचि हकारसकारयोः स्थानव्यत्ययेन सिंह इतिरूपसिद्धिरित्यपरा | तामिमां द्वयीमपि गतिमभ्युपगम्यैतावान् भेदो मन्त्रशास्त्रेषु प्रायः स्वीकृतः, यत् सिंहशब्दावयवस्य अनुस्वारस्य स्थाने कवर्गपञ्चमोच्चारणम् | अतोऽत्र स्वशास्त्रमर्यादामनुरुध्य सिंहशब्दे ङकारस्यैव बुबोधयिषयैकदंष्ट्रशब्दप्रयोग इति | ________________ प्. ५६७) विहंगमः स देवेशः सूर्यवर्णेन वर्ण्यते || ५६-२६ || प्रत्ययावयवस्य मकारस्य कल्क्याख्याष्टात्रिंशावतारपरत्वम् यो मर्दयति कल्क्याख्यो दस्युंस्तिष्ययगुगान्तजान् | सूर्योपरिस्थितेनैव मर्दनेन स गीयते || ५६-२७ || भीषणशब्दविवक्षितेषु (१) चतुर्ष्ववतारेषु भकारस्य ध्रुवाख्यद्वितीयावतारपरत्वम् ध्रुवो देवः समुद्दिष्टो ध्रुवार्णेन महामुने | ईकारस्य न्यग्रोधशायिसंज्ञकसप्तविंशावतारपरत्वम् मायामयं समास्थाय न्यग्रोधदलमुज्ज्वलम् || ५६-२८ || यः शेते कान्तरूपेण स मायावर्णवर्णितः | षकारस्य नरसिंहाख्यसप्तदशावतारपरत्वम् नृसिंहो देवदेवस्तु नृसिंहार्णेन वर्ण्यते || ५६-२९ || णकारस्य मधुसूदनाख्यपञ्चमावतारपरत्वम् मधुं निहत्य यः पूर्वं प्रधानं मर्दनं विधेः | स्वबाहुबलमास्थाय विरिञ्चायाभयं ददौ || ५६-३० || देवो ह्यभयदार्णेन स उक्तो मधुसूदनः | _________________ १ अत्रायं वर्णविभागक्रमः- भकारः, ईकारः, षकारः, णकारः, इत्येवं भीषणशब्दावयवैश्चतुर्भिर्वर्णैर्ध्रुवाद्यवतारचतुष्कविवक्षेति | _________________ प्. ५६८) भद्रशब्दविवक्षितेषु (१) त्रिष्ववतारेषु भकारस्य कपिलाख्यसप्तमावतारपरत्वम् सिद्धिं ददाति यो दिव्यां प्रसंख्यानमयीं पराम् || ५६-३१ || देवः सिद्धिप्रदार्णेन कपिलः स निगद्यते | दकारस्य दत्तात्रेयाख्यषड्विंशावतारपरत्वम् दत्तात्रेयस्तु भगवान् दत्तात्रेयार्णवर्णितः || ५६-३२ || रेफस्य शान्तात्माख्यपञ्चविंशावतारपरत्वम् दोषकालानलत्वेन तद्वर्णेन स ईर्यते | मृत्युमृत्युशब्दविवक्षितेऽवतारद्वये (२) प्रथममृत्युशब्दस्यैकशृङ्गतनुसंज्ञकमत्स्यापरपर्या- याष्टाविंशावतारपरत्वम् कालः कालः समुद्दिष्टः प्रधानं प्रकृतिः परा || ५६-३३ || ऋतधामा पुमांस्तत्स्थो वैराजश्च चतुर्गतिः | भुवनं च दधद् देहे यः शङ्खो मीन ईर्यते || ५६-३४ || एकशृङ्गतनुर्देवो मृत्युवर्णैः स गद्यते | द्वितीयमृत्युशब्दस्य लोकनाथाख्यचतुर्विंशावतारपरत्वम् प्रधानः सत्यरूपश्च वैराजो राजयञ्जगत् || ५६-३५ || चतुर्गतिर्देवदेवो लोकनाथो महाप्रभुः | _________________ १ भद्रशब्दे भकारः, दकारः, रेफः, इति त्रिभिर्वर्णैः कपिलाद्यवतारत्रयविवक्षेति बोध्यम् | २ मृत्युशब्दद्वयेनावतारद्वयविवक्षेति स्पष्टमेव | तदेवं ज्वलत्पदेनैकादशावताराः, सर्वतोमुखशब्देन दश, नृसिंहशब्देन नव, भीषणशब्देन चत्वारः, भद्रशब्देन त्रयः, मृत्युमृत्युशब्देन द्वौ, इति ज्वलदादीनां षण्णां शब्दानामेकोनचत्वारिंशदवतारपरत्वं प्रपञ्चितम् | __________________ प्. ५६९) मृत्युवर्णसमुद्दिष्टः पूर्वस्माद् भुवनादपि || ५६-३६ || इति वर्णाश्रया रीतिः परा ते संप्रदर्शिता | अध्यायशेषेण मन्त्रस्य महिमान्तरनिरूपणम् शृणु मन्त्रस्य माहात्म्यं भूयोऽपि मुनिसत्तम || ५६-३७ || पादशः प्रतिलोमोऽयं वैकुण्ठास्त्रं निगद्यते | अक्षरप्रतिलोमोऽयं स्मृतं नारायणास्त्रकम् || ५६-३८ || स्वराणां प्रतिलोमो यः संहिताशब्दरूपवान् | नारसिंहमहास्त्रं तन्नखक्रकचसंज्ञितम् || ५६-३९ || प्रमित्यपेतो वरुणः कालपावकसंस्थितः | अप्रमेयः पुनस्तादृक् तृतीयाक्षरमीरितम् || ५६-४० || सूक्ष्मस्थः प्रथमः सूक्ष्मः संस्थितः कालपावकः | वरुणः सूक्ष्मयोर्द्वन्द्वं सप्तमाक्षरमीरितम् || ५६-४१ || सूक्ष्मस्थो गोपनः पश्चाद्वरुणो भुवनाश्रयः | वरजादार इत्येतन्नारसिंहास्त्रमीरितम् || ५६-४२ || प्. ५७०) नवाक्षरमिदं श्रेष्ठं तत्र यत् प्रतिलोमजम् | अस्त्रमक्षरशस्तत्तु नारसिंहं महादिकम् || ५६-४३ || तत्र स्वरप्रातिलोम्यादस्त्रं त्वतिमहादिकम् | व्यापकः सामृताधारो गोपनो द्व्यक्षरं तु तत् || ५६-४४ || तत्र स्वरप्रातिलोम्ये गोपनो गोपनः सताम् | सर्वत्र प्रातिलोम्येन यद्यदस्त्रमुदीरितम् | तत्र तत्रानुलोम्येन तत्तच्छान्तिरुदीरिता || ५६-४५ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां नारसिंहानुष्टुभमन्त्रार्थनिरूपणम् नाम षट्पञ्चाशोऽध्यायः || ५६ || आदितः श्लोकाः ३६३१ ज्योतिश्चक्रमन्त्रार्थनिरूपणं नाम सप्तपञ्चाशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || प्रथमं गायत्त्र्यर्थप्रपञ्चने तच्छब्दस्य भगवत्संकल्परूपसुदर्शनपरत्वनिरूपणम् अहिर्बुध्न्यः - यत्तु ज्योतिस्त्रयं पूर्वं ज्योतिश्चक्रे निदर्शितम् (१) | सावित्रं नाम यज्ज्योतिस्तत् सावित्रीसमाह्वयम् || ५७-१ || तस्य व्याख्यामिमां सम्यग् गदतो मे निशामय | संकल्पः कथितो यः स सुदर्शनसमाह्वयः || ५७-२ || या सा भूतिर्महाशक्तेर्वैष्णव्याः कोटिभागजा | शुद्धाशुद्धमयैर्भावैस्तनुते विस्तृणाति ताम् || ५७-३ || प्रतिसंचरवेलायां तामयत्येव तां पुनः | तायते तत्र तत्रैव भूत्यंशे धारकात्मना || ५७-४ || प्रमाणत्वेन भूयश्च तत्तदर्थतया पुनः | ________________ १ त्रयोविंशेऽध्याये चतुश्चत्वारिंशश्लोकस्योत्तरार्धमारम्य एकोनसप्ततिश्लोकपूर्वार्धान्तैः पञ्चविंशत्या श्लोकैर्निदर्शितमिदं ज्योतिश्चक्रम् | ________________ प्. ५७२) अतस्तदिति संकल्पः प्रोच्यते वैष्णवः परः || ५७-५ || सवितृशब्दस्य जगत्कारणत्वभोगमोक्षप्रदत्वादिगुणविशिष्टपरमपुरुषपरत्वम् प्रसौति सकलाश्चेष्टाः प्रसूते सकलं जगत् | अवतेर्गतिकान्त्यर्थात् तरतेर्दानकर्मणः || ५७-६ || गतो ह्यवति सर्वत्र षड्भिः कान्तो गुणैः परः | भोगापवर्गयोर्दाता सवितेति निरुच्यते || ५७-७ || वरेण्यशब्दस्योपास्यत्वपरत्वम् वरैर्नेयं वरेण्यं तु वराः ख्यातार ईरिताः | वरणीयं वरेण्यं वा वरं नयति तत्परम् || ५७-८ || भर्गःशब्दस्य तच्छब्दविवक्षितसुदर्शनगुणविशेषपरत्वम् भर्गस्तेजः समाख्यातं प्रभावः कर्तृरूपता | भरतीदं जगत् कृत्स्नं संभरत्यपि चेश्वरान् || ५७-९ || रमयत्यपि तत् सर्वं राति चार्थमभीप्सितम् | गमयत्यपि तन्नाशं स्यति बन्धमशेषतः || ५७-१० || भर्जयत्यखिलं कष्टं भ्रस्जतेऽनेहसं तथा | अतो भर्गः परं विष्णोः संकल्पं विदुरद्भुतम् || ५७-११ || प्. ५७३) देवशब्दस्य द्योतनत्वादिगुणविशिष्टपरमात्मपरत्वम् द्योतनः सर्वभावानां द्योतमानः स्वयं सदा | अज्ञानमखिलं चान्यच्छोधयत्यखिलं जगत् || ५७-१२ || अतः सकलमेवेदं तत्रौतं मणिसूत्रवत् | इत ईरण ईड्यश्च वनितः सकलं वियत् || ५७-१३ || देव इत्युदितो विष्णु परमात्मा सनातनः | धीमहीत्यस्योपासनात्मकज्ञानविशेषपरत्वम् धीमहीत्यत्र धीर्ज्ञानं मननं भावनं तथा || ५७-१४ || तृतीयपादार्थनिरूपणपूर्वकं गायत्त्र्याः संपिण्डितवाक्यार्थनिरूपणम् धियो धीपूर्विकाश्चेष्टाः प्रेरणं तु प्रचोदनम् | यः सर्वशक्तिः सविता देवं संविन्मयश्च यः || ५७-१५ || यश्च सर्वविदीशानो धियस्तास्ताः प्रचोदयात् | सृष्टिस्थितिलयत्राणक्रियाकारणमव्ययम् || ५७-१६ || तस्य देवस्य संकल्पं भर्गः संज्ञमुपास्महे | गायन्तं त्रायमाणाया गायत्त्र्या अर्थ ईदृशः || ५७-१७ || संक्षेपतो गायत्त्रीमहिमवर्णनम् संध्ययोरुभयोर्युक्तो ब्राह्मण्यं लभते परम् | बहिः सहस्रमभ्यस्ता मासमात्रेण साधिनः || ५७-१८ || प्. ५७४) त्रायते महतः पापात् सर्वस्मादपि चाहंसः | ओंकारपूरिकास्तिस्रो महाव्याहृतयोऽव्ययाः || ५७-१९ || त्रिपदा चेयमित्येतत् त्रितयं पावनं परम् | व्याहृतित्रयस्वरूपनिरूपणपूर्वकं सग्रहेण तदर्थप्रकाशनम् या सत्ता सर्वभूतानां विष्णुशक्तिः परावरा || ५७-२० || सा भूरिति समाख्याता भवतीदं जगत् स्वयम् | भूत्वशक्तिं समास्थाय यावतीदं जगत् स्वयम् || ५७-२१ || सा भुवः कथिता सद्भिरवन्ती भावितं जगत् | वसीयो भोगमोक्षाख्यं सूते या सततं सताम् || ५७-२२ || सा स्रुवः कथिता सद्भिर्व्याहृतिर्वाङ्मयी ततः | गायत्त्रीमन्त्रनिगूढानां ब्रह्मशिरःप्रभृतीनामस्त्राणां दिङ्मात्रपरदर्शनम् पादशो ब्रह्मदण्डास्त्रं प्रतिलोमस्तदित्यृ च || ५७-२३ || अस्त्रं ब्रह्मशिरो नाम पदशः परिगीयते | वर्णशो ब्राह्ममस्त्रं स्यात् तत्स्वरप्रतिलोमजम् || ५७-२४ || सुब्रह्मास्त्रमिति प्रोक्तं सर्वास्त्रविनिर्बर्हणम् | आनन्दो वरुणस्तद्वान्वरुणः सचतुर्गतिः || ५७-२५ || साप्रमेयस्तृतीयः स्याच्छङ्खस्थो व्यापकस्तथा | सानन्दो वरुणश्चैव साप्रमेयश्चतुर्गतिः || ५७-२६ || शाङ्खद्वयं सदा देवमस्त्रं सप्ताक्षरं परम् | प्. ५७५) अतिब्राह्मं समुद्दिष्टमस्य स्वरविलोमजम् || ५७-२७ || आनन्दः केवलस्तत्तु दिव्यमेकाक्षरं स्मृतम् | तदित्यृचोऽस्याः सावित्र्या इयती दर्शिता भिदा || ५७-२८ || जातवेदसे इति त्रिष्टुभोऽर्थनिरूपणे जातवेदःशब्दस्य सोमशब्दस्य चार्थवर्णनम् जातवेदस इत्यस्यास्त्रिष्टुभोऽर्थं निशामय | जातजातं हि यो वेत्ति भूते भूतेऽखिलं सदा || ५७-२९ || जातं स्वभावसंसिद्धं विज्ञानं तस्य सर्वदा | वेदः सत्ता महाशक्तिरानन्दस्पन्दलक्षणा || ५७-३० || प्रादुर्भूता सदा यस्य सा देवी जगतां गतिः | वेदो विचारणं प्रोक्तं विचारो विविधा क्रिया || ५७-३१ || प्रादुर्भूता क्रिया यस्य विष्णोः सा सर्वकर्तृता | सर्वज्ञः सर्वशक्तिश्च सर्वकृत् पुरुषोत्तमः || ५७-३२ || जातवेदाः समुद्दिष्ट आत्मा सोमः समीरितः | स ह्यविद्यावशात् सर्वयोनिस्थः सूयते सदा || ५७-३३ || सुनवामेति पदस्य बद्धात्मनि भगवच्छेषत्वयोग्यतापादनपरत्वम् योग्यतापादनं तस्य प्रोच्यतेऽत्र सुनोतिना | योग्यतापादनस्य प्रकृत्यात्मविवेकरूपतां वक्तुं विवक्षितार्थस्य सोमपदगम्ये दृष्टान्ते शिक्षणम् पृथक्कारो हि सोमस्य स्वरसस्य सुनोतिजः || ५७-३४ || प्. ५७६) रसीभूतेन सोमेन यागः कर्तुं स शक्यते | उपमागर्भ एवायं वाक्यार्थः पूर्वपादजः || ५७-३५ || दृष्टान्ते शिक्षितस्यार्थस्य दार्ष्टान्तिके उपपादनम् सोमं यथाभिषुण्वन्ति ह्यध्वरे जातवेदसे | दित्समानस्तथात्मानमृषिः स्वं परमात्मने || ५७-३६ || देहेन्द्रियमनःप्राणधीगुणेभ्यः स्वरूपतः | विविनक्ति प्रसंख्यानैः साम्यवैषम्यहेतुजैः || ५७-३७ || यथोक्तात्महविर्याजिनः स्वेन रूपेणाभिनिष्पत्तिरूपो गुणाष्टकाविर्भावः फलम् एवं विविच्य दत्त्वास्मै स्मात्मानं जातवेदसे | तत्स्थः स तन्मना भूत्वा स्वेनाथो संविवित्सते || ५७-३८ || भङ्ग्यन्तरेण नमःशब्दार्थस्यैवात्र प्रथमपादे विवक्षितत्वसूचनम् नमःशब्दार्थ एवायं प्रकारान्तरदर्शितः | द्वितीयपादेन परमपुरुषस्य स्वप्राप्तिप्रतिबन्धकप्रकृतिसंबन्ध- रूपबन्धनिवर्तकत्वप्रदर्शनम् अर्थं द्वितीयपादस्य प्रोच्यमानं निबोध मे || ५७-३९ || अरातीयान् स तु प्रोक्तो यो ह्यरातिवदाचरेत् | स च बन्धः समाख्यातो मिथ्याज्ञाननिबन्धनः || ५७-४० || तस्य वेदः स्मृता सत्ता गुणसक्तिरनादिका | प्. ५७७) स्वीकर्तुं स सुतं सोमं जातवेदाः सनातनः || ५७-४१ || तत्प्रतिद्वन्द्विनीं बन्धसत्तां विदहतु स्वयम् | उत्तरार्धे सदृष्टान्तं पूर्वोक्तार्थोपपादनम् बद्ध्वा स नितरां सत्तां गुणसङ्गस्वरूपिणीम् || ५७-४२ || हेयतत्त्वानि दुर्गाणि पारयत्यखिलानि नः | उत्तरार्थगतस्याग्निशब्दस्य परमपुरुषपरत्वसमर्थनम् जातवेदाः स चात्रापि ह्यग्नि शब्देन वर्ण्यते || ५७-४३ || अङ्गीकारं समीपं स्वमागतं निखिलं जगत् | नयत्यात्मानमित्येवमग्निशब्दो निरुच्यते || ५७-४४ || स्वात्मोपसर्पिणं जीवं नेताग्निः स्वं परं पदम् | जातवेदाः स दुर्गाणि पारयत्यखिलानि नः || ५७-४५ || दृष्टान्तपरस्य चतुर्थपादस्य वाक्यार्थवर्णनम् अत्र नावेति दृष्टान्तः सिन्धुर्नाम महोदधिः | तं यथा नाविको नावा नौस्थितं पारयेन्नरम् || ५७-४६ || दुरितादिपदद्वन्द्वात् पारणे दुरितात्ययः | दुरितं गदितं दौःस्थ्यं वातवर्षादिसंभवम् || ५७-४७ || अतीत्यतीत्य दुरिता दिरितानीति वर्णयते | दुरितं वातवर्षाद्यं परिहृत्य यथाखिलम् || ५७-४८ || नाविकः पारयेन्नावा सागरं नौस्थितं नरम् | प्. ५७८) तस्यार्थस्य दार्ष्टान्तिके उपपादनम् एवं स भगवानग्निर्जातवेदा हरिः स्वयम् || ५७-४९ || दुरितं क्लेशसंघातमपवर्गविघातकम् | सर्वं परिहरन् दुर्गं पारयेत् तत्त्वपद्धतिम् || ५७-५० || अत्र नावेति दृष्टान्तादुपायस्थानमेव तु | नरेण कृत्यमन्यत्तु नाविकस्येव तद्धरेः || ५७-५१ || अस्मिन् मन्त्रे निगूढानां पावकाद्यस्त्राणां संक्षेपतः स्वरूपसूचनम् पादशः प्रतिलोमः स पावकास्त्रं निगद्यते | पादशो जातवेदःस्थमाग्नेयं वर्णशस्तु तत् || ५७-५२ || स्वरशः प्रतिलोमोऽयमत्याग्नेयं निगद्यते | चतुर्गतिः साप्रमेयः सोदयोऽथ चतुर्गतिः || ५७-५३ || प्. ५७९) सूक्ष्मद्वयं साप्रमेयं साप्रमेयश्चतुर्गतिः | चतुर्गतिः साप्रमेयो वराहः शङ्ख एव च || ५७-५४ || अप्रमेयश्च पिण्डस्थं त्रमेकीकृतं स्मरेत् | चतुर्गतिः साप्रमेयः सादिदेवश्चतुर्गतिः || ५७-५५ || उत्तरार्थविलोमोऽयमथ पूर्वार्धजं शृणु | आनन्दः केवलः सूक्ष्मद्वययुक् चाप्रमेयतः || ५७-५६ || चतुर्गतिः साप्रमेयो वराहः शङ्ख एव च | अप्रमेयश्च पिण्डस्थं त्रमेकीकृतं स्मरेत् || ५७-५७ || चतुर्गतिः सादिदेवः सानन्दो वरुणस्तथा | चतुर्गतिः सादिदेव इति पूर्वार्धजा स्थितिः || ५७-५८ || हनद्वयं वर्म सास्त्रमग्निजाया तथान्ततः | स्वरशः प्रतिलोमोऽयं स्मृतं पञ्चदशाक्षरम् || ५७-५९ || हनाद्यष्टाक्षरं चान्ते यः स्वरः प्रतिलोमजः | त्र्यक्षरः स तु विज्ञेयो द्विवर्णश्चोर्ध्वभाग्भवेत् || ५७-६० || एकार्णश्चैव पूर्वार्धे तयो रूपे पुनः शृणु | अप्रमेयोऽथ सानन्दो वरुणो द्व्यक्षरो मनुः || ५७-६१ || आनन्द एकः पूर्वार्धे संहत्या यत् त्रिवर्णकम् | तस्यापि प्रतिलोमोऽयमानन्दः केवलः स्मृतः || ५७-६२ || प्रतिलोमाविमौ सर्वशान्तिस्वस्त्ययनात्मकौ | प्. ५८०) इत्येषा त्रिष्टुभो रीतिर्लेशतस्ते निदर्शिता || ५७-६३ || त्रियम्बकम् इत्यनुष्टुभोऽर्थवर्णने त्रियम्बकशब्दस्य ज्ञानशक्तिक्रियान्वितपरमपुरुषपरत्वकथनम् अधुनानुष्टुभो रीतिं शृणु त्वं पावनीं पराम् | इच्छा ज्ञप्तिः क्रिया चेति तिस्रो लोकस्य मातरः || ५७-६४ || तिस्रस्तु यस्य विद्यन्ते जगद्भाविन्य ऊर्जिताः | त्र्यम्बकः स तु विज्ञेयो ज्ञानशक्तिक्रियान्वितः || ५७-६५ || यजामहे इति पदार्थनिरूपणम् यजतिर्द्रव्यसंत्यागः कांचिदुद्दिश्य देवताम् | सुगन्धिशब्दार्थनिरूपणम् शोभनो यस्य गन्धोऽस्ति स सुगन्धिरितीर्यते || ५७-६६ || शोभनं सूचयन् सर्वः सुगन्धिरिति शब्द्यते | यः यष्टु सर्वतत्त्वानि गन्धयत्यात्मतेजसा || ५७-६७ || गन्धयत्यनुवेधेन स्वस्वरूपीकरोति यः | गन्धादीनि पृथिव्यादिभूतान्येवाखिलानि च || ५७-६८ || शोभनं यस्य तिष्ठन्ति वशे देवस्य शासितुः | स सुगन्धिः समाख्यातो ज्ञानात्मा सर्वविद्वशी || ५७-६९ || पुष्टिवर्धनशब्दार्थनिरूपणम् पुष्टिर्भूतिः समाख्याता या सा सदसदात्मिका | प्. ५८१) शक्तिर्विष्णुमयी विष्णोः स तां वर्धयति स्वयम् || ५७-७० || संकल्पेन समुद्भाव्य वितत्य विविधात्मना | संधार्य संनियम्याथ प्रतिसंहरते च ताम् || ५७-७१ || ततोऽसौ भगवान् विष्णुः कथ्यते पुष्टिवर्धनः | वाक्यार्थवर्णनमुखेन पूर्वार्धस्य भगवति स्यात्महविःसमर्पणपरत्वप्रदर्शनम् इच्छाज्ञानक्रियाकारं शोभनाख्यं जगत्प्रियम् || ५७-७२ || स्वाकारज्ञापितैश्वर्यं शुद्धं संविन्मयं परम् | ईशानं सर्वलोकानां पुरुषं पुष्करेक्षणम् || ५७-७३ || देवतां स्वां समुद्दिश्य स्वात्माख्यद्रव्यमुत्तमम् | यजाम इति मन्त्रस्य पूर्वभागार्थ ईदृशः || ५७-७४ || उत्तरार्धस्य वाक्यार्थनिरूपणम् निरुक्तो मृत्युशब्दोऽत्र मृत्युमृत्युनिरूपणे | स्वात्मस्वात्मीयसंन्यासी देवेऽद्य परमात्मनि || ५७-७५ || मृत्योर्मुच्येय संसारान्नानादुःखमहोदधेः | उर्वारुकं यथा पक्वमक्लेशेन स्वबन्धनात् || ५७-७६ || मुच्यते मृत्युतस्तद्वदहं मुच्येय बन्धनात् | संन्यासे स्थैर्यमाशास्ते कृतेऽस्मिन् मामृतादिति || ५७-७७ || अमृताद् ब्रह्मणस्तस्माद्यस्मै मां दत्तवानहम् | जातुचिन्मा स्व मुच्येय क्षेमी भावो भवेन्मम || ५७-७८ || प्. ५८२) प्रपत्तुर्ब्रह्मसाधर्म्यापत्तिलक्षणस्य फलस्य तात्पर्यगत्या मन्त्रे विवक्षितत्वप्रदर्शनम् इत्यर्थोऽनुष्टुभः प्रोक्तो ब्रह्मभावमयः शुभः | ज्योतिस्त्रयं निरुक्तं तु तदिदं छन्दसां त्रयम् || ५७-७९ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां ज्योतिश्चक्रमन्त्रार्थनिरूपणं नाम सप्तपञ्चाशोऽध्यायः || ५७ || आदितः श्लोकाः ३७१० पञ्चहोतृमन्त्रार्थनिरूपणं नाम अष्टपञ्चाशोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || अहिर्बुध्न्यः - (१) दशहोता चतुर्होता पञ्चहोता तथैव च | षड्ढोता सप्तहोता च पञ्च होतार ईरिताः || ५८-१ || __________________ १ अत्रेदमवधेयम्- त्रयोविंशेऽध्याये शतारज्योतिश्चक्रनिरूपणानन्तरं ब्रह्मचक्रं निरूपितम् | तत्रातीतेनाध्यायेन ज्योतिश्चक्रमन्त्राणामर्थ उपवर्णिते क्रमप्राप्तं ब्रह्मचक्रमन्त्रार्थवर्णनमिह प्रस्तूयते | तत्र ब्रह्मचक्रे बहवो मन्त्रा गर्भिताः- सग्रहाः पञ्चहोतारः, संभाराः, देवपत्न्यः, दक्षिणाः, हृदयानि, शतरुद्राणि, इत्येवमादयः | तत्र तैत्तिरीयारण्यकस्य तृतीयप्रपाठके चित्तिः स्रुक् इत्यारभ्य समाम्नाता आद्याः पञ्चानुवाकाः क्रमेण दशहोत्रादिभिः पञ्चभिः शब्दैर्विवक्षिताः,; तेषु यथाक्रमं दशत्वादिसंख्याविशिष्टानां होमसाधनानामभिधानात् | वाग्घोता इति षष्ठोऽनुवाकस्त्वपरः षड्ढोता | यद्यपि सूर्यं ते चक्षुः इति चतुर्थानुवाके होमसाधनानि न प्रतिपाद्यन्ते, तथापीतरेषु चतुर्ष्वपि तत्प्रतिपादनात् सृष्टिन्यायेन बाहुल्यात् तथा व्यवहारः | अत एवोक्तं कविभिरपि- एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः इति | त एते दशहोत्रादयः पञ्चापि चतुर्होतृनामभ्यामभिधीयन्ते | यत्रैतौ शब्दावेकवचनान्तौ, तत्र मुख्यवृत्त्या यथोक्तद्वितीयतृतीयानुवाकमात्रोपस्थापकौ | यत्र तु बहुवचनान्तौ, तत्र लिङ्गसमवायन्यायेन गौण्या वृत्त्या दशहोत्रादिसमुदायोपस्थापकौ | यथा चैवं सति तेनैव न्यायेन दशहोतृषड्ढोतृसप्तहोतृशब्दानामपि समुदायोपस्थाकत्वापत्तौ तेषां तदभावः, चतुर्होतृपञ्चहोतृशब्दयोरेव तद्बोधकत्वम्, तथा तैत्तिरीयब्राह्मणस्य द्वितीयाषट्के द्वितीयतृतीयपाठकयोः प्रपञ्चितं तत एव सुगमम् | तथा तेषामेव मन्त्राणां जगत्सृष्टिहेतुत्वादिना बहुमुखं प्राशस्त्यादिकं, तत्तत्फलसाधनत्वेन तेषां विनियोगभेदादिकं च तत्रैव प्रपञ्चितमिति नेह प्रतन्यते | तत्रैते मन्त्राः प्रत्येकं भागत्रयात्मकाः- होमसाधनप्रतिपादकः पूर्वो भागः उत्तरस्तु स्वाहाकारवियुक्तो ग्रहभागः स्वाहाकारस्तु तृतीयो भाग इति | तत्र पञ्चदशवाक्यात्मके चित्तिः स्रुक् इतिप्रथमानुवाके दश वाक्यानि पूर्वो भागः | उत्तराणि ग्रहभागः | अन्ते स्वाहाकारः | दशवाक्यात्मके पृथिवी होता इति द्वितीयानुवाके वाक्यचतुष्टयात्मकाः पूर्वो भागः | तदन्यो ग्रहः | अन्ते स्वाहाकारः | वाक्याष्टकात्मके अग्निर्होता इति तृतीयानुवाके अर्धं पूर्वो भागः | अर्धं ग्रहः | अन्ते स्वाहाकारः | नववाक्यात्मके सूर्यं ते चक्षुः इति चतुर्थानुवाके वाक्यषट्कं पूर्वो भागः | उत्तरो ग्रहः | अन्ते स्वाहाकारः | त्रयोदशवाक्यात्मके महाहविर्होता इति पञ्चमानुवाकेऽपि वाक्यषट्कमित्यादिः पूर्ववद्विभागः | षष्ठोऽनुवाकश्चतुर्थानुवाकेन तुल्यः | सर्वेष्वेतेषु मन्त्रेषूत्तरभागे ग्रहशब्दप्रवृत्तिनिमितं तु तैत्तिरीयब्राह्मणद्वितीयाष्टकद्वितीयप्रपाठकस्य प्रथमानुवाके प्रजापतिरकामयत प्रजाः सृजेयेति | स एतं दशहोतारमपश्यत् | तं मनसानुद्रुत्य दर्भस्तम्बेऽजुहोत् | ततो वै स प्रजा असृजत | ता अस्मात् सृष्टा अपाक्रामम् | ता ग्रहेणागृह्णात् | तद्ग्रहस्य ग्रहत्वम् | इति निरूपितम् | तत्रायमर्थः- पुरा कदाचित् प्रजापतिः प्रजासृष्टिं कामयमानस्तदुपायं वेदेषु परीक्ष्य दशहोत्राख्यं मन्त्रं साक्षात्कृतवान् | तं च मनसोच्चार्य कुत्रचिद् दर्भस्तम्ब आज्येन जुहाव | ततो होमसामर्थ्यात् कामिताः प्रजाः ससर्ज | सृष्टास्ताः प्रजा अनुरागरहिता अस्मात् प्रजापतेरपसस्रुः | स च प्रजापतिर्यथोक्तग्रहभागपठनलब्धसामर्थ्योऽपक्रान्ताः प्रजाः पुनरगृह्णात् | ततः प्रजाग्रहणसाधनत्वात् ग्रहस्य ग्रहत्वं निष्पन्नमिति | तदिदं दशहोतृमन्त्रान्तर्गते ग्रहभागे ग्रहशब्दस्य प्रवृत्तिनिमित्तम् | उत्तरेषु चतुर्ष्वनुवाकेषु तन्निमित्तं तु यथाक्रमं दर्शपूर्णमासचातुर्मास्यपशुबन्धज्योतिष्टोमग्रहणसाधनत्व- मिति तत्रैव द्वितीयानुवाके प्रपञ्चितं बोध्यम् | तदेवं चतुर्होतृपञ्चहोत्रन्यतरशब्दविवक्षितानामेषां मन्त्राणामापस्तम्बेन प्रयोगव्यवस्था प्रदर्शिता- त इमे चतुर्होतारो यत्र होमार्थाः सग्रहाः सस्वाहाकारास्तत्र प्रयुज्येरन्, यत्राहोमार्थाः अग्रहा अस्वाहाकाराः इत्यादिना | तदत्र ब्रह्मचक्रयन्त्राङ्गत्वेन त्रयोविंशे विनियुक्तानामेषां मन्त्राणामहोमार्थत्वेन ग्रहभागरहितानामेव यन्त्राङ्गत्वे प्राप्ते अस्माच्चक्राद्बहिः पञ्च होतारः सग्रहाः स्मृताः इति तत्रैव ग्रहभागस्य प्रतिप्रसवः कृत इति ग्रहसहितानामेवैषां यन्त्रलेखने विनियोग इति तेषां मन्त्राणामर्थनिरूपणायाष्टपञ्चाशोऽध्याय आरभ्यत इति | __________________ प्. ५८४) विश्वं सिसृक्षतो विष्णोर्यत् तज्ज्ञानमयं तपः | होतृभिः क्रतुरूपेण स संकल्पो निरूप्यते || ५८-२ || प्. ५८५) अद्याप्यवदधानोऽयं योगी तत्तन्निरूपणम् | तांस्तान्निर्वर्तयत्येव क्रतून् ज्ञानमयाञ्छुभान् || ५८-३ || दशहोत्रादिपदविवक्षितमन्त्रविशेषसूचनम् (१) चित्तिः स्रुग्दशहोतायमग्निहोत्रस्य कारणम् | पृथिवीत्यादिको होता चतुर्होता निगद्यते || ५८-४ || (२) दर्शस्य पूर्णमासस्य निदानं स द्वयोरपि | (३) अग्निर्होता पञ्चहोता चातुर्मास्योद्भवस्तु सः || ५८-५ || (४) सूर्यं ते स च गाग्घोता पशुबन्धस्य कारणम् | षड्ढोताराविमौ वेदे निर्णीतौ मुनिसत्तमैः || ५८-६ || (५) (महाहविः सप्तहोता ज्योतिष्टोमस्य कारणम् |) __________________ १ दशहोतृमन्त्रस्याग्निहोत्रकारणत्वे प्रमाणं तु तेनैवोद्द्रुत्याग्निहोत्रं जुहुयात् | प्रजातमेवैनज्जुहोति (तैत्तिरीयब्राह्मणे, २. २. १.) इतीयं श्रुतिः | २ चतुर्होतृमन्त्रस्य दर्शपूर्णमासकारणत्वे प्रमाणं तु प्रजापतिरकामयत दर्शपूर्णमासौ सृजेयेति | स एतं चतुर्होतारमपश्यत् | तं मनसानुद्रुत्याहवनीयेऽजुहोत् | ततो वै स दर्शपूर्णमासावसृजत (तैत्तिरीयब्राह्मणे, २. २. १.) इतीयं श्रुतिः | ३ एवमत्रापि सोऽकामयत चातुर्मास्यानि सृजेयेति | स एतं पञ्चहोतारमपश्यत् | तं मनसानुद्रुत्याहवनीयेऽजुहोत् | ततो वै स चातुर्मास्यान्यसृजत इतीयं श्रुतिस्तत्रैवाम्नाता प्रमाणत्वेनानुसंधेया | ४ तथात्रापि सोऽकामयत पशुबन्ध/सृजेयेति | स एत/षड्ढोतारमपश्यत् | तं मनसानुद्रुत्याहवनीयेऽजुहोत् | ततो वै स पशुबन्धमसृजत इतीयं श्रुतिस्तत्रैवोदाहृता बोध्या | ५ इदमर्धं सर्वमातृकाकोशेष्वनुपलभ्यमानमपि स्वयमनुमाय संनिवेशितमत्र; इतरथा न्यूनत्वप्रसङ्गात् | सप्तहोतृमन्त्रस्य ज्योतिष्टोमकारणत्वे प्रमाणं च सोऽकामयत सौम्यमध्वर/सृजेयेति | स एत/सप्तहोतारमपश्यत् | तं मनसानुद्रुत्याहवनीयेऽजुहोत् | ततो वै सौम्यमध्वरमसृजत इतीयं श्रुतिर्बोध्या | __________________ प्. ५८६) अथोक्तानां मन्त्राणामर्थवर्णनप्रतिज्ञा अथार्थो दशहोत्रादेर्वर्ण्यते शृणु नारद || ५८-७ || प्रथमं दशहोतृमन्त्रार्थनिरूपणे चित्त्यादिपदार्थप्रदर्शनम् चित्तिर्नाम स्मृता बुद्धिर्व्यवसायस्य कारणम् | अहंकारस्तु चित्तं स्यादभिमानस्य कारणम् || ५८-८ || मनो नामेन्द्रियं हेतुः स संकल्पविकल्पयोः | वाङ् नाम व्याहृता वाणी एवमस्त्वितिरूपिणी || ५८-९ || आधीतं नाम वागृत्तिर्यदध्ययनमुच्यते | केतो ज्ञानमिति प्रोक्तमुच्चार्यस्यावधारणम् || ५८-१० || विज्ञातं यत् तदुच्चार्यमवधारणगोचरम् | यत् तद्वागिन्द्रियं प्रोक्तं तद्व्यङ्ग्या या सरस्वती || ५८-११ || सा वाक् तां सुब्रुवन् पाति यः स वाक्यपतिरुच्यते | उच्चारणप्रवृत्तेर्यः प्रयत्नो हेतुरुच्यते || ५८-१२ || स प्राणः साम तत् प्रोक्तं यदुच्चारणसौष्ठवम् | दशहोत्रादिसमाख्यानिमित्तप्रदर्शनम् दशहोत्रादिहोत्राख्या यागोपकरणाभिधा || ५८-१३ || क्रियाभूतिविभेदेन भगवच्छक्तेर्द्वैविध्यम् एकान्तिनो जगद्विष्णोः कुर्वतः शक्तिशालिनः | या शक्तिर्वैष्णवी देवी सर्वभावानुगामिनी || ५८-१४ || प्. ५८७) तदेकांशः क्रिया नाम कृत्योपकरणं हरेः | तदेकांशो विभूत्याख्यो लक्ष्यतेऽत्र जगत्तथा || ५८-१५ || क्रियायाः संकल्परूपत्वं कृत्योपकरणत्वं च संकल्पः प्रोच्यते विष्णोः कृत्योपकरणं क्रिया | संकल्पस्य च निश्चयात्मकमित्यादिरूपत्वम् एवमस्त्विति वाक्यान्तो मित्यादिः स च कथ्यते || ५८-१६ || बुद्ध्यहंकारमनसां वृत्तिः शब्दे विवक्ष्यते | त्रिरूपा मिति रुद्दिष्टा ते स्तब्धो------त्र शब्दितम् || ५८-१७ || चित्त्यादिवाक्योक्तस्रुगादिपदार्थनिरूपणम् बुद्ध्यादिमितिपर्यन्तं वृत्तिमट्वृत्तिरूपकम् | यज्ञे जगद्विधानाख्ये वितते हरिमेधसः || ५८-१८ || स्रुक्तयाज्यतया चोपवक्तृत्वेनाग्निभावतः | उपवक्ता स्मृतो ब्रह्मानुज्ञा प्रवचनं स्मृतम् || ५८-१९ || उच्चार्यत्वेन विज्ञातः शब्दोऽग्निरिति कथ्यते | उच्चारणं यदाधीतं तद्बर्हिरिति गीयते || ५८-२० || तस्य हेतुः प्रयत्नो यः प्राणः स हविरुच्यते | प्. ५८८) वाग् व्याहृता तु वेदिः स्याद्धर्ता होतेति गीयते || ५८-२१ || उच्चारणस्य साम्यं यत् साम सोऽध्वर्युरुच्यते | यथोक्तस्य जगद्विधानाख्यस्य वैष्णवयज्ञस्य ज्ञेयत्वविधिः इत्थं जगद्विधानाख्यो दशोपकरणान्वितः || ५८-२२ || यो यज्ञो वैष्णवो वृत्तस्तमद्यत्वे विचिन्तयेत् | वाक्यं समुच्चरन् किंचिल्लौकिकं वैदिकं तु वा || ५८-२३ || वैष्णवं भावमासाद्य मन्त्रं चेमं विचिन्तयेत् | तात्पर्यार्थनिरूपणमुखेन ग्रहभागस्यात्महविःसमर्पणपरत्वस्फुटीकरणम् वाचस्पते विधे नामन्निति तस्यार्थ उच्यते || ५८-२४ || वाङ् नाम वैष्णवी शक्तिः शब्दब्रह्ममयी परा | वाचस्पतिस्तत्पतिः स्याद् विदधातीति वै विधिः || ५८-२५ || नामयत्यखिलं स्वस्मिन्निति नामाग्निरुच्यते | विधेम भगवन्नाम प्रह्वीभावापराभिधम् || ५८-२६ || त्वं चास्माकं विधेः कुर्या नाम प्रवणचित्तताम् | एतदेव पुनर्वक्ति मुनिः स्वात्मसमर्पणम् || ५८-२७ || भगवत एवात्महविःसमर्पणजन्यफलभागित्वनिरूपणम् वाचस्पतिः स पूर्वोक्तः सोमं सोमरसोपमम् | पिबत्वात्मरसं स्वस्मै मया हुतमिवाध्वरे || ५८-२८ || प्. ५८९) स्वरूपनिरूपकशेषत्वपारतन्त्र्यानुगुणवृत्तिप्रार्थना पीत्वा चास्मासु नृम्णं यत् स्वमाधादादधातु तत् | मननीयं नृभिर्नृम्णं तदनुग्रहरूपकम् || ५८-२९ || आत्महविःसमर्पणस्य स्वार्थत्वशङ्काव्युदासः स्वाहेति स्वात्मसंन्यासः स्वाहुतं तद्भवेदिति | चतुर्होतृमन्त्रेऽपि पूर्वोक्तस्यैव यज्ञस्य भङ्ग्यन्तरेण विवक्षितत्वनिरूपणम् अयमेव च यज्ञोऽत्र चतुर्होतृतयेष्यते || ५८-३० || पृथिवीद्युरुद्रशब्दानां प्रकृतिपुरुषकालपरत्वप्रदर्शनम् जगत्प्रथनरूपा सा पृथिवी प्रकृतिः स्मृता | पुरुषो द्यौरिति प्रोक्तो द्योतते स स्वया चिता || ५८-३१ || रुणद्धि प्रलये तौ द्वौ स्रावयत्युदयेऽपि च | रुद्र इत्युदितः कालः संयोजकवियोजकः || ५८-३२ || बृहस्पप्तिशब्दस्य श्रियः पतित्वपुरस्कारेण भगवत्परत्वम् बृहत् सा शक्तिरुद्दिष्टा यतो बृंहयतेऽखिलम् | बृहस्पतिः पतिस्तस्या देवदेवो जनार्दनः || ५८-३३ || ग्रहभागार्थनिरूपणे वाचोवीर्यशब्दस्य भगवत्कर्तृकसृष्ट्युद्यमपरत्वप्रदर्शनम् वाचो वीर्यं भवेत् प्राणो विष्णोः सृष्ट्युद्यमः परः | प्. ५९०) संभृततमशब्देन सृष्ट्युद्यमस्य सर्वार्थविषयकत्वविवक्षा तत्संभृततमं चैव सर्वार्थविषयत्वतः || ५८-३४ || पूर्वोक्तस्य प्राणस्यैवात्रापि हविष्ट्वविवक्षा प्राणो हविरिति न्यायात् प्राणो हविरिहेष्यते | मन्त्रशेषस्य दास्यमहारसरूपसुखप्रार्थनापरत्वप्रदर्शनम् आयक्ष्यसे पूज्यसेऽद्य यस्त्वं वाचस्पतिः स्वयम् || ५८-३५ || अतोऽस्मै यजमानाय वार्यं वर्यं सुवः सुखम् | आकस्त्वमाकुरुष्वाद्य सोमं पिबति पूर्ववत् || ५८-३६ || मन्त्रचरमवक्यस्य प्रतिबन्धनिवृत्तिप्रार्थनापरत्वम् इरां ददतमिन्द्रं मामिन्द्रियायाद्यशक्तये | ब्रह्माप्तिहेतुभूतायै स योग्यं जनयत्वजः || ५८-३७ || पञ्चहोतृमन्त्रार्थनिरूपणम् चतुर्होतायमुद्दिष्टः पञ्चहोता निगद्यते | अग्निर्निरुदितः पूर्वं स होता परिगीयते || ५८-३८ || ज्ञानप्राणावश्विनौ द्वावश्नुवाते यतो जगत् | अध्वर्युः प्रतिप्रस्थाता द्वावध्वर्यू प्रकीर्तितौ || ५८-३९ || त्वष्टा संकल्प उद्दिष्टस्त्वष्ट्टकार्यं यतोऽखिलम् | मित्रो मैत्री समुद्दिष्टा करुणा हरिमेधसः || ५८-४० || ग्रहभागस्यात्मयागसाधनत्वेन विनियोगः प्. ५९१) सोम इत्यादिमन्त्रोऽयं यजने तस्य शिष्यते | तत्र षष्ठ्यन्तयोः प्रथमान्तयोश्च सोमशुक्रपदयोरर्थविवेकः षष्ठ्यन्तौ सोमशुक्रौ द्वौ लतासाराभिधायिनौ || ५८-४१ || इतरावात्मवचनौ पुरोगा हेतुरुच्यते | प्रथमान्तसोमपदविवक्षितस्य जीवस्य षष्ठ्यन्तसोमपदविक्षितात् लतासारादुत्तमत्वम् जीवः सोमस्य सोमोऽयं पुरोगाः सेमतोऽपि यत् || ५८-४२ || सोमो ह्यभिष्टुतो यादृक् प्रीणयेत् पुरुषोत्तमम् | आत्मयागहुतो जीवो न तादृक् किंत्वतोऽधिकः || ५८-४३ || तदुपपादनम् मर्त्यो ह्यभिष्टुतः सोमो यस्त्वमर्त्यो हि चिन्मयः | शुक्रशब्दस्य जीवपरत्वे प्रवृत्तिनिमित्तप्रदर्शनम् शुक्र इत्यतिसारत्वाज्जगद्बीजतयापि च || ५८-४४ || आख्या जीवस्य तत्रापि योजनैषा पुरोदिता | इन्द्रशब्देन भगवतः संबोधनम् इन्द्रेत्यपि च संबोधो देवस्य हरिमेधसः || ५८-४५ || वातापिशब्दस्य व्याप्तिपूर्वकभगवन्निष्ठकिर्याशक्तिवैशिष्ट्यपरत्वम् प्. ५९२) वातापीत्युच्यते व्यापी वातेन क्रियया स्वया | जगद्धातुः क्रिया सृष्टिरतर्क्या व्याप्तिपूर्विका || ५८-४६ || तस्या अविषयो नास्ति भावः कोऽपि कथंचन | हवनश्रुत्पदस्य स्वविषयकाह्वानश्रवणरसिकत्वपरत्वम् हवनश्रुत् समाख्यातः शृण्वन्नाह्वानमादरात् || ५८-४७ || श्राता इत्यादिवाक्यद्वयस्य तात्पर्यार्थनिरूपणमुखेन सर्वेष्वप्यात्मसु भगवद्गुणकृतदास्यप्रतिपादकत्वप्रदर्शनम् हे इन्द्र परमेशान कर्तस्ते हवनश्रुतः | श्राताः श्रिता गुणैः सोमा आत्मानस्त इमे वयम् || ५८-४८ || स्वाहा स्वाहुतमस्त्वेतत् तदिदं परमं हविः | अथ षड्ढोतृमन्त्रार्थनिरूपणम् उद्दिष्टः पञ्चहोतायं षड्ढोताद्य निगद्यते || ५८-४९ || यजमानं पशुं भूतं वाक्त्यात्मानं हविष्कृतम् | देहेन्द्रियैः समं विष्णुं प्राप्ताद्य सहविष्कृतम् || ५८-५० || सूते च रमते चैव यजते चैव कथ्यते | सूर्योविष्णुं विशत्वेनं चक्षुर्विज्ञानकारणम् || ५८-५१ || वातो गतिमतः संज्ञा गतिर्व्याप्तिरुदीरिता | द्योतमानस्तथा स द्यौर्देवो विज्ञानसारथिः || ५८-५२ || प्. ५९३) अन्तः समीक्षमाणः सन्नन्तरिक्षमुदीर्यते | सर्वान् संगमयन् प्राणैर्यज्ञ इज्यतयापि च || ५८-५३ || पृथिवी वैष्णवी शक्ति प्रथमाना स्वतेजसा | पञ्चात्मावयवः प्राणः पृष्ठं मूर्धाङ्गमुच्यते || ५८-५४ || आत्मान्तःकरणं प्रोक्तमनाद्यन्तस्थितानि च | शरीराण्यथ बाह्याङ्गान्यथो ग्रह उदीर्यते || ५८-५५ || वाचस्पतिः समुद्दिष्टः शक्तिर्वाग् वैष्णवी क्रिया | सैव प्रोक्ता जुहूः प्राणो होत्राहुतिरुदीर्यते || ५८-५६ || नानादेहादिरूपेण वृद्धा देवा उदीरितः | एरयस्व प्रेरयस्व प्रेरणं त्वेरणं मतम् || ५८-५७ || अपरस्य षड्ढोतृमन्त्रस्यार्थनिरूपणम् (१) अथापरस्य षड्ढोतुर्निर्णयं शृणु नारद | दीक्षा मानससंकल्पो वागवस्था तु वाक् स्मृता || ५८-५८ || आपो दयार्द्रता विष्णोर्मन इच्छा निगद्यते | तपो विज्ञानमुद्दिष्टं पोता त्वभिगरो मतः || ५८-५९ || __________________ १ षड्ढोतृमन्त्रो द्विविधः- चतुर्थानुवाकात्मकः सूर्यं ते चक्षु इत्यादिरेकः | षष्ठानुवाकात्मकः वाग्धोता इत्यादिरपरः | तत्र वाग्घोता षड्ढोतृणाम् इति ब्राह्मणनिर्देशात् स एव चातुर्होत्रचयने प्रयोज्यः | इतरस्य तु पशुबन्धेन यक्ष्यमाणः षड्ढोतारं मनसानुद्रुत्याहवनीये जुहुयात् इति होतृब्राह्मणकाण्डे विधिदर्शनात् पशुबन्धे विनियोगः | तदेवं कर्मकाण्डे व्यवस्थितविकल्पेन विनियुक्तयोरपि षड्ढोतृमन्त्रयोर्ब्रह्मचक्रे समुच्चयेन विनियुक्तत्वाद् द्विविधयोरपि तयोरिह व्याख्यानं कृतमिति बोध्यम् | __________________ प्. ५९४) सप्तहोतृमन्त्रार्थनिरूपणम् महाहविरिति प्रोक्तः सप्तहोता मनीषिभिः | मनो हविरिति प्रोक्तं मनो हविरिहोच्यते || ५८-६० || महाविषयता तस्य महत्त्वं परिगीयते | यत्नो हविरिति प्रोक्तं प्राणो हविरिहोच्यते || ५८-६१ || सत्यता त्वविपर्यासः संततोद्युक्तता तथा | पाजस्तेज इह प्रोक्तो नित्यताच्युततास्य तु || ५८-६२ || मनो मतिरिह प्रोक्ता तस्याः पूर्ववदच्युतिः | अनाधृष्याप्रधृष्यौ च शक्त्यैश्वर्यनिरूपकौ || ५८-६३ || पोता च मैत्रावरुणः स्मृतावभिगराविह | अनायासविषयत्वादयास्य इति वर्ण्यते || ५८-६४ || ग्रहभागार्थनिरूपणम् हरति स्वीकरोतीह पूजां हृदिति वर्ण्यते | दैव्यस्तन्तुरिति प्रोक्ता शिष्याचार्यपरम्परा || ५८-६५ || मनुष्यस्तन्तुरित्युक्ता सत्संतानसमृद्धिता | द्यावापृथिव्यौ पितरौ पितरौ श्रीतदीश्वरौ | व्याख्यातो होतृवर्गोऽयमिति ते लेशतो मुने || ५८-६६ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां पञ्चहोतृमन्त्रार्थनिरूपणम् नाम अष्टपञ्चाशोऽध्यायः || ५८ || आदितः श्लोकाः ३७७६ पुरुषसूक्तश्रीसूक्तवाराहमन्त्रार्थनिरूपणम् नाम एकोनषष्टितमोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || ब्रह्मचक्रान्तर्गतसंभारादिमन्त्रार्थानिरूपणे कारणनिरूपणम् अहिर्बुध्न्यः - संभारा देवपत्न्यश्च दक्षिणा हृदयानि च | रुद्रा ब्रह्माणि चेत्येतन्निगदेन निरूप्यते (१) || ५९-१ || __________________ १ अतीतेनाध्यायेन होतृवर्गः सग्रहो व्याख्यातः | अथ संभारादीनां व्याख्यानमवसरप्राप्तम् | तथापि निपुणधियां निगदेनैव तदर्थबोधसंभवाद् ग्रन्थविस्तरभयाच्च तेषां नेह व्याख्यानं प्रस्तूयत इति प्रथमश्लोकाभिप्रायः | संभारादिपदार्थस्वरूपमात्रमिहास्माभिः बुभुत्सुजनसौकर्याय प्रदर्श्यते | तथा हि- संभारादीनि षट् पदानि मन्त्रविशेषवाचकानि | तत्रैकविंशतिवाक्यात्मकः अग्निर्यजुर्भिः इत्ययं तैत्तिरीयारण्यकतृतीयप्रपाठकस्याष्टमोऽनुवाकः संभारयजुरित्युच्यते; यज्ञाङ्गत्वेन संभरणीयानां यजुःस्तोमदीनां तस्मिन्ननुवाके समाम्नानात् | षड्विंशतिवाक्यात्मकः सेनेन्द्रस्य इत्ययं नवमोऽनुवाको देवपत्न्याख्यः; ऊक् च सूनृता च देवानां पत्नयः इति मन्त्रलिङ्गोपसंहारदर्शनात् | एकोनपञ्चाशद्वाक्यात्मकः देवस्य त्वा सवितुः प्रसवे इत्ययं दशमोऽनुवाको दक्षिणाप्रतिग्रहमन्त्रः राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यम् इत्यादिमन्त्रलिङ्गात् | हृदयशब्देन पञ्चहोतृहृदयाख्यो मन्त्रगणो विवक्षितः | स चाष्टाविंशत्युत्तरशतवाक्यात्मकः सुवर्णं धर्मं परिवेद वेनम् इत्ययमेकादशोऽनुवाकः | हृदयशब्दविवक्षितरहस्यार्थप्रति- पादकत्वादस्यानुवाकस्य हृदयशब्दबोध्यत्वम् | चित्तिः स्रुक् इत्यादीनां हि होतृमन्त्राणां पञ्चानां हृदयं रहस्यं तत्त्वं परमात्मस्वरूपमनेनानुवाकेन विस्पष्टं विस्पष्टं प्रतिपाद्यते | अत एवायमनुवाको भागपञ्चकात्मकः | तत्र सुवर्णं धर्मं इत्यादिः स मानसीन आत्मा जनानाम् इत्यन्तश्चतुर्दशवाक्यात्मकः प्रथमोभागः चित्तिः स्रुक् इत्यादिदशहोतृहृदयभूतपरमात्म- तत्त्वप्रकाशकः | ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् इत्यादिः कवयो निचिक्युः इत्यन्तो द्वादशवाक्यात्मको द्वितीयो भागः पृथिवी होता इत्यादिचतुर्होतृमन्त्रहृदयभूतपरमपुरुषप्रतिपादकः | शतं नियुतः इत्यादिः तेन कॢप्तोऽमृतेनाहमस्मि इत्यन्तो द्वादशवाक्यात्मक- स्तृतीयो भागः अग्निर्होता इत्यादिपञ्चहोतृमन्त्रहृदयभूतभग- वत्स्वरूपप्रतिपादकः | सुवर्णं कोशं इत्यादिः शतधा चरन्तम् इत्यन्तो द्वादशवाक्यात्मकश्चतुर्थो भागः वाग्घोता इत्यादि- षड्ढोतृमन्त्रहृदयभूतपरमपुरुषस्वरूपविशेषप्रतिपादकः | इन्द्रो राजा जगतो य ईशे इत्यादिरनुवाकसमाप्त्यन्तोऽष्टसप्ततिवाक्यात्- मकः पञ्चमो भागः महाहविर्होता इत्यादिसप्तहोतृमन्त्रहृदय- भूतस्य श्रियः पत्युर्भगवतः स्वरूपविशेषप्रतिपादकः | एकेनैव भागेन भगवत्स्वरूपप्रतिपादने भगान्तरेण पुनस्तत्प्रतिपादनवै- यर्थ्याशङ्का तूत्तरोत्तरभागस्य पूर्वपूर्वभागाप्रतिपन्नगुण- विशेषविशिष्टभगवत्स्वरूपप्रतिपादनपरत्वान्निराकर्तव्या | तदेवं समस्तोऽयमनुवाको हृदयशब्देन विवक्षितः | रुद्राः शतरुद्रीय- संज्ञका मन्त्राः | ते च तैत्तिरीयसंहितायाश्चतुर्थकाण्डस्य पञ्चमप्रपाठके नमस्ते रुद्र इत्यादिषु तं वो जम्भे दधामि इत्यन्तेष्वेकादशस्वनुवाकेषु समाम्नाताः | ब्रह्माणि- ब्रह्मलिङ्ग- कानि सूक्तानि ब्रह्म जज्ञानं इत्यादीनि तैत्तिरीयब्राह्मणद्वितीयाष्ट- कस्याष्टमप्रपाठकेऽष्टमानुवाके प्रसिद्धानि | __________________ प्. ५९६) पुरुषसूक्तश्रीसूक्तयोरर्थं निरूपयितुं जगद्धिताय परमपुरुषाल्लक्ष्म्याश्च तयोराविर्भावकथनम् सूक्तं तु पौरुषं पुंसः परस्मादुत्थितं पुरा | जगद्धिताय लक्ष्म्याश्च श्रीसूक्तं तत् समुद्गतम् || ५९-२ || पुरुषसूक्तस्य ऋक्संख्यायां मतभेदप्रदर्शनम् नानाभेदप्रपाठं तत् पौरुषं सूक्तमुच्यते | ऋचश्चतस्रः केचित्तु पञ्च षट् सप्त चापरे || ५९-३ || प्. ५९७) ऋचः षोडश चाप्यन्ये तथाष्टादश चापरे | अधीयते तु पुंसूक्तं प्रतिशाखं तु भेदतः || ५९-४ || पुरुषसूक्तप्रतिपाद्यप्रमेयप्रदर्शनम् समस्तजगदुत्पत्तिहेतुः स्वर्गापवर्गदः | पौरुषो मानुषो यज्ञः सूक्तेऽस्मिन् प्रतिपाद्यते || ५९-५ || आद्यानां चतसृणामृचां वासुदेवादिचातुरात्म्यस्वरूपविवेचकत्वम् तत्राद्याभिश्चतसृभिश्चातुरात्म्यं विविच्यते | तत्राद्यमन्त्रस्य लक्ष्मीपतित्वपरिष्कृतवासुदेवाख्यप्रथमव्यूहप्रतिपादकत्वम् यः परः पुण्डरीकाक्षः परमात्मा सनातनः || ५९-६ || या च सा जगतां योनिर्लक्ष्मीस्तद्धर्मधर्मिणी | भगवान् वासुदेवोऽसावाद्यया प्रतिपाद्यते || ५९-७ || मन्त्रस्य प्रतिपदमर्थं वर्णयितुं सहस्रशीर्षशब्दस्य श्रियः पतित्वपरत्वप्रदर्शनम् सहस्रा सहगा यस्य सहभावमुपेयुषी | श्रीर्नाम परमा शक्तिः पूर्णषाड्गुण्यविग्रहा || ५९-८ || निःसक्तासक्तको यश्च नित्यं सन् सकलाश्रयः | सहस्रशीऋस इत्येवं भगवान् परिगीयते || ५९-९ || पुरुषशब्दस्यावाप्तसमस्तकामत्वपरत्वम् पूर्णत्वात् पुरुषो नित्यं पृणातेः पूरणार्थकात् | प्. ५९८) सहस्राक्षशब्दस्य सहस्रत्वगुणविशिष्टबद्धात्मवैशिष्ट्यपरत्वम् अश्नोतेरथवाश्नातेरक्षोऽजेरञ्चतेरुत || ५९-१० || अक्षः पुरुष उद्दिष्टो यः प्रकृत्याश्रितो विभुः | सहस्रपाच्छब्दस्य सहस्रत्वगुणविशिष्टप्रकृतिवैशिष्ट्यपरत्वम् पद्यतेः परिणामार्थात् पादित्येष निरुच्यते || ५९-११ || पादिति प्रकृतिः प्रोक्ता सा नित्यपरिणामिनी | प्रकृतिपुरुषयोः सहस्रशब्दप्रवृत्तिनिमित्तप्रदर्शनम् षण्णां गुणानां मध्ये या शक्तिः सा हस्र उच्यते || ५९-१२ || प्रधानपुरुषौ तस्याः सृतौ सर्गे सनातनौ | तामेवापि श्रितावन्ते तौ सहस्रावतः स्मृतौ || ५९-१३ || वासुदेवस्य प्रकृतिपुरुषवैशिष्ट्यनिगमनम् सहस्रपुरुषाव्यक्तः सहस्राक्षः सहस्रपात् | उत्तरार्धस्य तात्पर्यार्थनिरूपणमुखेन कारणगतापरिच्छिन्नत्वगुणपरत्वप्रदर्शनम् स भूमिं विश्वतो वृत्वेत्येतेनैव निरूप्यते || ५९-१४ || यदतीत्य सृतं विश्वं नानासत्तात्मनः स्थितिः | कार्ये हि कारणेयत्ता पयसो दधिसंभवे || ५९-१५ || कार्यं सत्संततौ क्वापि कार्येयत्तैव कारणे | मधूच्छिष्टमये पिण्डे यथाकारवियोगिनी || ५९-१६ || नैवं भगवतः सर्गे प्रतिसर्गेऽपि वा सति | प्. ५९९) कार्येयत्तात्वमस्तीति स भूमिमिति वर्ण्यते || ५९-१७ || भगवत्यार्जितानीति शुद्धाशुद्धमयानि च | भूमिं जगदुपादानं भूमिशक्तिरिहोच्यते || ५९-१८ || शुद्धाशुद्धविभागो यः कालपुंप्रकृतिस्थितिः | स भूमिं विश्वतो वृत्वा विष्टभ्य स्वेन तेजसा || ५९-१९ || स्वसंकल्पस्वरूपेण प्रभवाप्ययवेलयोः | अत्यतिष्टिअदतीत्यैव स्थितो भूयो दशाङ्गुलम् || ५९-२० || दशाङ्गुलिभिरानन्त्यं कारणस्योपदिश्यते | द्वितीयमन्त्रस्य संकर्षणाख्यद्वितीयव्यूहपरत्वप्रतिपादनम् अथ संकर्षणावस्था जगद्धेतुर्निरूप्यते || ५९-२१ || यदिदं दृश्यते विश्वं भूतभव्यात्मरूपकम् | इदं पुरुष एवादौ सिसृक्षायामभूत् किल || ५९-२२ || मन्त्रगतस्य पुरुषशब्दस्य संकर्षणपरत्वोपपादनम् पुरुषः स्यन्दति व्यक्तं सम्यग्विज्ञानयोजनात् | अतः पुरुष इत्येवं संकर्षण उदीर्यते || ५९-२३ || उत्तरार्धेन संकर्षणस्य ज्ञानोपदेष्ट्टत्वनिबन्धनमोक्षप्रदत्वप्रतिपादनम् तिलकालकवद् विश्वं बिभ्रच्चिदचिदात्मकम् | संकर्षण उदेति स्म स एवं पुनरुच्यते || ५९-२४ || उतामृतत्वस्येशान इति तस्यार्थ उच्यते | अन्नेन भोग्यभूतेन प्रकृतिप्राकृतात्मना || ५९-२५ || प्. ६००) कालसंकलितेनैव नानाकारविधाजुषा | अचिदंशेन जीवात्मा यश्चिदंशोऽधिरोहति || ५९-२६ || स्वस्यासंबन्धपूर्वं यः पूर्वसङ्गवशादिह | तस्य सद्गुणसंसर्गान्नानाबन्धक्षये सति || ५९-२७ || अमृतत्वं स्वरूपाविर्भावमोक्षापराह्वयम् | तस्य संकर्षणो देव ईशानो ज्ञानदेशनात् || ५९-२८ || तृतीयमन्त्रस्य प्रद्युम्नाख्यतृतीयव्यूहपरत्वप्रतिपादनम् संसारानलसंतप्तचेतनानुजिघृक्षया | संकर्षणोदयो विष्णुरुच्यतेऽथ तृतीयया || ५९-२९ || एतावानस्य महिमा विष्णोः संकर्षणात्मनः | यदयं धृतवान् विश्वं समुन्मीलनमादिमम् || ५९-३० || ज्यायानतोऽपि पुरुषः प्रद्युम्न उपकारतः | मन्त्रगतेन पुरुषशब्देन प्रद्युम्नस्य ज्यायस्त्वोपपादनम् पुरू प्रकृतिपुंरूपौ पुरुषः सृजतीति यत् || ५९-३१ || विश्वोपकारचेष्टाभिर्ज्यायस्त्वं तस्य वर्ण्यते | चतुर्थमन्त्रस्यानिरुद्धाख्यचतुर्थव्यूहपरत्वप्रतिपादनम् ऋचा तुरीयया सूक्ते त्रिपादूर्ध्व उदैदिति || ५९-३२ || देवोऽपरिमितेहः सन्ननिरुद्धो निरूप्यते | मन्त्रगतस्य पुरुषशब्दस्यानिरुद्धपरत्वोपपादनम् पुरा सीदति कार्याणि कारयन् प्राणिनोऽखिलान् || ५९-३३ || प्. ६०१) फलानि पुरुषेभ्यश्च सनोति क्रिययार्चितः | ततः पुरुष इत्येवमनिरुद्धोऽभिधीयते || ५९-३४ || पुरि सन् सन् पुरीवायं पुरादूर्ध्वमुदैत् परात् | तदवस्थेन नाघ्रातमित्यर्थोऽयमिहोच्यते || ५९-३५ || पादोऽस्यैकांश एवेह चेतनाचेतनात्मकः | अन्तर्यामितया व्याप्तिस्तत्तन्नियमनेच्छया || ५९-३६ || एतदेव व्यनक्तीह ततो विष्वङ्ङिति त्वृचा | विष्वक् समन्ततो भूत्वा व्यक्रामत् प्राविशद् बहु || ५९-३७ || साशनानशने प्रोक्ते चेतनाचेतने उभे | तस्माद् विराडिति प्रोक्ता विराड् विद्या पराह्वया || ५९-३८ || हिरण्यगर्भो विश्वात्मा स पूरुष इहोच्यते | अवशिष्टानां चतुर्दशमन्त्राणामर्थस्य लोकतो ज्ञेयत्वकथनपूर्वकं पुरुषसूक्तार्थनिगमनम् शेषं तु लोकतः सिद्धमित्ययं सूक्त ईदृशः || ५९-३९ || तन्त्रान्तरे विस्तरेण निरूपितस्य श्रीसूक्तार्थस्यातिसंक्षेपेण सूचनम् हिरण्यवर्णां श्रीसूक्तं कृतोऽन्यत्रास्य विस्तरः | वर्णो वरयते रूपं वर्णो वर उदीरितः || ५९-४० || हितश्च रमणीयश्च यस्या वर्ण इति स्थितिः | प्. ६०२) हिरण्यवर्णा सा देवी श्रीशक्तिः परमामृता || ५९-४१ || तदेतत् सूक्तमित्युक्तं मिथुनं परचिह्नितम् | आदावन्योन्यमिश्रत्वादन्योन्यप्रतिपादकम् || ५९-४२ || नियमपूर्वकं यथोक्तसूक्तद्वयनिष्ठस्य मोक्षप्राप्तिः फलम् नियतो नियताहारो निरतो नियतेन्द्रियः | भजन् सूक्तद्वयं याति तद्विष्णोः परमं पदम् || ५९-४३ || वराहमन्त्रे स्थूलार्थस्य लोकतो ज्ञेयत्वकथनम् वाराहो नाम यो मन्त्रो ह्यत्यनुष्टुबितीरितः | तस्य सांसर्गिकी मुद्रा विदिता लोकतस्तव || ५९-४४ || तस्यैव संक्षेपतः सूक्ष्मार्थनिरूपणम् अस्य प्रतिपदार्थो यो मत्तस्तं त्वं निशामय | वराहादावभिव्यक्तं यस्य रूपं सनातनम् || ५९-४५ || वराहरूपो भगवान् वसुधाहरणोद्यतः | संसारो रात्रिरुद्दिष्टो मोक्षो वरमहः स्मृतः || ५९-४६ || वराहरूप उद्दिष्टो वरस्याह्नो निरूपणात् | तस्यैव परार्थनिरूपणम् अशेषभुवनाधारो गोपनश्चैव सर्वदा || ५९-४७ || प्रज्ञानामपि चाधारो रक्षोदैत्यदवानलः | प्. ६०३) पवित्रः सर्वलोकानामप्रमेयः सनातनः || ५९-४८ || परमात्मा वराहोऽभूदित्थं स पर ईरितः | दिगियं दर्शिता सम्यगेषा मन्त्रान्तरे गतिः || ५९-४९ || न्यायेनानेन मन्त्राणां गतिं पिण्डं निरूपय | शास्त्रार्थमुपसंहर्तुं संक्षेपतः सुदर्शनगतिनिरूपणम् भूयश्च शृणु संक्षेपात् सुदर्शनगतिं प्रति || ५९-५० || निमिषच्चोन्मिषच्चैव चरं चाचरमेव च | दिव्यं च प्राकृतं चैव सूक्ष्मं च स्थूलमेव च || ५९-५१ || ह्रस्वं दीर्घं च यत् किंचिदीशितव्यमथेश्वरम् | विज्ञानं यदविज्ञानं सुखं वा यदि वासुखम् || ५९-५२ || इति द्वन्द्वपदाद्यैर्यद् वस्तु किंचिद् विकल्प्यते | सुदर्शनसमुन्मेषं तत्तद् विद्धि मुनीश्वर || ५९-५३ || शास्त्रार्थसंक्षेपः लेशतो भगवानुक्तः स्वरूपगुणवैभवैः | तद्धर्मधर्मिणी शक्तिस्तस्य तत्त्वेन वर्णिता || ५९-५४ || तस्या अत्यल्प उन्मेषो भूतिर्भाव्या त ईरिता | शुद्धाशुद्धमयी व्यक्तिस्तस्यास्तत्त्वेन वर्णिता || ५९-५५ || भावकश्चापि शक्त्यंशः संकल्पो वैष्णवः परः | रूपतो वर्णितः सम्यक् सुदर्शनपराह्वयः || ५९-५६ || देशकालादिका व्याप्तिस्तस्य तत्त्वेन वर्णिता | प्. ६०४) प्राणक्रिया बलं तेजः संकल्पो वैष्णवं यशः || ५९-५७ || सुदर्शनं परोद्योगः प्राणो विष्णुसमुद्यमः | अव्याहतो महायोगो योगात्मा योगभावनः || ५९-५८ || इत्यादिभिर्महाशब्दैस्तत्तदर्णविगाहिभिः | क्रियाशक्तिः परा विष्णोः शास्त्रे शास्त्रे निगद्यते || ५९-५९ || यथा कारणतां याति यथैवाधारतामपि | यथा प्रमाणतां याति यथा याति तदर्थताम् || ५९-६० || यथा याति विधायाभिस्तत्तदर्थाधिकारिताम् | निष्कलेन स्वरूपेण यथा दिव्योऽभवद्विधिः || ५९-६१ || यथा च मध्यमं रूपं यन्त्रं तदुभयात्मकम् | सकलं यच्च तद्रूपं शस्त्रास्त्रमयमुज्ज्वलम् || ५९-६२ || दिव्याः सौदर्शना व्यूहा वैश्वरूप्यं च तन्महत् | राज्ञोऽपि विजयः सर्वो रोदसीविजयस्तथा || ५९-६३ || कृत्स्नो योगविधिश्चैव न्यासयोगविधिस्तथा | नानोपद्रवशान्तिश्च व्यवस्था योगगोचरा || ५९-६४ || ब्रह्मास्त्रादिस्वरूपं च तत्तन्मन्त्रविधिस्तथा | महाभिषेचनविधिरस्त्रयोगविधिस्तथा || ५९-६५ || ध्वजादिमन्त्रयोगाश्च सेतिहासविनिश्चयाः | स्थूलसूक्ष्मपरात्मानो दिव्यमन्त्रविनिश्चयाः || ५९-६६ || इति ते निखिलेनार्था दर्शितास्ते मुनीश्वर | प्. ६०५) निधाय हृदये तत्त्वं स्वस्थो भव निरामयः || ५९-६७ || व्याकृताः संशयाः सर्वे नारदर्षे मनःस्थिताः | करामलकवच्चैव दिव्या सौदर्शनी गतिः || ५९-६८ || आदर्शनस्वरूपेण गुणैः सफलवैभवैः | संहितेयं समाख्याता नानाशास्त्रावगाहिनी || ५९-६९ || एतत्संहितोपदेशानर्हजनपरिगणनम् पञ्चरात्रमयी दिव्या सांख्ययोगादिसंमिता | संहितेयं महागुह्या नानामन्त्रमयी परा || ५९-७० || नावासुदेवभक्ताय त्वया देया कथंचन | नास्तिके भिन्नमर्यादे कृतघ्नेऽनृतवादके || ५९-७१ || निःस्वाध्यायवषट्कारे देवब्राह्मणदूषके | ब्रह्मचर्यव्रतभ्रष्टे पञ्चयज्ञपराङ्मुखे || ५९-७२ || दूषणेऽपि च वेदानां ब्राह्मणे मन्त्रवर्जिते | योग्याधिकारिपरिगणनम् वेदविद्याव्रतस्नाते श्रोत्रिये गृहमेधिनि || ५९-७३ || ब्रह्मचारिणि वा सम्यग् गुरुस्वाध्यायतत्परे | वनस्थे वा व्रतोपेते भिक्षौ वा तत्त्ववित्परे || ५९-७४ || कर्मणा मनसा वाचा भक्ते देवे जनार्दने | पञ्चरात्रप्रिये नित्यं वेदविद्यासुनिष्ठिते || ५९-७५ || वक्तव्येयं परा विद्या सर्ववेदान्तबृंहणी | प्. ६०६) मङ्गलाचरणव्याजेन शास्त्रप्रमेयसारानुवादपूर्वकं शास्त्रसमापनम् समस्तजगदुत्पत्तिस्थितिसंहारहेतवे | सुदर्शनाभिधानायै नमः शक्त्यै क्रियात्मने || ५९-७६ || नारदः - अज्ञानतिमिरध्वंसभास्करायादिवेधसे | शिवंकराय भूतानां नमः शान्ताय तेजसे || ५९-७७ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां पुरुषसूक्तश्रीसूक्तवाराहमन्त्रार्थनिरूपणं नाम एकोनषष्टितमोऽध्यायः || ५९ || आदितः श्लोकाः ३८५३ शास्त्रवैभवनिरूपणं नाम षष्टितमोऽध्यायः ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् | सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि || भरद्वाजं प्रति दुर्वाससा वृत्तानुवादव्याजेनापेक्षितयावदर्थ- प्रतिपादकत्वरूपशास्त्रवैभवप्रपञ्चनम् दुर्वासाः - इत्येतन्नारदायादौ पृष्टः प्रोवाच शंकरः | रहस्यं भगवज्ज्ञानं ज्ञानानामुत्तमं महत् || ६०-१ || शास्त्रस्यास्य प्राधान्येन जगज्जन्मादिकारणभूतब्रह्मस्वरूपरूपगुणविभवादिप्रतिपा- दनपूर्वकं परदेवतानिष्कर्षकत्वम् स्थित्युत्पत्तिप्रलयकृद् भूतानां यत्र चिन्त्यते | स विष्णुश्चिन्त्यते यत्र स्वरूपगुणवैभवैः || ६०-२ || प्राधान्येन भगवदिच्छाशक्तिभूतलक्ष्मीस्वरूपरूपगुण- विभवादिप्रतिपादकत्वम् यत्र सा शक्तिसंख्याता विष्णोस्तद्धर्मधर्मिणी | शीतरश्मेरिव ज्योत्स्ना भावाभावानुगामिनी || ६०-३ || अनन्या चान्यरूपा च ज्ञानानन्दक्रियामयी | प्. ६०८) महाविभूतिसंस्थाना निर्विकारा निरञ्जना || ६०-४ || निःसक्तासक्तसन्मत्रा पूर्णा रिक्ता ऋतंभरा | प्रत्यस्तमितभेदा सा समुन्मीलितभेदिनी || ६०-५ || षडध्वविषयातीता षडध्वविषयात्मिका | निमेषोन्मेषरूपा सा भावाभावस्वलक्षणा || ६०-६ || चिन्त्यते यत्र सा लक्ष्मीः स्वरूपगुणवैभवैः | भाव्यभावकरूपा सा शक्तिः शक्तिद्वयाभिधा || ६०-७ || चिन्त्यते यत्र विस्पष्टं स्वरूपगुणवैभवैः | शुद्धाशुधस्वरूपा सा विष्णुशक्तिर्जगन्मयी || ६०-८ || भूतिर्विचिन्त्यते यत्र भाव्यका यत्र वर्तते | तथा प्राधान्येन भगवत्क्रियाशक्तिभूतसुदर्शनस्वरूपादिप्रतिपादकत्वम् उत्प्रेक्षारूपिणी शक्तिः सुदर्शनपराह्वया || ६०-९ || सा पङ्कजा जगद्धातुर्भाविका यत्र चिन्त्यते | यत्र कारणरूपत्वं क्रियाशक्तेर्विचिन्त्यते || ६०-१० || साकारताकारता च शुद्धाशुद्धविभेदिता | चिन्त्यते यत्र विस्पष्टं विष्णुशक्तेः क्रियात्मनः || ६०-११ || प्रमाणरूपता यत्र त्रिविधा परिचिन्त्यते | मर्यादास्त्रौघशस्त्रौघशास्त्रौघपरिभेदिता || ६०-१२ || पुरुषार्थात्मता शक्तेस्तथा तदधिकारिता | प्. ६०९) जगद्रक्षणरूपत्वं मन्त्रयन्त्रास्त्रविस्तृतम् || ६०-१३ || इति सौदर्शनं रूपं निष्कलं यत्र चिन्त्यते | नानाव्यूहसमुद्भेदं नानासंस्थानशोभितम् || ६०-१४ || चिन्त्यते सकलं रूपं यत्र सौदर्शनं महत् | जगद्रक्षणविध्वंससृजिशालि महोदयम् || ६०-१५ || सुदर्शनाङ्गसंभूतमस्त्रजातमशेषतः | स्वरूपशब्दविक्रान्तैर्निपुणं यत्र चिन्त्यते || ६०-१६ || सांख्ययोगाद्यर्थप्रतिपादकत्वरूपवैभवान्तरसूचनम् सांख्ययोगविधिर्यत्र कार्त्स्न्येन परिचिन्त्यते | विविधा मन्त्रयोगाश्च मन्त्राश्च विधयोऽखिलाः || ६०-१७ || नानासामर्थ्यभेदाश्च सेतिहासप्रविस्तराः | आत्मन्यासविधिश्चैव विधीनामुत्तमो विधिः || ६०-१८ || मन्त्रार्था विविधाश्चैव स्थूलसूक्ष्मपरात्मकाः | चिन्त्यन्ते यत्र विस्पष्टं विष्णुसंकल्पजृम्भिताः || ६०-१९ || एतच्छास्त्राधिकारिनिरूपणम् तदेतदुपशान्तेन शान्तेन गुरुसेविना | अध्येयं तन्त्रसाराख्यमाहिर्बुध्न्यं हि शासनम् || ६०-२० || अनधिकारिनिर्देशपूर्वकं तेभ्यः शास्त्रप्रदाननिषेधः नाश्रोत्रियाय नाज्ञाय नाप्रातःस्नायिने तथा | प्. ६१०) न शठाय न दृप्ताय न कूटविधिसेविने || ६०-२१ || नानन्तेवासिने चैव नासंवत्सरवासिने | नैव देयं कृतघ्नाय नासूयानलशायिने || ६०-२२ || योग्याधिकारिनिर्देशपूर्वकं तेभ्यः शास्त्रप्रदानाभ्यनुज्ञा सुपुत्राय सुशिष्याय सर्वस्वप्राणदायिने | गुह्यगोपनशीलाय शास्त्रार्थस्थापकाय च || ६०-२३ || ऊहापोहसुदक्षाय मन्त्रवत् संस्कृताय च | देयमेतत् त्रिवर्णाय नित्यमध्यात्मशालिने || ६०-२४ || शास्त्रवैभवनिगमनम् षष्ट्यध्यायैः समुद्दिष्टा संहिता सेयमुत्तमा | यां ज्ञात्वा पुरुषः शश्वत् सर्वज्ञत्वमवाप्नुयात् || ६०-२५ || परा च मध्यमा चैव ये हि ते संहिते स्मृते | तदर्थः सकलोऽप्यत्र संक्षेपेण प्रदर्शितः || ६०-२६ || प्. ६११) ग्रन्थसमापनम् नमः शिवाय शान्ताय नारदाय महर्षये | नमः सुदर्शनायाथ विष्णोः संकल्परूपिणे || ६०-२७ || इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां शास्त्रवैभवनिरूपणं नाम षष्टितमोऽध्यायः || ६० || आदितः श्लोकाः ३८८० समाप्ता चेयमहिर्बुध्न्यसंहिता इति श्रीकौशिकापरपर्यायश्रीमद्बालधन्विकुलावतंसश्रीमन्नृ- सिंहार्यतनयस्य श्रीशेषार्यवंशमुक्ताफलश्रीमत्पाट- रार्यतनूभवश्रीवेङ्कटार्यचरणयुगलसेवासमुज्जृम्- भितवेदान्तद्वयतत्त्ववैशद्यस्य वाधूलवंशकल- शोदधिपूर्णचन्द्रतर्कतीर्थपण्डितरत्नश्रीमत्क- स्तूरिरङ्गनाथार्यकृपासमुत्तीर्णसाहिती- धर्मशास्त्रपूर्वमीमांसादिपारा- वारस्य श्रीदेवशिखामणेः रामा- नुजार्यस्य कृतिषु सिद्धाञ्जनं नाम अहिर्बुध्न्यसंहिता- विषयविवेचनं समाप्तम् | जिज्ञासन्ते तु ये तत्त्वमहिर्बुध्न्यार्थगोचरम् | नियतं तेऽभिवीक्षन्तां सिद्धाञ्जनमिदं मुहुः || सिद्धाञ्जानमिदं भूयाद् विदुषां मोदवृद्धये | प्रीयतां तेन भगवान् वासुदेवः श्रिय पतिः || अहिर्बुध्न्यसंहितापरिशिष्टं सुदर्शन सहस्रनामस्तोत्रम् (१) सुदर्शनसहस्रनामस्तोत्रम् प्रणम्य शिरसा देवं नारायणमशेषगम् | रमावक्षोजकस्तूरीपङ्कमुद्रितवक्षसम् || १ || सर्वशास्त्रार्थतत्त्वज्ञः पाराशर्यस्तपोधनः | हिताय सर्वजगतां नारदं मुनिमब्रवीत् || २ || ज्ञानविद्याविशेषज्ञं कर्पूरधवलाकृतिम् | वीणावादनसंतुष्टमानसं मरुतां परम् || ३ || हिरण्यगर्भसंभूतं हिरण्याक्षादिसेवितम् | पुण्यराशिं पुराणज्ञं पावनीकृतदिक्तटम् || ४ || व्यास उवाच - देवर्षे नारद श्रीमन् साक्षाद् ब्रह्माङ्गसंभव | ___________________ १ यद्यपीदं स्तोत्रं षष्ट्यध्यायात्मिकायामस्यामहिर्बुध्न्य- संहितायां नान्तर्भावयितुं शक्यं, विनाप्यनेन षष्ट्यध्यायानां पूर्णत्वात्; अथापि प्रथमाध्यायोपदर्शितरीत्या विंशत्युत्तरशताध्यायात्मकतया चत्वारिंशदुत्तरशतद्वयाध्यायात्मकतया चावगम्यमानयोः अहिर्बुध्न्यसंहितयोरन्यतरत्र शक्यमन्तर्भावयितुम्, स्तोत्रस्यास्या- हिर्बुध्न्यसंहितान्तर्भावस्यैवोपदेशपरम्परयावगतत्वात्, अन्ते तथैव लेखदर्शनाच्च | यद्यपीदं परमरहस्यभूतं स्तोत्रं, तथापि विक्रीते करिणि किमङ्कुशे विवादः इति न्यायेन संहितायामेव तन्त्ररहस्यभूतायां कार्त्स्न्येन प्रकाशितायां किमनेनाप्रकाशितेनेति समीक्षिकया कुलपरम्परया समागतमेकमेव तालपत्रमयं पुस्तकमादर्शीकृत्य समारब्धं मुद्रणम् | अत्रान्तरे अडयार्पुस्तकालयस्थं देवनागराक्षरलिखितं पुस्तकान्तरमप्यत्र सहायोऽभूदिति युक्तमस्याहिर्बुध्न्यसंहितापरिशिष्टत्वेन मुद्रणमिति कृत्वात्र प्रकाश्यते | ___________________ प्. ६१६) भवानशेषविद्यानां पारगस्तपसां निधिः || ५ || वेदान्तपारगः सर्वशास्त्रार्थप्रतिभोज्ज्वलः | परब्रह्मणि निष्णातः सच्चिदानन्दविग्रहः || ६ || जगद्धिताय जनितः साक्षादेव चतुर्मुखात् | हन्यन्ते भवता दैत्या दैत्यारिभुजविक्रमैः || ७ || कालोऽनुग्रहकर्ता त्वं त्रैलोक्यं त्वद्वशेऽनघ | मनुष्या ऋषयो देवास्त्वया जीवन्ति सत्तम || ८ || कर्तृत्वे लोककार्याणां वरत्वे परिनिष्ठित | पृच्छामि त्वामशेषज्ञं निदानं सर्वसंपदाम् || ९ || सर्वसंसारनिर्मुक्तं चिद्घनं शान्तमानसम् | यः सर्वलोकहितकृद्यं प्रशंसन्ति योगिनः || १० || इदं चराचरं विश्वं धृतं येन महामुने | स्पृहयन्ति च यत्प्रीत्या यस्मै ब्रह्मादिदेवताः || ११ || निर्माणस्थितिसंहारा यतो विश्वस्य सत्तम | यस्य प्रसादाद् ब्रह्माद्या लभन्ते वाञ्छितं फलम् || १२ || दारिद्र्यनाशो जायेत यस्मिन् श्रुतिपथं गते | विवक्षितार्थनिर्वाहा मुखान्निःसरतीह गीः || १३ || नृपाणां राज्यहीनानां येन राज्यं भविष्यति | अपुत्रः पुत्रवान् येन वन्ध्या पुत्रवती भवेत् || १४ || शत्रूणामचिरान्नाशो ज्ञानं ज्ञानैषिणामपि | चातुर्वर्गफलं यस्य क्षणाद् भवति सुव्रत || १५ || प्. ६१७) भूतप्रेतपिशाचाद्या यक्षराक्षसपन्नगाः | भूतज्वरादिरोगाश्च यस्य स्मरणमात्रतः || १६ || मुच्यन्ते मुनिशार्दूल येनाखिलजगद्धृतम् | तदेतदिति निश्चित्य सर्वशास्त्रविशारद || १७ || सर्वलोकहितार्थाय ब्रूहि मे सकलं गुरो | इत्युक्तस्तेन मुनिना व्यासेनामिततेजसा || १८ || बद्धाञ्जलिपुटो भूत्वा सादरं नारदो मुनिः | नमस्कृत्य जगन्मूलं लक्ष्मीकान्तं परात् परम् || १९ || उवाच परमप्रीतः करुणामृतधारया | आप्याययन् मुनीन् सर्वान् व्यासादीन् ब्रह्मतत्परान् || २० || नारदः - बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् | येनाव्याहतसंकल्पं वस्तु लक्ष्मीधरं विदुः || २१ || ओं अस्य श्रीसुदर्शनसहस्रनामस्तोत्रमहामन्त्रस्य अहिर्बुध्न्यो भगवानृषिः, अनुष्टुप् छन्दः, श्रीसुदर्शनमहाविष्णुर्देवता, रं बीजम्, हुं शक्तिः, फट् कीलकम्, रां रीं रूं रैं रौं रः इति मन्त्रः, श्रीसुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोगः | ओं रां अङ्गुष्ठाभ्यां नमः, ओं रीं तर्जनीभ्यां नमः, ओं रूं मध्यमाभ्यां नमः, ओं रैं अनामिकाभ्यां नमः, ओं रौं कनिष्ठिकाभ्यां, ओं रः करतलकरपृष्ठाभ्यां नमः | प्. ६१८) एवं हृदयादिन्यासः - ओं रां ज्ञानाय हृदयाय नमः, ओ रीं ऐश्वर्याय शिरसे स्वाहा, ओं रूं शक्त्यै शिखायै वषट्, ओं रैं बलाय कवचाय हुं, ओं रौं वीर्यायास्त्राय फट्, ओं रः तेजसे नेत्राभ्यां वौषट् | अथ दिग्बन्धः - ओं ठं ठं पूर्वां दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा, ओं ठं ठं आग्नेयीं दिशं ०, ओं ठं ठं याम्यां दिशं ०, ओं ठं ठं नैर्-ऋतीं दिशं ०, ओं ठं ठं वारुणीं दिशं ०, ओं ठं ठं वायवीं दिशं ०, ओं ठं ठं कौबेरीं दिशं ०, ओं ठं ठं ऐशानीं दिशं ०, ओं ठं ठं ऊर्ध्वां दिशं ०, ओं ठं ठं अधरां दिशं ०, ओं ठं ठं सर्वां दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा | इति दिग्बन्धः | ध्यानम् - कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् | शङ्खं चक्रं गदाब्जं पृथुतरमुसलं चापपाशाङ्कुशादीन् बिभ्राणं दोर्भिराद्यं मनसि मुररिपोर्भावये चक्रराजम् || शङ्खं चक्रं गदाब्जं शरमसिमिषुधिं चापपाशाङ्कुशादीन् बिभ्राणं वज्रखेटं हलमुसललसत्कुन्तमत्युग्रदंष्ट्रम् | ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं ध्यायेत् षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् || ककारादीनि षोडश नामानि प्. ६१९) कल्याणगुणसंपन्नः कल्याणवसनोज्ज्वलः | कल्याणाचलगम्भीरः कल्याणजनरञ्जकः || १ || कल्याणदोषनाशश्च कल्याणरुचिराङ्गकः | कल्याणाङ्गदसंपन्नः कल्याणाकारसंनिभः || २ || करालवदनोऽत्रासी करालाङ्गोऽभयंकरः | करालतनुजोद्दामः करालतनुभेदकः || ३ || करञ्जवनमध्यस्थः करञ्जदधिभोजनः | करञ्जासुरसंहर्ता करञ्जमधुराङ्गकः || ४ || खकारादीनि दश खञ्जनानन्दजनकः खञ्जनाहारजूषितः | खञ्जनायुधभृद् दिव्यखञ्जनाखण्डगर्वहृत् || ५ || खरान्तकः खररुचिः खरदुःखैरसेवितः | खरान्तकः खरोदारः खरासुरविभञ्जनः || ६ || गकारादीनि द्वादश गोपालो गोपतिर्गोप्ता गोपस्त्रीनाथरञ्जकः | गोजारुणतनुर्गोजो गोजारतिकृतोत्सवः || ७ || गम्भीरनाभिर्गम्भीरो गम्भीरार्थसमन्वितः | गम्भीरवैद्यमरुतो गम्भीरगुणभूषितः || ८ || घकारादीन्येकादश घनरावो घनरुचिर्घनगम्भीरनिस्वनः | प्. ६२०) घनाघनौघनाशी च घनसंतानदायकः || ९ || घनरोचिर्घनचरो घनचन्दनचर्चितः | घनहेतिर्घनभुजो घनोऽखिलसुरार्चितः || १० || ङकारादीनि चत्वारि ङकारावधिविभवो ङकारो मुनिसंमतः | ङकारवीतसहितो ङकाराकारभूषितः || ११ || चकारादीनि षट्पञ्चाशत् चक्रराजश्चक्रपतिश्चक्राधीशः सुचक्रभूः | चक्रसेव्यश्चक्रधरश्चक्रभूषणभूषितः || १२ || चक्रराजरुचिश्चक्रश्चक्रपालनतत्परः | चक्रधृच्चक्रवरदश्चक्रभूषणभूषितः || १३ || सुचक्रधीः सुचक्राख्यः सुचक्रगुणभुषितः | विचक्रश्चक्रनिरतश्चक्रसंपन्नवैभवः || १४ || चक्रदोश्चक्रदश्चक्रश्चक्रराजपराक्रमः | चक्रनादश्चक्रचरश्चक्रगश्चक्रपाशकृत् || १५ || चक्रव्यापी चक्रगुरुश्चक्रहारी विचक्रभृत् | चक्राङ्गश्चक्रमहितश्चक्रवाकगुणाकरः || १६ || आचक्रश्चक्रधर्मज्ञश्चक्रकश्चक्रमर्दनः | आचक्रनियमश्चक्रः सर्वपापविधूननः || १७ || चक्रज्वालश्चक्रधरश्चक्रपालितविग्रहः | प्. ६२१) चक्रवर्ती चक्रदायी चक्रकारी मदापहः || १८ || चक्रकोटिमहानादश्चक्रकोटिसमप्रभः | चक्रराजावनचरश्चक्रराजान्तरोज्ज्वलः || १९ || चञ्चलारातिदमनश्चञ्चलस्वान्तरोमकृत् | चञ्चलो मानसोल्लासी चञ्चलाचलभासुरः || २० || चञ्चलारातिनिरतश्चञ्चलाधिकचञ्चलः | छकारादीनि नव छाययाखिलतापघ्नश्छायामदविभञ्जनः || २१ || छायाप्रियोऽधिकरुचिश्छायावृक्षसमाश्रयः | छायान्वितश्छाययार्च्यश्छायाधिकसुखप्रदः || २२ || छायाम्बरपरीधानश्छायात्मजनमुञ्चितः | जकारादीनि षोडश जलजाक्षीप्रियकरो जलजानन्ददायकः || २३ || जलजासिद्धिरुचिरो जलजालसमो भरः | जलजालापसंस्तुत्यो जलजाताय मोदकृत् || २४ || जलजाहारचतुरो जलजाराधनोत्सुकः | जनकस्तुतिसंतुष्टो जनकाराधिताधिकः || २५ || जनकामोदनपरो जनकानन्ददायकः | जनकाध्यानसंतुष्टहृदयो जनकार्चितः || २६ || जनकानन्दजननो जनकृद्धृदयाम्बुजः | प्. ६२२) झकारादीनि चत्वारि झञ्झामारुतवेगाढ्यो झञ्झामारुतसंगरः || २७ || झञ्झामारुतसंरावो झञ्झामारुतविक्रमः | ञकारादिनी द्वे ञकाराम्बुजमध्यस्थो ञकारकृतसंनिधिः || २८ || टकारादीनि नव टङ्कधारी टङ्कवपुष्टङ्कसंहारकारकः | टङ्कच्छिन्नसुवर्णाभष्टङ्कारधनुरुज्ज्वलः || २९ || टङ्काराग्निसमाकारष्टङ्काररवमेदुरः | टङ्कारकीर्तिभरितष्टङ्कारानन्दवर्धनः || ३० || डकारादीन्येकोनविंशतिः डम्भसंहतिसंहर्ता डम्भसंततिवर्धनः | डम्भधृग् डम्भहृदयो डम्भदण्डनतत्परः || ३१ || डिम्भधृग् डिम्भकृड्डिम्भो डिम्भसूदनतत्परः | डिम्भपापहरो डिम्भसंभावितपदाम्बुजः || ३२ || डिम्भरोद्यत्कटम्बाजो डमरुध्यानतत्परः | डमरूद्भवसंहर्ता डमरूद्भवनन्दनः || ३३ || डाडिमीवनमध्यस्थो डाडिमीकुसुमप्रियः | डाडिमीफलसंतुष्टो डाडिमीफलवर्जितः || ३४ || प्. ६२३) ढकारादीन्यष्टौ ढक्कामनोहरवपुर्ढक्कारवविराजितः | ढक्कावाद्येषु निरतो ढक्काधारणतत्परः || ३५ || ढकारबीजसंपन्नो ढकाराक्षरमेदुरः | ढकारमध्यसदनो ढकारविहितान्त्रकः || ३६ || णकारादीनि चत्वारि णकारबीजवसतिर्णकारवसनोज्ज्वलः | णकारातिगभीराङ्गो णकाराराधनप्रियः || ३७ || तकारादीनि चतुर्दश तरलाक्षीमहाहर्ता तारकासुरहृत्तरिः | तरलोज्ज्वलहाराढ्यस्तरलस्वान्तरञ्जकः || ३८ || तारकासुरसंसेव्यस्तारकासुरमानितः | तुरङ्गवदनस्तोत्रसंतुष्टहृदयाम्बुजः || ३९ || तुरङ्गवदनः श्रीमांस्तुरङ्गवदनस्तुतः | तमः पटलसंछन्नस्तमः संततिमर्दनः || ४० || तमोनुदो जलशयस्तमःसंवर्धनो हरः | थकारादीनि चत्वारि थवर्णमध्यसंवासी थवर्णवरभूषितः || ४१ || थवर्णबीजसंपन्नस्थवर्णरुचिरालयः | प्. ६२४) दकारादीनि दश दरभृद् दरसाराक्षो दरहृद् दरवञ्चकः || ४२ || दरफुल्लाम्बुजरुचिर्दरचक्रविराजितः | दधिसंग्रहणव्यग्रो दधिपाण्डरकीर्तिभृत् || ४३ || दध्यन्नपूजनरतो दधिवामनमोदकृत् | धकारादीनि चतुर्विंशतिः धन्वी धनप्रियो धन्यो धनाधिपसमञ्चितः || ४४ || धरो धरावनरतो धनधान्यसमृद्धिदः | धनंजयो धानाध्यक्षो धनदो धनवर्जितः || ४५ || धनग्रहणसंपन्नो धनसंमतमानसः | धनराजवनासक्तो धनराजयशोभरः || ४६ || धनराजमदाहर्ता धनराजसमीडितः | धर्मकृद्धर्मघृद्धर्मी धर्मनन्दनसंनुतः || ४७ || धर्मराजो धनासक्तो धर्मज्ञाकल्पितस्तुतिः | नकारादीनि षोडश नरराजवनायत्तो नरराजाय निर्भरः || ४८ || नरराजस्तुतगुणो नरराजसमुज्ज्वलः | नवतामरसोदारो नवतामरसेक्षणः || ४९ || नवतामरसाहारो नवतामरसारुणः | नवसौवर्णवसनो नवनाथदयापरः || ५० || प्. ६२५) नवनाथस्तुतनदो नवनाथसमाकृतिः | नालिकानेत्रमहितो नालिकावलिराजितः || ५१ || नालिकागतिमध्यस्थो नालिकासनसेवितः | पकारादीनिन्यष्टादश पुण्डरीकाक्षरुचितः पुण्डरीकमदापहः || ५२ || पुण्डरीकमुनिस्तुत्यः पुण्डरीकसुहृद्द्युतिः | पुण्डरीकप्रभारम्यः पुण्डरीकनिभाननः || ५३ || पुण्डरीकाक्षसन्मानः पुण्डरीकदयापरः | परः परागतिवपुः परानन्दः परात् परः || ५४ || परमानन्दजनकः परमान्नाधिकप्रियः | पुष्कराक्षकरोदारः पुष्कराक्षः शिवंकरः || ५५ || पुष्करव्रातसहितः पुष्करारवसंयुतः | अथ फकारादीनि नव फट्कारतः स्तूयमानः फट्काराक्षरमध्यगः || ५६ || फट्कारध्वस्तदनुजः फट्कारासनसंगतः | फलहारः स्तुतफलः फलपूजाकृतोत्सवः || ५७ || फलदानरतोऽत्यन्तफलसंपूर्णमानसः | बकारादीनि षोडश बलस्तुतिर्बलाधारो बलभद्रप्रियंकरः || ५८ || बलवान् बलहारी च बलयुग्वैरिभञ्जनः | बलदाता बलधरो बलराजितविग्रहः || ५९ || बलाद्बलो बलकरो बलासुरनिषूदनः | बलरक्षणनिष्णातो बलसंमोददायकः || ६० || बलसंपूर्णहृदयो बलसंहारदीक्षितः | भकारादीनि चतुर्विंशतिः बह्वस्तुतो भवपतिर्भवसंतानदायकः || ६१ || भवध्वंसी भवहरो भवस्तम्भनतत्परः | भवरक्षणनिष्णातो भवसंतोषकारकः || ६२ || भवसागरसंछेत्ता भवसिन्धुसुखप्रदः | भद्रदो भद्रहृदयो भद्रकार्यसमाश्रितः || ६३ || भद्रश्रीचर्चिततनुर्भद्रश्रीदानदीक्षितः | भद्रपादप्रियो भद्रो ह्यभद्रवनभञ्जनः || ६४ || भद्रश्रीगानसरसो भद्रमण्डलमण्डितः | भरद्वाजस्तुतपदो भरद्वाजसमाश्रितः || ६५ || भरद्वाजाश्रमरतो भरद्वाजदयाकरः | मकारादीनि त्रिपञ्चाशत् मसारनीलरुचिरो मसारचरणोज्ज्वलः || ६६ || मसारसारसत्कार्यो मसारांशुकभूषितः | माकन्दवनसंचारी माकन्दजनरञ्जकः || ६७ || माकन्दानन्दमन्दारो माकन्दानन्दबन्धुरः | प्. ६२७) मण्डलो मण्डलाधीशो मण्डलात्मा सुमण्डलः || ६८ || मण्डेशो मण्डलान्तमण्डलार्चितमण्डलः | मण्डलावनन्ष्णातो मण्डलावरणी घनः || ६९ || मण्डलस्थो मण्डललाग्र्यो मण्डलाभरणाङ्कितः | मधुदानवसंहर्ता मधुमञ्जुलवाग्भरः || ७० || मधुदानाधिकरतो मधुमङ्गलवैभवः | मधुजेता मधुकरो मधुरो मधुराधिपः || ७१ || मधुवारणसंहर्ता मधुसंतानकारकः | मधुमासातिरुचिरो मधुमासविराजितः || ७२ || मधुपुष्टो मधुतनुर्मधुगो मधुसंवरः | मधुरो मधुराकारो मधुराम्बरभूषितः || ७३ || मधुरानगरीनाथो मधुरासुरभञ्जनः | मधुराहारनिरतो मधुराह्लाददक्षिणः || ७४ || मधुराम्भोजनयनो मधुरधिपसंगतः | मधुरानन्दचतुरो मधुरारातिसंगतः || ७५ || मधुराभरणोल्लासी मधुराङ्गदभूषितः | मृगराजवनीसक्तो मृगमण्डलमण्डितः || ७६ || मृगादरो मृगपतिर्मृगारातिविदारणः | यकारादीनि दश यज्ञप्रियो यज्ञवपुर्यज्ञसंप्रीतमानसः || ७७ || प्. ६२८) यज्ञसंताननिरतो यज्ञसंभारसंभ्रमः | यज्ञयज्ञो यज्ञपदो यज्ञसंपादनोत्सुकः || ७८ || यज्ञशालाकृतावासो यज्ञसंभावितान्नकः | रेफादीनि विंशतिः रसेन्द्रो रससंपन्नो रस राजो रसोत्सुकः || ७९ || रसान्वितो रसधरो रसचेलो रसाकरः | रसजेता रसश्रेष्ठो रसराजाभिरञ्जितः || ८० || रसतत्त्वसमासक्तो रसदारपराक्रमः | रसराजो रसधरो रसेशो रसवल्लभः || ८१ || रसनेता रसावासो रसोत्करविराजितः | लकारादीन्यष्टौ लवङ्गपुष्पसंतुष्टो लवङ्गकुसुमोचितः || ८२ || लवङ्गवनमध्यस्थो लवङ्गकुसुमोत्सुकः | लतावलिसमायुक्तो लतारसमर्चितः || ८३ || लताभिरामतनुभृल्लतातिलकभूषितः | वकारादीनि सप्तदश वीरस्तुतपदाम्भोजो विराजगमनोत्सुकः || ८४ || विराजपत्रमध्यस्थो विराजरससेवितः | वरदो वरसंपन्नो वरसमुन्नतः || ८५ || वरस्तुतिर्वर्धमानो वरधृद् वरसंभवः | प्. ६२९) वरदानरतो वर्यो वरदानसमुत्सुकः || ८६ || वरदानार्द्रहृदयो वरवारणसंयुतः | शकारादीनि पञ्चविंशतिः शारदास्तुतपादाब्जः शारदाम्भोजकीर्तिभृत् || ८७ || शारदाम्भोजनयनः शारदाध्यक्षसेवितः | शारदापीठवसतिः शारदाधिपसंनुतः || ८८ || शारदावासदमनः शारदावासभासुरः | शतक्रतुस्तूयमानः शतक्रतुपराक्रमः || ८९ || शतक्रतुसमैश्वर्यः शतक्रतुमदापहः | शरचापधरः श्रीमान् शरसंभववैभवः || ९० || शरपाण्डरकीर्तिश्रीः शरत्सारसलोचनः | शरसंगमसंपन्नः शरमण्डलमण्डितः || ९१ || शरातिगः शरधरः शरलालनलालसः | शरोद्भवसमाकारः शरयुद्धविशारद || ९२ || शरबृन्दावनरतिः शरसंमतविक्रमः | षकारादीनि षोडश षट्पदः षट्पदाकारः षट्पदावलिसेवितः || ९३ || षट्पदाकारमधुरः षट्पदी षट्पदोद्धतः | षडङ्गवेदविनुतः षडङ्गपदमेदुरः || ९४ || षट्पद्मकवितावासः षड्बिन्दुरचितद्युतिः | षड्बिन्दुमध्यवसतिः षड्बिन्दुविशदीकृतः || ९५ || प्. ६३०) षडाम्नायस्तृयमानः षडाम्नायान्तरस्थितः | षट्छक्तिमङ्गलवृतः षट्चक्रकृतशेखरः || ९६ || सकारादीनि विंशतिः सारसारसरक्ताङ्गः सारसारसलोचनः | सारदीप्तिः सारतनुः सारसाक्षकरप्रियः || ९७ || सारदीपी सारकृपः सारसावनकृज्ज्वलः | सारङ्गसारदमनः सारकल्पितकुण्डलः || ९८ || सारसारण्यवसतिः सारसारवमेदुरः | सारगानप्रियः सारः सारसारसुपण्डितः || ९९ || सद्रक्षकः सदामोदी सदानन्दनदेशिकः | सद्वैद्यवन्द्यचरणः सद्वैद्योज्ज्वलमानसः || १०० || हकारादीनि चतुःषष्टिः हरिजेता हरिरथो हरिसेवापरायणः | हरिवर्णो हरिचरो हरिगो हरिवत्सलः || १०१ || हरिद्रो हरिसंस्तोता हरिध्यानपरायणः | हरिकल्पान्तसंहर्ता हरिसारसमुज्ज्वलः || १०२ || हरिचन्दनलिप्ताङ्गो हरिमानससंमतः | हरिकारुण्यनिरतो हंसमोचनलालसः || १०३ || हरिपुत्राभयकरो हरिपुत्रसमञ्चितः | हरिधारणसांनिध्यो हरिसंमोददायकः || १०४ || हेतिराजो हेतिधरो हेतिनायकसंस्तुतः | प्. ६३१) हेतिर्हरिर्हेतिवपुर्हेतिहा हेतिवर्धनः || १०५ || हेतिहन्ता हेतियुद्धकरो हेतिविभूषणः | हेतिदाता हेतिपरो हेतिमार्गप्रवर्तकः || १०६ || हेतिसंततिसंपूर्णो हेतिमण्डलमण्डितः | हेतिदानपरः सर्वहेत्युग्रपरिभूषितः || १०७ || हंसरूपी हंसगतिर्हंससंनुतवैभवः | हंसमार्गरतो हंसरक्षको हंसनायकः || १०८ || हंसदृग्गोचरतनुर्हंससंगीततोषितः | हंसजेता हंसपतिर्हंसगो हंसवाहनः || १०९ || हंसजो हंसगमनो हंसराजसुपूजितः | हंसवेगो हंसधरो हंससुन्दरविग्रहः || ११० || हंसवत् सुन्दरतनुर्हंससंगतमानसः | हंसस्वरूपसारज्ञो हंससंनतमानसः || १११ || हंससंस्तुतसामर्थ्यो हरिरक्षणतत्परः | हंससंस्तुतमाहात्म्यो हरपुत्रपराक्रमः || ११२ || क्षकारादीनि द्वादश नामानि क्षीरार्णवसमुद्भूतः क्षीरसंभवभावितः | क्षीराब्धिनाथसंयुक्तः क्षीरकीर्तिविभासुरः || ११३ || क्षणदारवसंहर्ता क्षणदारवसंमतः | क्षणदाधीशसंयुक्तः क्षणदानकृतोत्सवः || ११४ || क्षीराभिषेकसंतुष्ट क्षीरपानाभिलाषुकः | प्. ६३२) क्षीराज्यभोजनासक्तः क्षीरसंभववर्णकः || ११५ || फलश्रुतिः इत्येतत् कथितं दिव्यं सर्वपापप्रणाशनम् | सर्वशत्रुक्षयकरं सर्वसंपत्प्रदायकम् || ११६ || सर्वसौभाग्यजनकं सर्वमङ्गलकारकम् | सर्वादारिद्र्यशमनं सर्वोपद्रवनाशनम् || ११७ || सर्वशान्तिकरण् गुह्यं सर्वरोगनिवारणम् | अतिबन्धग्रहहरं सर्वदुःखनिवारकम् || ११८ || नाम्नां सहस्रं दिव्यानां चक्रराजस्य तत्पतेः | नामानि हेतिराजस्य ये पठन्तीह मानवाः | तेषां भवन्ति सकलाः संपदो नात्र संशयः || ११९ || इत्यहिर्बुध्न्यसंहितायां तन्त्ररहस्ये व्यासनारदसंवादे श्रीसुदर्शनसहस्रनामस्तोत्रं संपूर्णम् (१) ________________ १ यथोक्तानां नाम्नां परिगणने, तेषां संख्या षष्ट्युत्तराणि पञ्चशतानि नातिक्रामति | तत्र किमेतावत्स्वेव नामसु सहस्रनामशब्द औपचारिकः प्रयुक्तः, उत मध्ये मध्ये ग्रन्थलोपान्नामसहस्रसंख्याया अपूर्तिरिति | प्रबलतरेण प्रमाणेन विना सहस्रनामशब्दस्यौपचारिकत्वकल्पनानौचित्यं ग्रन्थलोपावश्यकतामुद्भावयति | आदर्शीकृतयोरज्ञातपरस्पर- वृत्तान्तयोर्भिन्नदेशादानीतयोर्द्वयोर्मातृकाकोशयोर्दैवादापतित- मैकरूप्यं तु ग्रन्थलोपसद्भावशङ्कां प्रतिरुणद्धि | ________________ ########### END OF FILE #######